अक्षर आकार:

श्रीगुरुवायुपुराधीशाष्टोत्तरशतनामावलिः

Shri Guruvayupuradhisha Ashtottarashatanamavali

श्रीगुरुवायुपुराधीशाष्टोत्तरशतनामावलिः

ॐ श्रीकृष्णाय नमः । ॐ वातपुराधीशाय नमः । ॐ भक्तकल्पद्रुमाय नमः । ॐ प्रभवे नमः । ॐ रोगहन्त्रे नमः । ॐ परं धाम्ने नमः । ॐ कलौ सर्वसुखप्रदाय नमः । ॐ वातरोगहराय नमः । ॐ विष्णवे नमः । ॐ उद्धवादिप्रपूजिताय नमः । १० ॐ भक्तमानससंविष्टाय नमः । ॐ भक्तकामप्रपूरकाय नमः । ॐ लोकविख्यातचारित्राय नमः । ॐ शङ्कराचार्यपूजिताय नमः । ॐ पाण्ड्येशविषहन्त्रे नमः । ॐ पाण्ड्यराजकृतालयाय नमः । ॐ नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसाय नमः । ॐ नारायणसरस्तीरवासिने नमः । ॐ नारदपूजिताय नमः । ॐ विप्रनित्यान्नदात्रे नमः । २० ॐ विविधाकृतिशोभिताय नमः । ॐ तैलाभिषेकसन्तुष्टाय नमः । ॐ सिक्ततैलार्तिहारकाय नमः । ॐ कौपीनदरुजाहन्त्रे नमः । ॐ पीताम्बरधराय नमः । ॐ अव्ययाय नमः । ॐ क्षीराभिषेकात् सौभाग्यदात्रे नमः । ॐ कलियुगप्रभवे नमः । ॐ निर्माल्यदर्शनात् भक्तचित्तचिन्तानिवारकाय नमः । ॐ देवकीवसुदेवात्तपुण्यपुञ्जाय नमः । ३० ॐ अघनाशकाय नमः । ॐ पुष्टिदाय नमः । ॐ कीर्तिदाय नमः । ॐ नित्यकल्याणततिदायकाय नमः । ॐ मन्दारमालासंवीताय नमः । ॐ मुक्तादामविभूषिताय नमः । ॐ पद्महस्ताय नमः । ॐ चक्रधारिणे नमः । ॐ गदाशङ्खमनोहराय नमः । ॐ गदापहन्त्रे नमः । ४० ॐ गाङ्गेयमोक्षदात्रे नमः । ॐ सदोत्सवाय नमः । ॐ गानविद्याप्रदात्रे नमः । ॐ वेणुनादविशारदाय नमः । ॐ भक्तान्नदानसन्तुष्टाय नमः । ॐ वैकुण्ठीकृतकेरलाय नमः । ॐ तुलाभारसमायातजनसर्वार्थदायकाय नमः । ॐ पद्ममालिने नमः । ॐ पद्मनाभाय नमः । ॐ पद्मनेत्राय नमः । ५० ॐ श्रियःपतये नमः । ॐ पादनिःसृतगाङ्गोदाय नमः । ॐ पुण्यशालिप्रपूजिताय नमः । ॐ तुलसीदामसन्तुष्टाय नमः । ॐ बिल्वमङ्गलपूजिताय नमः । ॐ पून्तानविप्रसंदृष्टदिव्यमङ्गलविग्रहाय नमः । ॐ पावनाय नमः । ॐ परमाय नमः । ॐ धात्रे नमः । ॐ पुत्रपौत्रप्रदायकाय नमः । ६० ॐ महारोगहराय नमः । ॐ वैद्यनाथाय नमः । ॐ वेदविदर्चिताय नमः । ॐ धन्वन्तरये नमः । ॐ धर्मरूपाय नमः । ॐ धनधान्यसुखप्रदाय नमः । ॐ आरोग्यदात्रे नमः । ॐ विश्वेशाय नमः । ॐ विधिरुद्रादिसेविताय नमः । ॐ वेदान्तवेद्याय नमः । ७० ॐ वागीशाय नमः । ॐ सम्यग्वाक्छक्तिदायकाय नमः । ॐ मन्त्रमूर्तये नमः । ॐ वेदमूर्तये नमः । ॐ तेजोमूर्तये नमः । ॐ स्तुतिप्रियाय नमः । ॐ पूर्वपुण्यवदाराध्याय नमः । ॐ महालाभकराय नमः । ॐ महते नमः । ॐ देवकीवसुदेवादिपूजिताय नमः । ८० ॐ राधिकापतये नमः । ॐ श्रीरुक्मिणीसत्यभामासंलालितपदाम्बुजाय नमः । ॐ कन्याषोडशसाहस्रकण्ठमाङ्गल्यसूत्रदाय नमः । ॐ अन्नप्राशनसम्प्राप्तबहुबालसुखप्रदाय नमः । ॐ गुरुवायुसुसंकॢप्तसप्रतिष्ठाय नमः । ॐ सुरार्चिताय नमः । ॐ पायसान्नप्रियाय नमः । ॐ नित्यङ्गजराशिसमुज्ज्वलाय नमः । ॐ पुराणरत्नपठनश्रवणानन्दपूरिताय नमः । ॐ माङ्गल्यदाननिरताय नमः । ९० ॐ दक्षिणद्वारकापतये नमः । ॐ दीपायुतोत्थसज्ज्वालाप्रकाशितनिजालयाय नमः । ॐ पद्ममालाधराय नमः । ॐ श्रीमते नमः । ॐ पद्मनाभाय नमः । ॐ अखिलार्थदाय नमः । ॐ आयुर्दात्रे नमः । ॐ मृत्युहर्त्रे नमः । ॐ रोगनाशनदीक्षिताय नमः । ॐ नवनीतप्रियाय नमः । १०० ॐ नन्दनन्दनाय नमः । ॐ रासनायकाय नमः । ॐ यशोदापुण्यसञ्जाताय नमः । ॐ गोपिकाहृदयस्थिताय नमः । ॐ भक्तार्तिघ्नाय नमः । ॐ भव्यफलाय नमः । ॐ भूतानुग्रहतत्पराय नमः । ॐ दीक्षितानन्तरामोक्तनामसुप्रीतमानसाय नमः । १०८ ॐ श्रीगुरुवायुपुराधीशाय नमः । इति ब्रह्मश्री सेंगलीपुरं अनन्तरामदीक्षितारविरचिता श्रीगुरुवायुपुराधीश अथवा वातपुराष्टोत्तरशतनामावलिः समाप्ता ॥