अक्षर आकार:

श्रीगोकुलेशनामावलिः

shrIgokuleshanAmAvaliH

श्रीगोकुलेशनामावलिः

श्रीगोकुलेश मत्स्वामिन्नामानि तव तुष्टये । कथ्यन्ते तव दासेन सर्वकामफलप्रदा ॥ श्रीगोकुलेशाय नमः । श्रीवल्लभाय नमः । श्रीकृष्णाय नमः । श्रीविठ्ठलेशात्मजाय नमः । श्रीरुक्मिणीनन्दनाय नमः । श्रीगिरिधरप्रियाय नमः । श्रीबालकृष्णानुजाय नमः । श्रीगोकुलनाथाय नमः । श्रीरघुनाथाग्रजाय नमः । १० श्रीयदुनाथप्रीतिकर्त्रे नमः । श्रीघनश्यामपोषकाय नमः । श्रीपार्वतीप्राणपतये नमः । श्रीविठ्ठलरायजनकाय नमः । श्रीगोवर्द्धनेशलालिताय नमः । श्रीव्रजपतिलाडकर्त्रे नमः । श्रीधर्मस्थापकाय नमः । श्रीगोकुलपतये नमः । श्रीगोवर्द्धनगमनोत्सुकाय नमः । श्रीगिरिधरनमनकर्त्रे नमः । २० अतिप्रसन्नमुखारविन्दाय नमः । भक्तनयनाह्लादकाय नमः । भक्तमनोरथपूरकाय नमः । गोकुलागताय नमः । स्वप्रभुनमनकर्त्रे नमः । भक्तिप्रियाय नमः आचार्यनामार्थप्रकटीकरणाय नमः । पितामहचरणासक्ताय नमः । पितामहस्वरूपज्ञापकाय नमः । पितृपादसरोजनामिने नमः । ३० पितृदत्ततुलसीमालाधारकाय नमः । ऊर्ध्वपुण्ड्रधारकाय नमः । षण्मुद्राङ्कितविग्रहाय नमः । भव्यमूर्तये नमः । विशालनेत्राय नमः । कर्णशोभितकुण्डलाय नमः । श्रीहस्ते जटितकङ्कणधारकाय नमः । अङ्गुलीषु मणिजटितमुद्रिकाधारिणे नमः । श्रीकण्ठे मुक्तामालविराजिताय नमः । कृष्णदासीप्रियाय नमः । ४० निजजन्मोत्सवकर्त्रे नमः । स्वजनहितमङ्गलचरित्रे नमः । व्रजमङ्गलदायकाय नमः । पूर्वोक्तर्षिपूजादिकर्त्रे नमः । महोदाराय नमः । सकलद्विजदक्षिणादात्रे नमः । निजजनहृदयानन्दाविर्भावकर्त्रे नमः । नीराजनवाटिकभक्तनिर्दीक्षकाय नमः । ताम्बूलदात्रे नमः । हृष्टमानसाय नमः । ५० आचार्यकृतिव्याख्यानकर्त्रे नमः । स्वमतस्थापकाय नमः । श्रीभागवतार्थविचारिताय नमः । पित्राज्ञया यमुनाष्टकशेषव्याख्यानकर्त्रे नमः शान्तमूर्तये नमः । महाकारुणिकाय नमः । निजजनोपरि कृपादृष्टिकर्त्रे नमः । अत्युदाराय नमः । याचितजनमनोरथपूरकाय नमः । ६० गोकुलनायकाय नमः । गोवल्लभाय नमः । गोवर्द्धनप्रियाय नमः । श्रीमद्वल्लभकुलमण्डनाय नमः । गोस्वामिने नमः । वाक्सुधावरवृष्टिकर्त्रे नमः । चर्वितताम्बूलभक्तदात्रे नमः । सकलभूषणभूषिताय नमः । मनोहररूपाय नमः । निजजनप्राणवल्लभाय नमः । ७० अग्निहोत्रादिकर्मकर्त्रे नमः । त्रिवारसन्ध्यावन्दनाय नमः । कर्ममार्गप्रवर्तकाय नमः । भक्तिमार्गतात्पर्ययुताय नमः । ठकुराणीघाटस्नानकर्त्रे नमः । ज्येष्ठभ्रात्राज्ञयैव दीर्घधारे स्नानकर्त्रे नमः । निजमन्दिरगताय नमः । भगवद्गुणगानश्रवणकर्त्रे नमः । सारङ्गीवाद्यप्रियाय नमः । नीराजनवारिणे नमः । ८० चिद्रूपमतखण्डनाय नमः । ताताज्ञापरिपालकाय नमः । स्वधर्मपालकाय नमः । पृथ्वीशाज्ञोल्लङ्घनाय नमः । तत्समीपे काश्मीरगताय नमः । काश्मीरपावनकर्त्रे नमः । तदाज्ञासोरमवासनिर्द्धारकर्त्रे नमः । पुनः गोकुलागताय नमः । सपरिवार वाराहक्षेत्रगङ्गासमीपगताय नमः । ९० स्वभ्रात्रासुरव्यामोहश्रवणगोकुलागताय नमः । दामोदरादिसमाधानकर्त्रे नमः । आशौचनिवृत्यै शुद्धस्नानकर्त्रे नमः । श्रीनवनीतप्रियामन्दिरगताय नमः । साष्टाङ्गदण्डवत्कर्त्रे नमः । प्रभुचरणे तुलसीदलस्थापकाय नमः । भ्रातृपादुका पितामहपितुः समीपस्थापकाय नमः । गूढभावप्रकटीकर्त्रे नमः । महानुभावाय नमः । पुनः सोरमपादधारिणे नमः । १०० किञ्चित्कालं तत्र वासकर्त्रे नमः । सकुटुम्बत्वरितगोकुलागताय नमः । यमुनास्नानकर्त्रे नमः । गोदानकर्त्रे नमः । यमुनारसभोगकर्त्रे नमः । आनन्दपूरिताय नमः । आबालवृद्धतुलसीमालातिलकाधारिणे नमः । नित्यश्री-गोकुलस्थानविराजिताय नमः । १०८ इति श्रीगोकुलाधीश-शुभनामशताधिकम् । अष्टोत्तरं सदा चिन्त्यं सर्वचिन्तानिवृत्तये ॥ इति श्रीदासदासेन विरचिता श्रीगोकुलेशाष्टोत्तरशतनामावली समाप्ता ।