अक्षर आकार:

श्रीगोपालशतनामस्तोत्रम्

shrIgopAlashatanAmastotram

श्रीगोपालशतनामस्तोत्रम्

श्रीगणेशाय नमः ॥ पार्वत्युवाच देवदेव महादेव सर्ववाञ्छाप्रपूरक । पुरा प्रियं देवदेव कृष्णस्य परमाद्भुतम् ॥ १॥ नाम्नां शतं समासेन कथायामीति सूचितम् । श्रीभगवानुवाच । श‍ृणु प्राणप्रिये देवि गोपनादतिगोपितम् ॥ २॥ मम प्राणस्वरूपं च तव स्नेहात्प्रकाश्यते । यस्यैकवारं पठनात्सर्वयज्ञफलं लभेत् ॥ ३॥ मोहनस्तम्भनाकर्षपठनाज्जायते नृणाम् । स मुक्तः सर्वपापेभ्यो यस्य स्मरणमात्रतः ॥ ४॥ स्वयमायान्ति तस्यैव निश्चलाः सर्वसम्पदः । राजानो दासतां यान्ति वह्नयो यान्ति शीतताम् ॥ ५॥ जलस्तम्भं रिपुस्तम्भं शत्रूणां वञ्चनं तथा । ॐअस्य श्रीगोपालशतनामस्तोत्रस्य नारदऋषिः अनुष्टुप् छन्दः श्रीगोपालः परमात्मा देवता । श्रीगोपालप्रीत्यर्थे शतनामपाठे विनियोगः। ॐगोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः । गम्भीरो गगनो गोपीप्राणभृत् प्राणधारकः ॥ ६॥ पतितानन्दनो नन्दी नन्दीशः कंससूदनः । नारायणो नरत्राता नरकार्णवतारकः ॥ ७॥ नवनीतप्रियो नेता नवीनघनसुन्दरः । नवबालकवात्सल्यो ललितानन्दतत्परः ॥ ८॥ पुरुषार्थप्रदः प्रेमप्रवीणः परमाकृतिः । करुणः करुणानाथः कैवल्यसुखदायकः ॥ ९॥ कदम्बकुसुमावेशी कदम्बवनमन्दिरः । कादम्बीविमदामोदघूर्णलोचनपङ्कजः ॥ १०॥ कामी कान्तकलानन्दी कान्तः कामनिधिः कविः । कौमोदकी गदापाणिः कवीन्द्रो गतिमान् हरः ॥ ११॥ कमलेशः कलानाथः कैवल्यः सुखसागरः । केशवः केशिहा केशः कलिकल्मषनाशनः ॥ १२॥ कृपालुः करुणासेवी कृपोन्मीलितलोचनः । स्वच्छन्दः सुन्दरः सुन्दः सुरवृन्दनिषेवितः ॥ १३॥ सर्वज्ञः सर्वदो दाता सर्वपापविनाशनः । सर्वाह्लादकरः सर्वः सर्ववेदविदां प्रभुः ॥ १४॥ वेदान्तवेद्यो वेदात्मा वेदप्राणकरो विभुः । विश्वात्मा विश्वविद्विश्वप्राणदो विश्ववन्दितः ॥ १५॥ विश्वेशः शमनस्त्राता विश्वेश्वरसुखप्रदः । विश्वदो विश्वहारी च पूरकः करुणानिधिः ॥ १६॥ धनेशो धनदो धन्वी धीरो धीरजनप्रियः । धरासुखप्रदो धाता दुर्धरान्तकरो धरः ॥ १७॥ रमानाथो रमानन्दो रसज्ञो हृदयास्पदः । रसिको रासदो रासी रासानन्दकरो रसः ॥ १८॥ राधिकाऽऽराधितो राधाप्राणेशः प्रेमसागरः । नाम्नां शतं समासेन तव स्नेहात्प्रकाशितम् ॥ १९॥ अप्रकाश्यमयं मन्त्रो गोपनीयः प्रयत्नतः । यस्य तस्यैकपठनात्सर्वविद्यानिधिर्भवेत् ॥ २०॥ पूजयित्वा दयानाथं ततः स्तोत्रमुदीरयेत् । पठनाद्देवदेवेशि भोगमुक्तफलं लभेत् ॥ २१॥ सर्वपापविनिर्मुक्तः सर्वदेवाधिपो भवेत् । जपलक्षेण सिद्धं स्यात्सत्यं सत्यं न संशयः । किमुक्तेनैव बहुना विष्णुतुल्यो भवेन्नरः ॥ २२॥ इति श्रीहरगौरीसंवादे श्रीगोपालशतनामस्तोत्रं सम्पूर्णम् ।