अक्षर आकार:

गोपालस्तुतिः

gopAlastutiH

गोपालस्तुतिः

श्रीगणेशाय नमः ॥ गोधूलिधूसरतनो करुणैकपात्र नारायणाभयद गोपजनाभिराम । गोगोपिकानयनरञ्जनवंशपाणे वेदान्तवेद्य मम देहि करावलम्बम् ॥ १॥ आभीरदारमुखपङ्कजसौरभोत्थमाध्वीसुधादनपटो नवनीतचोर । गोपाङ्गनाङ्गपरिरम्भणजातहास वेदान्तवेद्य मम देहि करावलम्बम् ॥ २॥ गोवर्द्धनोद्धरणखेदभवोदविन्दुसंसिक्तसुन्दरमुखाब्जदयार्द्रदृष्टे । लावण्यधाम सुरवन्दितपादपद्म वेदान्तवेद्य मम देहि करावलम्बम् ॥ ३॥ सूर्यात्मजातटसमुद्भवनीपवृक्षशाखाधिरोहजनितद्विगुणाङ्गकान्ते । वंशीरवेण धवलीतिकृताभिशब्द वेदान्तवेद्य मम देहि करावलम्बम् ॥ ४॥ सव्येन पाणिकमलेन विधाय भक्ष्यमास्वादयन्तमपरेण विलोलनेत्र । त्वां देवताश्च मुनयः प्रविलोकयन्ति वेदान्तवेद्य मम देहि करावलम्बम् ॥ ५॥ लक्ष्मीपते तरुणवारिजपत्रनेत्र पीताम्बरार्जुनसख स्मरसुन्दराङ्ग । नारायणाच्युत जनार्दन चक्रपाणे वेदान्तवेद्य मम देहि करावलम्बम् ॥ ६॥ ब्रह्मेन्द्ररुद्रमरुदश्विसहस्ररश्मिनाराधिपान्तककुबेरविशालदक्ष । मारीचकश्यपसनातनवन्दिताङ्घ्रे वेदान्तवेद्य मम देहि करावलम्बम् ॥ ७॥ नमः पद्मनाभारविन्दाक्ष विष्णो नमस्ते हृषीकेश जिष्णो नमस्ते । नमो वासुदेवाखिलाधार भूमन्नमस्ते सुराधीश ते विश्वरूप ॥ ८॥ नमः कैटभारे मुरारे खरारे नमो दानवारे नमो रावणारे । नमः कंसविध्वंसनारिष्टशत्रो नमो धेनुकारे नमः पूतनारे ॥ ९॥ नमः शङ्खपाणे नमश्चक्रपाणे नमः शार्ङ्गपाणे नमः पद्मपाणे । नमो वेदरूपाय तुभ्यं पराय नमो यज्ञभोक्त्रे नमस्तेऽगुणाय ॥ १०॥ अजा रुद्रधाताऽऽदिदेवाः स्वरूपं परं नाभिजानन्ति मायामयेशम् । यजन्तीह नित्यं ततः स्थूलरूपं प्रसीदाशु मे दीनबन्धो रमेश ॥ ११॥ संसारपाशदृढबन्धनिपीडितस्य मोहान्धकारभयकूपनिपातितस्य । कामाभिलाषविविधोरगदंशितस्य दीनस्य मे कुरु दयां करुणैकपात्र ॥ १२॥ आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपाकरः । अनन्यगतिकं नाथ कथं मां समुपेक्षसे ॥ १३॥ आकर्णयाशु कृपणस्य कृपावचांसि लब्धोऽसि नाथ बहुभिः किल जन्मसङ्गः । अद्य प्रभो यदि दयां कुरुषे न मे त्वं त्वत्तः परं कथय कं शरणं श्रयामि ॥ १४॥ श्रीयादवेन्द्र करुणार्णव विश्वरूप लक्ष्मीनिवास सुरवन्दितपादपद्म । त्वामागतोऽस्मि शरणं सकलत्रपुत्रो यद्रोचते भगवते कुरु तन्नमस्ते ॥ १५॥ इति गोपालस्तुतिः सम्पूर्णा ।