अक्षर आकार:

श्रीगोकुलेशद्वात्रिंशन्नामाष्टकम्

shrIgokuleshadvAtriMshannAmAShTakam

श्रीगोकुलेशद्वात्रिंशन्नामाष्टकम्

श्रीगोकुलेशो जयति नमस्ते गोकुलाधिप । नमस्ते गोकुलाराध्य नमस्ते गोकुलप्रभो ॥ १॥ नमस्ते गोकुलमणे नमस्ते गोकुलोत्सव । नमस्ते गोकुलैकाश नमस्ते गोकुलोदय ॥ २॥ नमस्ते गोकुलपते नमस्ते गोकुलात्मक । नमस्ते गोकुलस्वामिन् नमस्ते गोकुलेश्वर ॥ ३॥ नमस्ते गोकुलानन्द नमस्ते गोकुलप्रिय । नमस्ते गोकुलाह्लाद नमस्ते गोकुलव्रज ॥ ४॥ नमस्ते गोकुलोत्साह नमस्ते गोकुलावन । नमस्ते गोकुलोद्गीत नमस्ते गोकुलस्थित ॥ ५॥ नमस्ते गोकुलाधार नमस्ते गोकुलाश्रय । नमस्ते गोकुलश्रेष्ठ नमस्ते गोकुलोद्भव ॥ ६॥ नमस्ते गोकुलोल्लास नमस्ते गोकुलप्रिय । नमस्ते गोकुलध्येय नमस्ते गोकुलोडुप ॥ ७॥ नमस्ते गोकुलश्लाध्य नमस्ते गोकुलोत्सुक । नमस्ते गोकुलश्रीमन् नमस्ते गोकुलप्रद ॥ ८॥ इति श्रीगोकुलनाथानां द्वात्रिंशन्नामाष्टकं नामस्तोत्रं समाप्तम् ।