अक्षर आकार:

श्रीगोपालसहस्रनामस्तोत्रम् २ अथवा बालकृष्णसहस्रनामस्तोत्रम्

Shri Gopala Sahasranamastotram 2

श्रीगोपालसहस्रनामस्तोत्रम् २ अथवा बालकृष्णसहस्रनामस्तोत्रम्

नारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे अष्टमोऽध्यायः श्रीपार्वत्युवाच । भगवन् सर्वदेवेश ! देवदेव ! जगद्गुरो । कथितं कवचं दिव्यं बालगोपालरूपिणम् ॥ १॥ श्रुतं मया तव मुखात् परं कौतूहलं मम । इदानीं श्रोतुमिच्छामि गोपालस्य परमात्मनः ॥ २॥ सहस्रं नाम्नां दिव्यानामशेषेणानुकीर्त्तय । तमेव शरणं नाथ त्राहि मां भक्तवत्सल ॥ ३॥ यदि स्नेहोऽस्ति देवेश मां प्रति प्राणवल्लभ । केन प्रकाशितं पूर्व कुत्र किं वा कदा क्व नु ॥ ३॥ पिबतोऽच्युतपीयूषं न मेऽत्रास्ति निरामता ॥ ४॥ श्रीमहादेव उवाच । श्रीबालकृष्णस्य सहस्रनाम्नः स्तोत्रस्य कल्पाख्यसुरद्रुमस्य । व्यासो वदत्यखिलशास्त्रनिदेशकर्ता श‍ृण्वन् शुकं मुनिगणेषु सुरर्षिवर्यः ॥ ५॥ पुरा महर्षयः सर्वे नारदं दण्डके वने जिज्ञासान्ति स्म भक्त्या च गोपालस्य परात्मनः ॥ ६॥ नाम्नः सहस्रं परमं श‍ृणु देवि ! समासतः । श्रुत्वा श्रीबालकृष्णस्य नाम्नः साहस्रकं प्रिये ॥ ७॥ व्यपैति सर्वपापानि ब्रह्महत्यादिकानि च । कलौ बालेश्वरो देवः कलौ वृन्दावनं वनम् ॥ ८॥ कलौ गङ्गौ मुक्तिदात्री कलौ गीता परागतिः । नास्ति यज्ञादिकार्याणि हरेर्नामैव केवलम् । कलौ विमुक्तये नॄणां नास्त्येव गतिरन्यथा ॥ ९॥ विनियोगः - अस्य श्रीबालकृष्णस्य सहस्रनामस्तोत्रस्य नारद ऋषिः श्रीबालकृष्णो देवता पुरुषार्थसिद्धये जपे विनियोगः । बालकृष्णः सुराधीशो भूतावासो व्रजेश्वरः । व्रजेन्द्रनन्दनो नन्दी व्रजाङ्गनविहारणः ॥ १०॥ गोगोपगोपिकानन्दकारको भक्तिवर्धनः । गोवत्सपुच्छसङ्कर्षजातानन्दभरोऽजयः ॥ ११॥ रिङ्गमाणगतिः श्रीमानतिभक्तिप्रकाशनः । धूलिधूसर सर्वाङ्गो घटीपीतपरिच्छदः ॥ १२॥ पुरटाभरणः श्रीशो गतिर्गतिमतां सदा । योगीशो योगवन्द्याश्च योगाधीशो यशःप्रदः ॥ १३॥ यशोदानन्दनः कृष्णो गोवत्सपरिचारकः । गवेन्द्रश्च गवाक्षश्च गवाध्यक्षो गवां गति ॥ १४॥ गवेशश्च गवीशश्च गोचारणपरायणः । गोधूलिधामप्रियको गोधूलिकृतभूषणः ॥ १५॥ गोरास्यो गोरसाशोगो गोरसाञ्चितधामकः । गोरसास्वादको वैद्यो वेदातीतो वसुप्रदः ॥ १६॥ विपुलांशो रिपुहरो विक्षरो जयदो जयः । जगद्वन्द्यो जगन्नाथो जगदाराध्यपादकः ॥ १७॥ जगदीशो जगत्कर्ता जगत्पूज्यो जयारिहा । जयतां जयशीलश्च जयातीतो जगद्बलः ॥ १८॥ जगद्धर्ता पालयिता पाता धाता महेश्वरः । राधिकानन्दनो राधाप्राणनाथो रसप्रदः ॥ १९॥ राधाभक्तिकरः शुद्धो राधाराध्यो रमाप्रियः । गोकुलानन्ददाता च गोकुलानन्दरूपधृक् ॥ २०॥ गोकुलेश्वरकल्याणो गोकुलेश्वरनन्दनः । गोलोकाभिरितिः स्रग्वी गोलोकेश्वरनायकः ॥ २१॥ नित्यं गोलोकवसतिर्नित्यं गोगोपनन्दनः । गणेश्वरो गणाध्यक्षो गणानां परिपूरकः ॥ २२॥ गुणा गुणोत्करो गण्यो गुणातीतौ गुणाकरः । गुणप्रियो गुणाधारो गुणाराध्यो गणाग्रणी ॥ २३॥ गणनायको विघ्नहरो हेरम्बः पार्वतीसुतः । पर्वताधिनिवासी च गोवर्धनधरो गुरुः ॥ २४॥ गोवर्धनपतिः शान्तो गोवर्धनविहारकः । गोवर्धनो गीतगतिर्गवाक्षो गोवृक्षेक्षणः ॥ २५॥ गभस्तिनेमिर्गीतात्मा गीतगम्यो गतिप्रदः । गवामयो यज्ञनेमिर्यज्ञाङ्गो यज्ञरूपधृक् ॥ २६॥ यज्ञप्रियो यज्ञहर्ता यज्ञगम्यो यजुर्गतिः । यज्ञाङ्गो यज्ञगम्यश्च यज्ञप्राप्यो विमत्सरः ॥ २७॥ यज्ञान्तकृत् यज्ञगुणो यज्ञातीतो यजुःप्रियः । मनुर्मन्वादिरूपी च मन्वन्तरविहारकः ॥ २८॥ मनुप्रियो मनोर्वंशधारी माधवमापतिः । मायाप्रियो महामायो मायातीतो मयान्तकः ॥ २९॥ मायाभिगामी मायाख्यो महामायावरप्रदः । महामायाप्रदो मायानन्दो मायेश्वरः कविः ॥ ३०॥ करणं कारणं कर्ता कार्यं कर्म क्रिया मतिः । कार्यातीतो गवां नाथो जगन्नाथो गुणाकरः ॥ ३१॥ विश्वरूपो विरूपाख्यो विद्यानन्दो वसुप्रदः । वासुदेवो विशिष्टेशो वाणीशो वाक्यतिर्महः ॥ ३२॥ वासुदेवो वसुश्रेष्ठो देवकीनन्दनोऽरिहा वसुपाता वसुपतिर्वसुधापरिपालकः । ३३॥ कंसारिः कंसहन्ता च कंसाराध्यो गतिर्गवाम् । गोविन्दो गोमतां पालो गोपनारीजनाधिपः ॥ ३४॥ गोपीरतो रुरुनखधारी हारी जगद्गुरुः । जानुजङ्घान्तरालश्च पीताम्बरधरो हरिः ॥ ३५॥ हैयङ्गवीनसम्भोक्ता पायसाशो गवां गुरुः । ब्रह्मण्यो ब्रह्यणाऽऽराध्योनित्यं गोविप्रपालकः ॥ ३६॥ भक्तप्रियो भक्तलभ्यो भक्त्यातीतो भुवां गतिः । भूलोकपाता हर्ता च भूगोलपरिचिन्तकः ॥ ३७॥ नित्यं भूलोकवासी च जनलोकनिवासकः । तपोलोकनिवासी च वैकुण्ठो विष्टसस्रवाः ॥ ३८॥ विकुण्ठवासी वैकुण्ठवासी हासी रसप्रदः । रसिकागोपिकानन्ददायको बालघृग्वपुः ॥ ३९॥ यशस्वी यमुनातीरपुलिनेऽतीवमोहनः । वस्त्रहर्ता गोपिकानां मनोहारी वरप्रदः ॥ ४०॥ दधिभक्षो दयाधारो दाता पाता हृताहृतः । मण्डपो मण्डलाधीशो राजराजेश्वरो विभुः ॥ ४१॥ विश्वधृक् विश्वभुक् विश्वपालको विश्वमोहनः । विद्वत्प्रियो वीतहव्यो हव्यगव्यकृताशनः ॥ ४२॥ कव्यभुक् पितृवर्ती च काव्यात्मा कव्यभोजनः । रामो विरामो रतिदो रतिभर्ता रतिप्रियः ॥ ४३॥ प्रद्युम्नोऽक्रूरदम्यश्च क्रूरात्मा कूरमर्दनः । कृपालुश्च दयालुश्च शयालुः सरितां पतिः ॥ ४४॥ नदीनदविधाता च नदीनदाविहारकः । सिन्धुः सिन्धुप्रियोदान्तः शान्तः कान्तः कलानिधिः ॥ ४५॥ संन्यासकृत्सतां भर्ता साधूच्छिष्टकृताशनः । साधुप्रियः साधुगम्यो साध्वाचारनिषेवकः ॥ ४६॥ जन्मकर्मफलत्यागी योगी भोगी मृगीपतिः । मार्गातीतो योगमार्गो मार्गमाणो महोरविः ॥ ४७॥ रविलोचनो रवेरङ्गभागी द्वादशरूपधृक् । गोपालो बालगोपालोबालकानन्ददायकः ॥ ४८॥ बालकानां पतिः श्रीशो विरतिः सर्वपापिनाम् । श्रीलः श्रीमान् श्रीयुतश्च श्रीनिवासः श्रियः पतिः ॥ ४९॥ श्रीदः श्रीशः श्रियःकान्तो रमाकान्तो रमेश्वरः । श्रीकान्तो धरणीकान्त उमाकान्तप्रियः प्रभुः ॥ ५०॥ इष्टऽभिलाषी वरदो वेदगम्यो दुराशयः । दुःखहर्ता दुःखनाशो भवदुःखनिवारकः ॥ ५१॥ यथेच्छाचारनिरतो यथेच्छाचारसुरप्रियः । यथेच्छालाभसन्तुष्टो यथेच्छस्य मनोऽन्तरः ॥ ५२॥ नवीननीरदाभासो नीलाञ्जनचयप्रभः । नवदुर्दिनमेघाभो नवमेघच्छविः क्वचित् ॥ ५३॥ स्वर्णवर्णो न्यासधारो द्विभुजो बहुबाहुकः । किरीटधारी मुकुटी मूर्तिपञ्जरसुन्दरः ॥ ५४॥ मनोरथपथातीतकारको भक्तवत्सलः । कण्वान्नभोक्ता कपिलो कपिशो गरुडात्मक ॥ ५५॥ सुवर्णवर्णो हेमामः पूतनान्तक इत्यापिः । पूतनास्तनपाता च प्राणान्तकरणो रिपुः ॥ ५६॥ वत्सनाशो वत्सपालो वत्सेश्वरवसूत्तमः । हेमाभो हेमकण्ठश्च श्रीवत्सः श्रीमतां पतिः ॥ ५७॥ सनन्दनपथाराध्यो पातुर्धातुमतां पतिः । सनत्कुमारयोगात्मा सनेकश्वररूपधृक् ॥ ५८॥ सनातनपदो दाता नित्यं चैव सनातनः । भाण्डीरवनवासी च श्रीवृन्दावननायकः ॥ ५९॥ वृन्दावनेश्वरीपूज्यो वृन्दारण्यविहारकः । यमुनातीरगोधेनुपालको मेघमन्मथः ॥ ६०॥ कन्दर्पदर्पहरणो मनोनयननन्दनः । बालकेलिप्रियः कान्तो बालक्रीडापरिच्छदः ॥ ६१॥ बालानां रक्षको बालः क्रीडाकौतुककारकः । बाल्यरूपधरो धन्वी धानुष्की शूलधृक् विभुः ॥ ६२॥ अमृतांशोऽमृतवपुः पीयूषपरिपालकः । पीयूषपायी पौरव्यानन्दनो नन्दिवर्धनः ॥ ६३॥ श्रीदामांशुकपाता च श्रीदामपरिभूषणः । वृन्दारण्यप्रियः कृष्णः किशोर कान्तरूपधृक् ॥ ६४॥ कामराजः कलातीतो योगिनां परिचिन्तकः । वृषेश्वरः कृपापालो गायत्रीगतिवल्लभः ॥ ६५॥ निर्वाणदायको मोक्षदायी वेदविभागकः । वेदव्यासप्रियो वैद्यो वैद्यानन्दप्रियः शुभः ॥ ६६॥ शुकदेवो गयानाथो गयासुरगतिप्रदः । विष्णुर्जिष्णुर्गरिष्ठश्च स्थविष्टाश्च स्थवीयसाम् ॥ ६७॥ वरिष्ठश्च यविष्ठश्च भूयिष्ठश्च भुवः पतिः । दुर्गतेर्नाशको दुर्गपालको दुष्टनाशकः ॥ ६८॥ कालीयसर्पदमनो यमुनानिर्मलोदकः । यमुनापुलिने रम्ये निर्मले पावनोदके ॥ ६९॥ वसन्तुबालगोपालरूपधारी गिरां पतिः । वाग्दाता वाक्प्रदो वाणीनाथो ब्राह्मणरक्षकः ॥ ७०॥ ब्रह्मण्ये ब्रह्मकृद्ब्रह्म ब्रह्मकर्मप्रदायकः । व्रह्मण्यदेवो ब्रह्मण्यदायको ब्राह्मणप्रियः ॥ ७१॥ स्वस्तिप्रियोऽस्वस्थधरोऽस्वस्थनाशो धियां पतिः । क्वणन्नूपुरधृग्विश्वरूपी विश्वेश्वरः शिवः ॥ ७२॥ शिवात्मको बाल्यवपुः शिवात्मा शिवरूपधृक् । सदाशिवप्रियो देवः शिववन्द्यो जगत्शिवः ॥ ७३॥ गोमध्यवासी गोवासी गोपगोपीमनोऽन्तरः । धर्मो धर्मधुरीणश्च धर्मरूपो धराधरः ॥ ७४॥ स्वोपार्जितयशाः कीर्तिवर्धनो नन्दिरूपकः । देवहूतिज्ञानदाता योगसाङ्ख्यनिवर्तकः ॥ ७५॥ तृणावर्तप्राणहारी शकटासुरभञ्जनः । प्रलम्बहारी रिपुहा तथा धेनुकमर्दनः ॥ ७६॥ अरिष्टानाशनोऽचिन्त्यः केशिहा केशिनाशनः । कङ्कहा कंसहा कंसनाशनो रिपुनाशनः ॥ ७७॥ यमुनाजलकल्लोलदर्शी हर्षी प्रियंवदः । स्वच्छन्दहारी यमुनाजलहारी सुरप्रियः ॥ ७८॥ लीलाधृतवपुः केलिकारको धरणीधरः । गोप्ता गरिष्ठो गदिदो गतिकारी गयेश्वरः ॥ ७९॥ शोभाप्रियः शुभकरो विपुलश्रीप्रतापनः । केशिदैत्यहरो दात्री दाता धर्मार्थसाधन ॥ ८०॥ त्रिसामा त्रिक्कृत्सामः सर्वात्मा सर्वदीपनः । सर्वज्ञः सुगतो बुद्धो बौद्धरूपी जनार्दनः ॥ ८१॥ दैत्यारिः पुण्डरीकाक्षः पद्मनाभोऽच्युतोऽसितः । पद्माक्षः पद्मजाकान्तो गरुडासनविग्रहः ॥ ८२॥ गारुत्मतधरो धेनुपालकः सुप्तविग्रहः । आर्तिहा पापहानेहा भूतिहा भूतिवर्धनः ॥ ८३॥ वाञ्छाकल्पद्रुमः साक्षान्मेधावी गरुडध्वजः । नीलश्वेतः सितः कृष्णो गौरः पीताम्बरच्छदः ॥ ८४॥ भक्तार्तिनाशनो गीर्णः शीर्णो जीर्णतनुच्छदः । बलिप्रियो बलिहरो बलिबन्धनतत्परः ॥ ८५॥ वामनो वामदेवश्च दैत्यारिः कञ्जलोचनः । उदीर्णः सर्वतो गोप्ता योगगम्यः पुरातनः ॥ ८६ ॥ नारायणो नरवपुः कृष्णार्जुनवपुर्धरः । त्रिनाभिस्त्रिवृतां सेव्यो युगातीतो युगात्मकः ॥ ८७॥ हंसो हंसी हंसवपुर्हंसरूपी कृपामयः । हरात्मको हरवपुर्हरभावनतत्परः ॥ ८८॥ धर्मरागो यमवपुस्त्रिपुरान्तकविग्रहः । युधिष्ठिरप्रियो राज्यदाता राजेन्द्रविग्रहः ॥ ८९॥ इन्द्रयज्ञहरो गोवर्धनधारी गिरां पतिः । यज्ञभुग्यज्ञकारी च हितकारी हितान्तकः ॥ ९०॥ अक्रूरवन्द्यो विश्वध्रुगश्वहारी हयास्यकः । हयग्रीवः स्मितमुखो गोपीकान्तोऽरुणध्वधः ॥ ९१॥ निरस्तसाम्यातिशयः सर्वात्मा सर्वमण्डनः । गोपीप्रीतिकरो गोपीमनोहारी हरिर्हरिः ॥ ९२॥ लक्ष्मणो भरतो रामः शत्रुघ्नो नीलरूपकः । हनूमज्ज्ञानदाता च जानकीवल्लभो गिरिः ॥ ९३॥ गिरिरूपो गिरिमखो गिरियज्ञप्रवर्त्तकः ॥ ९४॥ भवाब्धिपोतः शुभकृच्छ्रुभभुक् शुभवर्धनः । वारारोही हरिमुखो मण्डूकगतिलालसः ॥ ९५॥ नेत्रवद्धक्रियो गोपबालको बालको गुणः । गुणार्णवप्रियो भूतनाथो भूतात्मकश्च सः ॥ ९६॥ इन्द्रजिद्भयदाता च यजुषां परिरप्पतिः । गीर्वाणवन्द्यो गीर्वाणगतिरिष्टोगुरुर्गतिः ॥ ९७॥ चतुर्मुखस्तुतिमुखो ब्रह्मनारदसेवितः । उमाकान्तधियाऽऽराध्यो गणनागुणसीमकः ॥ ९८॥ सीमान्तमार्गो गणिकागणमण्डलसेवितः । गोपीदृक्पद्ममधुपो गोपीदृङ्मण्डलेश्वरः ॥ ९९॥ गोप्यालिङ्गनकृद्गोपीहृदयानन्दकारकः । मयूरपिच्छशिखरः कङ्कणाङ्कदभूषणः ॥ १००॥ स्वर्णचम्पकसन्दोलः स्वर्णनूपुरभूषणः । स्वर्णताटङ्ककर्णश्च स्वर्णचम्पकभूषितः ॥ १०१॥ चूडाग्रार्पितरत्नेन्द्रसारः स्वर्णाम्बरच्छदः । आजानुबाहुः सुमुखो जगज्जननतत्परः ॥ १०२॥ बालक्रीडाऽतिचपलो भाण्डीरवननन्दनः । महाशालः श्रुतिमुखो गङ्गाचरणसेवनः ॥ १०३॥ गङ्गाम्बुपादः करजाकरतोयाजलेश्वरः । गण्डकीतीरसम्भूतो गण्डकीजलमर्दनः ॥ १०४॥ शालग्रामः शालरूपी शशिभूषणभूषणः । शशिपादः शशिनखो वरार्हो युवतीप्रियः ॥ १०५॥ प्रेमपदः प्रेमलभ्यो भक्त्यातीतो भवप्रदः । अनन्तशायी शवकृच्छयनो योगिनीश्वरः ॥ १०६॥ पूतनाशकुनिप्राणहारको भवपालकः । सर्वलक्षणलक्षण्यो लक्ष्मीमान् लक्ष्मणाग्रजः ॥ १०७॥ सर्वान्तकृत्सर्वगुह्य सर्वातीतोऽऽसुरान्तकः । प्रातराशनसम्पूर्णो धरणीरेणुगुण्ठितः ॥ १०८॥ इज्यो महेज्य सर्वेज्य इज्यरूपीज्यभोजनः । ब्रह्मार्पणपरो नित्यं ब्रह्माग्निप्रीतिलालसः ॥ १०९॥ मदनो मदनाराध्यो मनोमथनरूपकः । नीलाञ्चिताकुञ्चितको बालवृन्दविभूषितः ॥ ११०॥ स्तोकक्रीडापरो नित्यं स्तोकभोजनतत्परः । ललिताविशखाश्यामलतावन्दिपादकः ॥ १११॥ श्रीमतीप्रियकारी च श्रीमत्या पादपूजितः । श्रीसंसेवितपादाब्जो वेणुवाद्यविशारदः ॥ ११२॥ श‍ृङ्गवेत्रकरो नित्यं श‍ृङ्गवाद्यप्रियः सदा । बलरामानुजः श्रीमान् गजेन्द्रस्तुतपादकः ॥ ११३॥ हलायधुः पीतवासा नीलाम्बरपरिच्छदः । गजेन्द्रवक्त्रो हेरम्बो ललनाकुलपालकः ॥ ११४॥ रासक्रीडाविनोदश्च गोपीनयनहारकः । बलप्रदो वीतभयो भक्तार्तिपरिनाशनः ॥ ११५॥ भक्तिप्रियो भक्तिदाता दामोदर इभस्पतिः । इन्द्रदर्पहरोऽनन्तो नित्यानन्दश्चिदात्मकः ॥ ११६॥ चैतन्यरूपश्चैतन्यश्चेतनागुणवर्जितः । अद्वैताचारनिपुणोऽद्वैतः परमनायकः ॥ ११७॥ शिवभक्तिप्रदो भक्तो भक्तानामन्तराशयः । विद्वत्तमो दुर्गतिहा पुण्यात्मा पुण्यपालकः ॥ ११८॥ ज्येष्ठः श्रेष्ठः कनिष्ठश्च निष्ठोऽतिष्ठ उमापतिः । सुरेन्द्रवन्द्यचरणो गोत्रहा गोत्रवर्जितः ॥ ११९॥ नारायणप्रियो नारशायी नारदसेवितः । गोपालबालसंसेव्यः सदानिर्मलमानसः ॥ १२०॥ मनुमन्त्रो मन्त्रपतिर्धाता धामविवर्जितः । धराप्रदो धृतिगुणो योगीन्द्र कल्पपादपः ॥ १२१॥ अचिन्त्यातिशयानन्दरूपी पाण्डवपूजितः । शिशुपालप्राणहारी दन्तवक्रनिसूदनः ॥ १२२॥ अनादिशादिपुरुषो गोत्री गात्रविवर्जितः । सर्वापत्तारकोदुर्गो दृष्टदैत्यकुलान्तकः ॥ १२३॥ निरन्तरः शुचिमुखो निकुम्भकुलदीपनः । भानुर्हनूर्द्धनुः स्थाणुः कृशानुः कृतनुर्धनुः ॥ १२४॥ अनुर्जन्मादिरहितो जातिगोत्रविवर्जितः । दावानलनिहन्ता च दनुजारिर्बकापहा ॥ १२५॥ प्रह्लादभक्तो भक्तेष्टदाता दानवगोत्रहा । सुरभिर्दुग्धयो दुग्धहारी शौरिः शुचां हरिः ॥ १२६॥ यथेष्टदोऽतिसुलभः सर्वज्ञः सर्वतोमुखः । दैत्यारिः कैटभारिश्च कंसारिः सर्वतापनः ॥ १२७॥ द्विभुजः षड्भुजो ह्यन्तर्भुजो मातलिसारथिः । शेषः शेषाधिनाथश्च शेषी शेशान्तविग्रहः ॥ १२८॥ केतुर्धरित्रीचारित्रश्चतुर्मूर्तिश्चतुर्गतिः । चतुर्धा चतुरात्मा च चतुर्वर्गप्रदायकः ॥ १२९॥ कन्दर्पदर्पहारी च नित्यः सर्वाङ्गसुन्दरः । शचीपतिपतिर्नेता दाता मोक्षगुरुर्द्विजः ॥ १३०॥ हृतस्वनाथोऽनाथस्य नाथः श्रीगरुडासनः । श्रीधरः श्रीकरः श्रेयः पतिर्गतिरपां पतिः ॥ १३१॥ अशेषवन्द्यो गीतात्मा गीतागानपरायणः । गायत्रीधामशुभदो वेलामोदपरायणः ॥ १३२॥ धनाधिपः कुलपतिर्वसुदेवात्मजोऽरिहा । अजैकपात् सहस्राक्षो नित्यात्मा नित्यविग्रहः ॥ १३३॥ नित्यः सर्वगतः स्थाणुरजोऽग्निर्गिरिनायकः । गोनायकः शोकहन्ताः कामारिः कामदीपनः ॥ १३४॥ विजितात्मा विधेयात्मा सोमात्मा सोमविग्रहः । ग्रहरूपी ग्रहाध्यक्षो ग्रहमर्दनकारकः ॥ १३५॥ वैखानसः पुण्यजनो जगदादिर्जगत्पतिः । नीलेन्दीवरभो नीलवपुः कामाङ्गनाशनः ॥ १३६॥ कामवीजान्वितः स्थूलः कृशः कृशतनुर्निजः । नैगमेयोऽग्निपुत्रश्च षाण्मातुरः उमापतिः ॥ १३७॥ मण्डूकवेशाध्यक्षश्च तथा नकुलनाशनः । सिंहो हरीन्द्रः केशीन्द्रहन्ता तापनिवारणः ॥ १३८॥ गिरीन्द्रजापादसेव्यः सदा निर्मलमानसः । सदाशिवप्रियो देवः शिवः सर्व उमापतिः ॥ १३९॥ शिवभक्तो गिरामादिः शिवाराध्यो जगद्गुरूः । शिवप्रियो नीलकण्ठः शितिकण्ठः उषापतिः ॥ १४०॥ प्रद्युम्नपुत्रो निशठः शठः शठधनापहा । धूपाप्रियो धूपदाता गुग्गुल्वगुरुधूपितः ॥ १४१॥ नीलाम्बरः पीतवासा रक्तश्वेतपरिच्छदः । निशापतिर्दिवानाथो देवब्राह्मणपालकः ॥ १४२॥ उमाप्रियो योगिमनोहारी हारविभूषितः । खगेन्द्रवन्द्यपादाब्जः सेवातपपराङ्मुखः ॥ १४३॥ परार्थदोऽपरपतिः परात्परतरो गुरुः । सेवाप्रियो निर्गुणश्च सगुणः श्रुतिसुन्दरः ॥ १४४॥ देवाधिदेवो देवेशो देवपूज्यो दिवापतिः । दिवः पतिर्वृहद्भानुः सेवितेप्सितदायकः ॥ १४५॥ गोतमाश्रमवासी च गोतमश्रीनिषेवितः । रक्ताम्बरधरो दिव्यो देवीपादाब्जपूजितः ॥ १४६॥ सेवितार्थप्रदाता च सेवासेव्यगिरीन्द्रजः । धातुर्मनोविहारी च विधीता धातुरुत्तमः ॥ १४७॥ अज्ञानहन्ता ज्ञानेन्द्रवन्द्यो वन्द्यधनाधिपः । अपां पतिर्जलनिधिर्धरापतिरशेषकः ॥ १४८॥ देवेन्द्रवन्द्यो लोकात्मा त्रिलोकात्मा त्रिलोकपात् । गोपालदायको गन्धद्रदो गुह्यकसेवितः ॥ १४९॥ निर्गुणः पुरुषातीतः प्रकृतेः पर उज्ज्वलः । कार्तिकेयोऽमृताहर्ता नागारिर्नागहारकः ॥ १५०॥ नागेन्द्रशायी धरणीपतिरादित्यरूपकः । यशस्वी विगताशी च कुरुक्षेत्राधिपः शशी ॥ १५१॥ शशकारि शुभचारो गीर्वाणगणसेवितः । गतिप्रदो नरसखः शीतलात्मा यशः पतिः ॥ १५२॥ विजितारिर्गणाध्यक्षो योगात्मा योगपालकः । देवेन्द्रसेव्यो देवन्द्रपापहारी यशोधनः ॥ १५३॥ अकिञ्चनधनः श्रीमानमेयात्मा महाद्रिधृक् । महाप्रलयकारी च शचीसुतजयप्रदः ॥ १५४॥ जनेश्वरः सर्वविधिरूपी ब्राह्मणपालकः । सिंहासननिवासी च चेतनारहितः शिवः ॥ १५५॥ शिवप्रदो दक्षयज्ञहन्ता भृगुनिवारकः । वीरभद्रभयावर्तः कालः परमनिर्व्रणः ॥ १५६॥ उदूखलनिबद्धश्च शोकात्मा शोकनाशनः । आत्मयोनिष स्वयञ्जातो वैखानः पापहारकः ॥ १५७॥ कीर्तिप्रदः कीर्तिदाता गजेन्द्रभुजपूजितः । सर्वान्तरात्मा सर्वात्मा मोक्षरूपी निरायुधः ॥ १५८॥ उद्धवज्ञानदाता च यमलार्जुनभञ्जनः । फलश्रुतिः । इत्येतत्कथितं देवी सहस्रं नाम चोत्तमम् ॥ १५९॥ आदिदेवस्य वै विष्णोर्बालकत्वमुपेयुषः । यः पठेत् पाठयेद्वापि श्रुणयात् श्रावयीत वा ॥ १६०॥ किं फलं लभते देवि वक्तुं नास्ति मम प्रिये । शक्तिर्गोपालनाम्जश्च सहस्रस्य महेश्वरि ॥ १६१॥ ब्रह्महत्यादिकानीह पापानि च महान्ति च । विलयं यान्ति देवेशि ! गोपालस्य प्रसादतः ॥ १६२॥ द्वादश्यां पौर्णमास्यां वा सप्तम्यां रविवासरे । पक्षद्वये च सम्प्राप्य हरिवासनमेव वा । १६३॥ यः पठेच्छृणुयाद्वापि न जनुस्तस्य विद्यते । सत्यं सत्यं महेशानि सत्यं सत्यं न संशयः ॥ १६४॥ एकादश्यां शुचिर्भूत्वा सेव्या भक्तिर्हरेः शुभाः । श्रुत्वा नाम सहस्राणि नरो मुच्येत पातकात् ॥ १६५॥ न शठाय प्रदातव्यं न धर्मध्वजिने पुनः । निन्दकाय च विप्राणां देवानां वैष्णवस्य च । १६६॥ गुरुभक्तिविहीनाय शिवद्वेषरताय च । राधादुर्गाभेदमतौ सत्यं सत्यं न संशयः ॥ १६७॥ यदि निन्देन्महेशानि गुरुहा भवेद्ध्रुवम् । वैष्णवेषु च शान्तेषु नित्यं वैराग्यरागिषु ॥ १६८॥ ब्राह्मणाय विशुद्धाय सन्ध्यार्चनरताय च । अद्वैताचारनिरते शिवभक्तिरताय च । १६९॥ गुरुवाक्यरतायैव नित्यं देयं महेश्वरि । गोपितं सर्वतन्त्रेषु तव स्नेहात्प्रकीर्तितम् ॥ १७०॥ नातः परतरं स्तोत्रं नातः परतरो मनुः । नातः परतरो देवो युगेष्वपि चतुर्ष्वपि ॥ १७१॥ हरिभक्तेः परा नास्ति मोक्षश्रेणी नगेन्द्रजे । वैष्णवेभ्यः परं नास्ति प्राणेभ्योऽपि प्रिया मम ॥ १७२॥ वैष्णवेषु च सङ्गो मे सदा भवतु सुन्दरि ! । यस्य वंशे क्वचिद्देवात्वैष्णवो रागवर्जितः ॥ १७३॥ भवेत्तद्वंशके ये ये पूर्वे स्यः पितरस्तथा । भवन्ति निर्मलास्ते हि यान्ति निर्वाणतां हरेः ॥ १७४॥ बहुना किमिहोक्तेन वैष्णवानान्तु दर्शनात् । निर्मलाः पापरहिताः पापिनः स्युर्न संशयः ॥ १७५॥ कलौ बालेश्वरो देवः कलौ गङ्गेव केवला । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ १७६॥ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे गोपालसहस्रनामस्तोत्रमष्टमोऽध्यायः ॥