अक्षर आकार:

गुरुमरुत्पुराधीशस्तोत्रम्

Gurumarutpuradhisha Stotram

गुरुमरुत्पुराधीशस्तोत्रम्

गरुडवाहनं पुण्यदर्शनं वरझषाकृतिं वेदसङ्ग्रहम् । प्रलयकालजीवात्मतारकं गुरुमरुत्पुराधीशामाश्रये ॥ १॥ प्रणवमानसं प्राणजीवनं प्रकटकच्छपाकारमीश्वरम् । अमृतदायकं नित्यनूतनं गुरुमरुत्पुराधीशमाश्रये ॥ २॥ सुकृतकल्पकं सामतोषितं सकलवैष्णवाकारसूकरम् । भुवनभूषणालङ्कृतं विभुं गुरुमरुत्पुराधीशामाश्रये ॥ २॥ वरदमीश्वरं नारसिंहकं वपुषि भीकरं पुण्यपूरकम् । सुरगणावृतं भक्तवत्सलं गुरुमरुत्पुराधीशमाश्रये ॥ ४॥ चरितविश्रुतं वामनाकृतिं परमपूरुषं यागसाधकम् । परपदप्रदं पापनाशकं गुरुमरुत्पुराधीशामाश्रये ॥ ५॥ भृगुकुलोद्भवं रामनामकं सुगुणभासुरं रेणुकात्मजम् । नृवरतापसं केरळाधिपं गुरुमरुत्पुराधीशमाश्रये ॥ ६॥ दशरथात्मजं रामभद्रकं शारधनुर्धरं रावणान्तकम् । पुरुषमव्ययं श्रीनिकेतनं गुरुमरुत्पुराधीशमाश्रये ॥ ७॥ वरहलायुधं रोहिणीसुतं गिरिधराग्रजं रामदैवतम् । गजगणप्रियं धीमतां वरं गुरुमरुत्पुराधीशमाश्रये ॥ ८॥ धृतसुदर्शनं कृष्णमच्युतं विजयसारथिं गीतसारसम् । पशुपगोपिकानर्तनप्रियं गुरुमरुत्पुराधीशामाश्रये ॥ ९॥ दशविधाकृतिं कल्किवैभवं भुजगतल्पगं भूतभावनम् । निखिलरोगसंहारकारकं गुरुमरुत्पुराधीशमाश्रये ॥ १०॥ दशककीर्तनं श्रीधरात्मकं पदमनामयं ईश्वरार्पितम् । परममङ्गळं भाग्यदायकं गुरुमरुत्पुराधीशामाश्रये ॥ ११॥ इति पालक्कुलं त्रिविक्रमन् नम्पूतिरिविरचितं गुरमरुत्पुराधीशस्तोत्रं सम्पूर्णम् ।