अक्षर आकार:

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

Shri GuruvAtapurAdhIshAShTottarashatanAmastotram

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

ध्यानम् - पीताम्बरं करविराजितशङ्खचक्र- कौमोदकीसरसिजं करुणासमुद्रम् । राधासहायमतिसुन्दरमन्दहासं वातालयेशमनिशां हृदि भावयामि ॥ कृष्णो वातपुराधीशः भक्तकल्पद्रुमः प्रभुः । रोगहन्ता परं धामा कलौ सर्वसुखप्रदः ॥ १॥ वातरोगहरो विष्णुः उद्धवादिप्रपूजितः । भक्तमानससंविष्टः भक्तकामप्रपूरकः ॥ २॥ लोकविख्यातचारित्रः शङ्कराचार्यपूजितः । पाण्ड्येशविषहन्ता च पाण्ड्यराजकृतालयः ॥ ३॥ नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसः । नारायणसरस्तीरवासी नारदपूजितः ॥ ४॥ विप्रनित्यान्नदाता च विविधाकृतिशोभितः । तैलाभिषेकसन्तुष्टः सिक्ततैलार्तिहारकः ॥ ५॥ कौपीनदरुजाहन्ता पीताम्बरधरोऽव्ययः । क्षीराभिषेकात्सौभाग्यदाता कलियुगप्रभुः ॥ ६॥ निर्माल्यदर्शनाद्भक्तचित्तचिन्तानिवारकः । देवकीवसुदेवात्तपुण्यपुञ्जोऽघनाशकः ॥ ७॥ पुष्टिदः कीर्तिदो नित्यकल्याणततिदायकः । मन्दारमालासंवीतः मुक्तादामविभूषितः ॥ ८॥ पद्महस्तश्चक्रधारी गदाशङ्खमनोहरः । गदापहन्ता गाङ्गेयमोक्षदाता सदोत्सवः ॥ ९॥ गानविद्याप्रदाता च वेणुनादविशारदः । भक्तान्नदानसन्तुष्टः वैकुण्ठीकृतकेरळः ॥ १०॥ तुलाभारसमायातजनसर्वार्थदायकः । पद्ममाली पद्मनाभः पद्मनेत्रः श्रियःपतिः ॥ ११॥ पादनिस्सृतगाङ्गोदः पुण्यशालिप्रपूजितः । तुळसीदामसन्तुष्टः विल्वमङ्गळपूजितः ॥ १२॥ पून्तानविप्रसन्दृष्टदिव्यमङ्गळविग्रहः । पावनः परमो धाता पुत्रपौत्रप्रदायकः ॥ १३॥ महारोगहरो वैद्यनाथो वेदविदर्चितः । धन्वन्तरिर्धर्मरूपो धनधान्यसुखप्रदः ॥ १४॥ आरोग्यदाता विश्वेशः विधिरुद्रादिसेवितः । वेदान्तवेद्यो वागीशः सम्यग्वाक्छक्तिदायकः ॥ १५॥ मन्त्रमूर्तिर्वेदमूर्तिः तेजोमूर्तिः स्तुतिप्रियः । पूर्वपुण्यवदाराध्यः महालाभकरो महान् ॥ १६॥ देवकीवसुदेवादिपूजितो राधिकापतिः । श्रीरुक्मिणीसत्यभामासंलालितपदाम्बुजः ॥ १७॥ कन्याषोडशसाहस्रकण्ठमाङ्गल्यसूत्रदः । अन्नप्राशनसम्प्राप्तबहुबालसुखप्रदः ॥ १८॥ गुरुवायुसुसङ्क्लृप्तसत्प्रतिष्ठः सुरार्चितः । पायसान्नप्रियो नित्यङ्गजराशिसमुज्ज्वलः ॥ १९॥ पुराणरत्नपठनश्रवणानन्दपूरितः । माङ्गल्यदाननिरतः दक्षिणद्वारकापतिः ॥ २०॥ दीपायुतोत्थसज्ज्वालाप्रकाशितनिजालयः । पद्ममालाधरः श्रीमान् पद्मनाभोऽखिलार्थदः ॥ २१॥ आयुर्दाता मृत्युहर्ता रोगनाशनदीक्षितः । नवनीतप्रियो नन्दनन्दनो रासनायकः ॥ २२॥ यशोदापुण्यसञ्जातः गोपिकाहृदयस्थितः । भक्तार्तिघ्नो भव्यफलः भूतानुग्रहतत्परः । दीक्षितानन्तरामोक्तनामसुप्रीतमानसः ॥ २३॥ गुरुवातपुरीशस्य नाम्नामष्टोत्तरं शतम् । दीक्षितानन्तरामेण भक्त्या स्तोत्रं कृतं महत् ॥ २४॥ श्रद्धायुक्तः पठेन्नित्यं स्मरन् वातपुराधिपम् । तस्य देवो वासुदेवः सर्वार्थफलदो भवेत् ॥ २५॥ इति ब्रह्मश्री सेंगलीपुरं अनन्तरामदीक्षितविरचितं श्रीगुरुवातपुरीशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥