अक्षर आकार:

श्रीगोकुलेशस्तवः

shrIgokuleshastavaH

श्रीगोकुलेशस्तवः

स्वयं योऽवतीर्य क्षितौ विठ्ठलेशा- दशेषं जगत्पालको गोकुलेशः । सुवेशोऽनिशं शोभते तत्समानो न भूतो न भावी न वा वर्तमानः ॥ १॥ समस्तं यतिग्रस्तधर्मं च गोप्तुं निजोक्त्याऽवमत्या जगत्या अधीशम् । निरस्येह यः स्तूयते तस्य तुल्यो न भूतो न भावी न वा वर्तमानः ॥ २॥ सुकेशो यशोभूषितो गोकुलेशः स्वयोषिन्मनोभोगिवेषी य एषः । अशेषज्ञलोकोऽपि तस्माद्विशेषो न भूतो न भावी न वा वर्तमानः ॥ ३॥ समेतार्थविश्वानीतानन्तवित्तः सुपुण्यैर्गुणैः सर्वदा शोभमानः । धरण्यामिहैतत्समोदारचित्तो न भूतो न भावी न वा वर्तमानः ॥ ४॥ स्वरूपात्मकानन्ददानैकदक्षो वधूवक्त्रचन्द्रानुरज्यत्कटाक्षः । तदीयाधरस्थामृतास्वादकोऽन्यो न भूतो न भावी न वा वर्तमानः ॥ ५॥ व्रजानन्दकन्दो निजानन्दपूर्णः सदानन्दरूपः सदा राजते यः । सदा भक्तकानन्ददाता ततोऽन्यो न भूतो न भावी न वा वर्तमानः ॥ ६॥ समस्तै रसैरुल्लसन् गोकुले यो जयत्येष पूर्णः पुमानेव नित्यम् । स्वकीयाङ्गनाकामनापूरकोऽन्यो न भूतो न भावी न वा वर्तमानः ॥ ७॥ सदाऽऽनन्दयन् सेविनः सद्रसौघैः श्रियो वल्लभो दुर्लभो गोकुलेशः । य एवंविधो राजते तं विनाऽन्यो न भूतो न भावी न वा वर्तमानः ॥ ८॥ नवं गोकुलेशस्तवं सुश्रवं यः शिवं सर्वदा कृष्णरायोक्तमेतम् । पठेदष्टपद्यं स सद्योऽनवद्यं स्वरूपं तदीयं प्रपद्येत हृद्यम् ॥ ९॥ इति कृष्णरायोक्तः श्चीगोकुलेशस्तवः समाप्तः ।