अक्षर आकार:

गोपालहृदयस्तोत्रम्

gopAlahRidayastotram

गोपालहृदयस्तोत्रम्

विष्णुहृदयस्तोत्रम् श्री गणेशाय नमः । ॐ अस्य श्रीगोपालहृदयस्तोत्रमन्त्रस्य । श्रीभगवान् सङ्कर्षण ऋषिः । गायत्री छन्दः । ॐ बीजम् । लक्ष्मीः शक्तिः । गोपालः परमात्मा देवता । प्रद्युम्नः कीलकम् । मनोवाक्कायार्जितसर्वपापक्षयार्थे श्रीगोपालप्रीत्यर्थे गोपालहृदयस्तोत्रजपे विनियोगः । श्रीसङ्कर्षण उवाच । ॐ ममाग्रतः सदा विष्णुः पृष्ठतश्चापि केशवः । गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूदनः ॥ १॥ उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले । अवान्तरदिशः पातु तासु सर्वासु माधवः ॥ २॥ गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । नरसिंहकृताद्गुप्तिर्वासुदेवमयो ह्ययम् ॥ ३॥ अव्यक्तं चैवास्य योनिं वदन्ति व्यक्तं देहं दीर्घमायुर्गतिश्च । वह्निर्वक्त्रं चन्द्रसूर्यौ च नेत्रे दिशः श्रोते घ्राणमायुश्च वायुम् ॥ ४॥ वाचं वेदा हृदयं वै नभश्च पृथ्वी पादौ तारका रोमकूपाः । अङ्गान्युपाङ्गान्यधिदेवता च विद्यादुपस्थं हि तथा समुद्रम् ॥ ५॥ तं देवदेवं शरणं प्रजानां यज्ञात्मकं सर्वलोकप्रतिष्ठम् । अजं वरेण्यं वरदं वरिष्ठं ब्रह्माणमीशं पुरुषं नमस्ते ॥ ६॥ आद्यं पुरुषमीशानं पुरुहूतं पुरस्कृतम् । ऋतमेकाक्षरं ब्रह्म व्यक्तासक्तं सनातनम् ॥ ७॥ महाभारतमाख्यानं कुरुक्षेत्रं सरस्वतीम् । केशवं गां च गङ्गां च कीर्तयेन्मां प्रसीदति ॥ ८॥ ॐ भूः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ भुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ महः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ जनः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ तपः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ सत्यं पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ भूर्भुवः स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ वासुदेवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ सङ्कर्षणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ प्रद्युम्नाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ अनिरुद्धाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ हयग्रीवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ भवाद्भवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ केशवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ नारायणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ माधवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ गोविन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ विष्णवे पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ मधुसूदनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ वैकुण्ठाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ अच्युताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ त्रिविक्रमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ वामनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ श्रीधराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ हृषीकेशाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ पद्मनाभाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ मुकुन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ दामोदराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ सत्याय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ ईशानाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ तत्पुरुषाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ पुरुषोत्तमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ श्री रामचन्द्राय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ श्री नृसिंहाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ अनन्ताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ विश्वरूपाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । ॐ प्रणवेन्दुवह्निरविसहस्रनेत्राय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । य इदं गोपालहृदयमधीते स ब्रह्महत्यायाः पूतो भवति । सुरापानात् स्वर्णस्तेयात् वृषलीगमनात् पति सम्भाषणात् असत्यादगम्यागमनात् अपेयपानादभक्ष्यभक्षणाच्च पूतो भवति । अब्रह्मचारी ब्रह्मचारी भवति । भगवान्महाविष्णुरित्याह । ॥ इति गोपालहृदयस्तोत्रं सम्पूर्णम् ॥