अक्षर आकार:

श्रीगोकुलेशाष्टकम् ४

shrIgokuleshAShTakam 4

श्रीगोकुलेशाष्टकम् ४

उद्धर्तुं धरणीतले निजबलेनैव स्वकीयाम् जनान् आविर्भूय तथा कृपापरवशः श्रीविठ्ठलेशालये । यः श्रीभागवतस्य तत्त्वविवृतेश्चक्रे प्रवाहं वचः पीयूषैरतिपोषणाय सततं श्रीगोकुलेशोऽवतु ॥ १॥ यः पुष्टिमार्गगतभावविभावनैकं दक्षः समक्षमपि सन्निधिसेवकानाम् । यो ज्ञानगूढहृदयः सदयः सदैव सेवासुखं मम तनोतु स गोकुलेशः ॥ २॥ यः सेव्यः सततं सतां निजफलप्रेप्सावदाविर्तना- माचार्योदितशुद्धपुष्टिसुपथे नित्यानुकम्पाधरः । यद्दृष्ट्यैव हृदन्धकारनिचयो यायात्क्षणात्क्षीणता- मानन्दं मुहुरातनोतु मधुराकारः प्रभुर्वल्लनभः ॥ ३॥ यो मायामतवर्तिदुष्टवदनध्वंसं वचोभिर्निजैः कुर्वन् सेवकसर्वलोकहृदयानन्दं सदा पोषयन् । तद्भावं सुदृढं करोति कृपया दासैकहृद्यातया यातानां शरणं हृदा समनसा मोदं सदा यच्छतु ॥ ४॥ हसद्वदनपङ्कजस्फुरदमन्दभावार्द्रदृक् कपोलविलसद्रजोद्वयविमिश्रताम्बूलदः । समुन्नतसुनासिकः सरसचारुबिम्बाधरो हरत्वखिलसेविनां चिरवियोगतापं क्षणात् ॥ ५॥ मनोजमधुराकृतिर्निजमनोविदोदोद्गति कृते जनमनोहृतौ विरतिकारकः संसृतौ । स्वभावपरिपोषको भवसमुद्रसंशोषकः करोतु वरणं सदा सफलमत्र वै वल्लभः ॥ ६॥ गोधूममेचकमनोहरवर्णदेहो यः केशकृष्णनिचयोल्लसदुत्तमाङ्गः । सूक्ष्मोत्तरीयकटिवस्त्रविराजिताङ्गः सङ्गं तनोतु मुदमद्भुतगोकुलेशः ॥ ७॥ ताताज्ञैकपरायणाशयविदां वर्यः परानन्ददो माला येन सुरक्षिता निजमहायत्नेन कण्ठे सताम् । धर्मो येन विवर्धितः पितृपदाचारैः सदा सर्वतः स श्रीगोकुलनायकः करुणया भूयाद्वशे सेविनाम् ॥ ८॥ सर्वं साधनजातमत्र विफलं नूनं विदित्वा जना नित्यं तं भजत प्रियं प्रभुमयं त्यक्त्वेतरस्याश्रयम् । तन्नामानि जपन्तु रूपमखिलं सञ्जिन्तयन्तु स्वयं सौख्यं तत्पदभावतोऽभिलषितं सर्वं स्वतः प्राप्स्यते ॥ ९॥ इति श्रीहरिरायविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ।