अक्षर आकार:

श्रीगोकुलेशशयनाष्टकम्

shrIgokuleshashayanAShTakam

श्रीगोकुलेशशयनाष्टकम्

प्रातः स्मरामि गुरुगोकुलनाथसंज्ञं संसारसागरसमुत्तरणैकसेतुम् । श्रीकृष्णचन्द्रचरणाम्बुजसर्वकाल- संशुद्धसेवनविधौ कमलावतारम् ॥ १॥ प्रस्वाप्य नन्दतनयं प्रणयेन पश्चा- दानन्दपूर्णनिजमन्दिरमभ्युपेतम् । स्थूलोपधानसहितासनसन्निषण्णं श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ २॥ अभ्यग्रभक्तकरदत्तसिताभ्रयुक्तं ताम्बूलपूर्णवदनं सदनं रसाब्धेः । आवेष्टितं परित आत्मजनैरशेषैः श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ३॥ जाते तथा प्रभुकथाकथने तदानी- मुत्थापिते परिचयेण पृथूपधाने । गन्तुं गृहाय सुहृदः स्वयमुक्तवन्तं श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ४॥ नित्योल्लसन्नवरसौघनिवासरूपं सौन्दर्यनिर्जितजगज्जयिकामभूपम् । स्वप्रेयसीजनमनोहरचारुवेषं सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ५॥ कस्तूरिकादितनुलेपविसारिगन्धं पुष्पस्रगन्तरलसत्तनुमौलिबन्धम् । संवाहिताङ्घ्रियुगलं निजमुख्यभक्तैः सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ६॥ सप्रेमहास्यवचनैः कतिचित्स्वकीयान् स्थित्वा क्षणं निजगृहाय निदिष्टवन्तम् । शय्योपवेशसमयोचित्तवेषभाजं सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ७॥ निद्रागमात् प्रथमतो निजसुन्दरीभिः संसेवितं तदखिलेन्द्रियवृत्तिभाग्यम् । श‍ृङ्गारसारमधिराजमुदारवेषं सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ८॥ स्वच्छोपरिच्छदलसच्छयनोपविष्टं सस्नेहभक्तसुखसेवितपादपद्मम् । निद्रावधूस्वसमयेप्सितसङ्गसौख्यं सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ९॥ श्रीगोकुलेशशयनाष्टकमादरेण श्रीकृष्णरायरचितं सरसार्थपद्यम् । सञ्चिन्तिताखिलफलप्रदमिष्टसिद्‍ध्यै सञ्चिन्तयन्तु निशि तच्चरणैकचित्ताः ॥ १०॥ इति श्रीकृष्णरायविरचितं श्रीशयनाष्टकं सम्पूर्णम् ।