अक्षर आकार:

श्रीगोपीजनवल्लभाष्टकम्

shrIgopIjanavallabhAShTakam

श्रीगोपीजनवल्लभाष्टकम्

॥ अथ श्रीगोपीजनवल्लभाष्टकम् ॥ सरोजनेत्राय कृपायुताय मन्दारमालापरिभूषिताय । उदारहासाय ससन्मुखाय नमोऽस्तु गोपीजनवल्लभाय ॥ १॥ आनन्दनन्दादिकदायकाय बकीबकप्राणविनाशकाय । मृगेन्द्रहस्ताग्रजभूषणाय नमोऽस्तु गोपीजनवल्लभाय ॥ २॥ गोपाललीलाकृतकौतुकाय गोपालकाजीवनजीवनाय । भक्तैकगम्याय नवप्रियाय नमोऽस्तु गोपीजनवल्लभाय ॥ ३॥ मन्थानभाण्डाखिलभञ्जनाय हैयङ्गवीनाशनरञ्जनाय । गोस्वादुदुग्धामृतपोषिताय नमोऽस्तु गोपीजनवल्लभाय ॥ ४॥ कलिन्दजाकूलकुतूहलाय किशोररूपाय मनोहराय । पिशङ्गवस्त्राय नरोत्तमाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५॥ धराधराभाय धराधराय श‍ृङ्गारहारावलिशोभिताय । समस्तगर्गोक्तिसुलक्षणाय नमोऽस्तु गोपीजनवल्लभाय ॥ ६॥ इभेन्द्रकुम्भस्थलखण्डनाय विदेशवृन्दावनमण्डनाय । हंसाय कंसासुरमर्दनाय नमोऽस्तु गोपीजनवल्लभाय ॥ ७॥ श्रीदेवकीसूनुविमोक्षणाय क्षत्तोद्धवाक्रूरवरप्रदाय । गदारिशङ्खाब्जचतुर्भुजाय नमोऽस्तु गोपीजनवल्लभाय ॥ ८॥ ॥ इति श्रीवल्लभाचार्यविरचितं श्रीगोपीजनवल्लभाष्टकं सम्पूर्णम् ॥