अक्षर आकार:

श्रीगोपालस्तवः

shrIgopAlastavaH

श्रीगोपालस्तवः

येन मीनस्वरूपेण वेदाः संरक्षिताः पुरा । स एव वेदसंहर्ता गोपालः शरणं मम ॥ १॥ पृष्ठे यः कूर्मरूपेण दधार धरणीतलम् । स एव सृष्टिसंहर्ता गोपालः शरणं मम ॥ २॥ वराहरूपः सम्भूत्या दंष्टाग्रे यो महीं दधौ । सभूमिभारहरणो गोपालः शरणं मम ॥ ३॥ जग्राह यो नृसिंहस्य रूपं प्रह्लादहेतवे । स योद्धुमुद्यतः सम्यक् गोपालः शरणं मम ॥ ४॥ येन वामनरूपेण वञ्चितो बलिभूमिपः । स एव गोपनारीभिर्गोपालः शरणं मम ॥ ५॥ येनेयं जामदग्न्येन पृथ्वी निःक्षत्रिया कृता । स एव क्षत्रियहितो गोपालः शरणं मम ॥ ६॥ दशास्यो दाशरथिना येन रामेण मारितः । स पञ्चास्यप्राप्तबलो गोपालः शरणं मम ॥ ७॥ कालिन्दी कर्षिता येन रामरूपेण कौतुकात् । तज्जलक्रीडनासक्तो गोपालः शरणं मम ॥ ८॥ येन बौद्धस्वरूपेण लोकाः पाखण्डमार्गगाः । स एव पाखण्डहरो गोपालः शरणं मम ॥ ९॥ गमिष्यन्ति क्षयं येन राक्षसाः कल्किरूपिणा । स रक्षसां गतिर्दाता गोपालः शरणं मम ॥ १०॥ गोवर्धनो गिरिर्येन स्थापितः कञ्जवत्करे । उलूखलेन सहितो गोपालः शरणं मम ॥ ११॥ एकादश स्वीयधाम्नामावलिं यो लिखेत् हृदि । कृष्णप्रसादयुक्तश्च स याति परमां गतिम् ॥ १२॥ इति श्रीरधुनाथवर्यविरचितो गोपालस्तवः समाप्तः ।