अक्षर आकार:

श्रीगोकुलेशोत्सववर्णनम्

shrIgokuleshotsavavarNanam

श्रीगोकुलेशोत्सववर्णनम्

नन्दालयान्ते निगमैरगम्यं सनातनं ब्रह्म यदस्ति भूम्या । गोरूपया प्रार्थित एव कृष्णो वारत्रयं चाविरभूत् स एव ॥ १॥ तदा हि भूमावजनिष्ट पूर्वं श्रीवल्लभाचार्य इति प्रसिद्धः । श्रीविठ्ठलेशोऽपि तथोत्तरस्मात् श्रीवल्लभोऽभूत् कुलनामदीपः ॥ २॥ पुराभिषिक्तः पयसा सुरभ्या कृतः पतित्वे निजगोकुलस्य । सर्वेन्द्रियस्वामितयापि नाम्ना भक्तैर्निरुक्तोऽपि स गोकुलेशः ॥ ३॥ यस्मिन्प्रभुः प्रादुरभूत्स भूमौ कालो महाशोभन एव जातः । तदा हि सर्वत्र जगज्जनानां सुखाय तज्जन्मदिनं बभूव ॥ ४॥ यज्जन्मनि जगज्जातं मङ्गलैकातिमङ्गलम् । गोकुलं सकलं चासीन्नवमङ्गलपूरितम् ॥ ५॥ प्रतिसंवत्सरं तस्मिन् गोकुलेशजनुर्दिने । महामहोत्सवा आसन् सकला गोकुलौकसः ॥ ६॥ आबालवृद्धमखिला धन्या गोकुलवासिनः । नित्योत्सवास्तदा ह्यासन्नत्युत्सवसमुत्सकाः ॥ ७॥ वादित्राणि विचित्राणि वादयन्ति स्म वादकाः । जगुर्मङ्गलगीतानि सुस्वराण्यङ्गनागणाः ॥ ८॥ प्रतिद्वारमगाराणां नवपल्लवतोरणम् । बबन्धुः सेविनोऽन्योन्यं चक्रुः कुङ्कुममञ्जनम् ॥ ९॥ अभूत्तस्मिन् मनोहारिशुभकारिजनुर्दिने । गोकुलेशगृहद्वारि भूरिवाद्यान्यवादिषुः ॥ १०॥ तत्र दुन्दुभयो धीरं मधुरध्वनि दध्वनुः । गोमुखानि सुखान्यासन्नखण्डं डिण्डिमोनदद् ॥ ११॥ भेर्यश्च भूरिशो नेदुर्गम्भीरा भैरवारवाः । पणवाश्च तथा विप्रा प्रणवाद्याशिषोऽभवन् ॥ १२॥ वैणविका अनणीयांसो वीणाः कलभरीणान् ? । नवीना वेणवो रेणुः प्रवीणा आपणादिषु ॥ १३॥ अमन्दानन्दसन्दोहदायका गायका जगुः । मृदङ्गा वृन्दशो नेदुर्नृत्यतालक्रमानुगाः ॥ १४॥ तदा श‍ृङ्गारभोगान्ते गोकुलेशः स्वयं प्रभुः । मन्दिरान्मङ्गलं स्नातुमाजगाम निजं गृहम् ॥ १५॥ तत्र स्थित्वाङ्गणे भद्रं कर्तुं स्नानं प्रचक्रमे । स्नानीयसाधनं सर्वमानिन्युर्निजसेवकाः ॥ १६॥ केचन मस्तके तैलं सिषिचुः पुष्पवासितम् । केचिन्मृगमदैः केचिद्घुसृणैः केऽपि चन्दनैः ॥ १७॥ सुगन्धोद्वर्तनैस्सर्वे जिजिषुस्तस्य विग्रहम् । तत उष्णोदकैः सस्नौ तदा तद्दर्शनोत्सुकैः ॥ १८॥ तदाङ्गणगतैर्भक्तैरनुरक्तैस्ससम्भ्रमैः । प्रासादशिखरारूढः स घोषोऽतिमहानभूत् ॥ १९॥ संव्याय वाससी पीते गत्वा स्वप्रभुमन्दिरम् । ततोऽसौ राजभोगान्ते प्रभोर्नीराजनं व्यधात् ॥ २०॥ अथ तत्राङ्गणे सोऽयं चतुष्कोपरि शोभने । पुत्रपौत्रप्रपौत्रैः स्वैर्निषसाद सहासने ॥ २१॥ पुरपीतस्थितानष्टमुष्टितण्डुलकल्पितान् । सखिबन्धूदितैर्मन्त्रैरुपचारैरपूपुजत् ॥ २२॥ तदन्ते गोकुलेशस्य स्वसृपुत्र्यादयः स्त्रियः । पतिमत्यः सतिलकं मौक्तिकारार्तिकं व्यधुः ॥ २३॥ निजभक्तस्त्रियोऽप्यस्य कृत्वा नीराजनं तथा । तन्मूर्ध्नि मौक्तिकस्वर्ण-पुष्पाञ्जलिमवाकिरन् ॥ २४॥ ततोऽनुरक्तैर्भक्तैः स्वै रत्नाभरणभूषितः । बन्धुभिः सह विप्रैश्च भोजनस्थानमाययौ ॥ २५॥ ब्राह्मणान्भोजयित्वा स सबन्धुर्बुभुजे स्वयम् । भोजिकाः सेवकाः सर्वे स्वहस्तपरिवेषणैः ॥ २६॥ भोजनान्ते सताम्बूला ब्राह्मणा ददुराशिषः । ततः स्वमन्दिरास्तीर्णनवासनसुखस्थितः ॥ २७॥ पुत्रपौत्रप्रपौत्रैश्च वृतोऽसौ शुशुभेतराम् । नृत्यवादित्रगीताढ्यं नानोपायनसम्भृतम् ॥ २८॥ महामहोत्सवं चक्रुस्तदाऽऽसन्ध्यं स्वसेवकाः । दिव्यानि परिश्रेयानि पट्टवस्त्राण्यनेकधा ॥ २९॥ मौक्तिकानि सरत्नानि सौवर्णाभरणानि च । सकुटुम्बं गोकुलेशं प्रीतितः पर्यधापयन् ॥ ३०॥ अनन्याः सेविनो धन्या द्रव्याण्यन्यान्यनेकशः । उपायनान्यमी निन्युरन्योन्येभ्योऽधिकाधिकम् ॥ ३१॥ रराज गोकुलेशोऽसौ सकुटुम्बोऽतिभूषितः । पुष्पितः फलितो मूर्तः श्रङ्गारद्रुरिवाद्भुतः ॥ ३२॥ गोकुले गोकुलेशस्य सदा जन्मदिनोत्सवः । दृष्ट आसन्ध्यमाधिक्यं कृष्णरायेण वर्णितः ॥ ३३॥ इति श्रीकृष्णरायविरचितं श्रीगोकुलेशोत्सववर्णनं सम्पूर्णम् ।