अक्षर आकार:

श्रीगोपाललालाष्टकम्

shrIgopAlalAlAShTakam

श्रीगोपाललालाष्टकम्

श्रीमदाचार्यचरणौ साष्टाङ्गं प्रणिपन्पतौ । विरच्यतेऽष्टकमिदं श्रीमद्गोपालपुष्टिदम् ॥ १॥ यस्यानुकम्पावशतः सुदुर्लभं मानुष्यमाप्तं परमस्य पुंसः । सर्वार्थदं दीनदयालुमेकं गोपाललालं शरणं प्रपद्ये ॥ २॥ योऽदात्स्वसेवोपयिकं शरीरं साङ्गं समर्थं शुभमर्थदं च । सेवाऽनभिज्ञः परमस्य तस्य गोपाललालं शरणं प्रपद्ये ॥ ३॥ निजाङ्गसन्दर्शनयोगयोग्यता योऽदाद्दृशं मे परमो दयालुः । तदङ्गसौन्दर्य्यरसावभिज्ञो गोपाललालं शरणं प्रपद्ये ॥ ४॥ श्रीमत्कथासंश्रवणोपयोगि- श्रोत्रं ददौ यः करुणारसाब्धिः । कथामृतास्वादनमूढचेता गोपाललालं शरणं प्रपद्ये ॥ ५॥ वाचं ददौ श्रीगुणज्ञानयोग्यां व्रजाङ्गनाङ्गाभरणाङ्गमूर्तिम् । तथापि नाम्नामनुकीर्तनेऽलसो गोपाललालं शरणं प्रपद्ये ॥ ६॥ घ्राणेन्द्रियं मे तुलसीविमिश्र- पादाञ्जसन्दिग्धपरागयोग्यम् । ददौ कृपालुर्ह्यपराधिने यो गोपाललालं शरणं प्रपद्ये ॥ ७॥ शिरश्च पादाम्बुजसन्प्रणाम- योग्यं ददौ यो यदुवंशचन्द्रः । स्तुत्या च नत्या विनयेन हीनो गोपाललालं शरणं प्रपद्ये ॥ ८॥ जनोऽपराधानसकृद्विकुर्वन् श्रोतो भवेद्यस्तु मनाक्षमायाम् । नवालसस्तं करुणैकबन्धुं गोपाललालं शरणं प्रपद्ये ॥ ९॥ इति श्रीमद्गोस्वामिश्रीगिरधरजीकृतं श्रीगोपाललालाष्टकं सम्पूर्णम् ।