अक्षर आकार:

श्रीगोकुलेशाष्टकम् ३

shrIgokuleshAShTakam 3

श्रीगोकुलेशाष्टकम् ३

(मालिनी वृत्तम्) यतिवशधरणीशे धर्मलोपप्रवृत्ते हरिचरणसहायो यः स्वधर्मं जुगोप । विहितभजनभारो धर्मरक्षावतारः स जगति जयति श्रीवल्लभो गोकुलेशः ॥ १॥ असदुदितविदारी वेदवादानुसारी यदुचितहितकारी भक्तिमार्गप्रचारी । रुचिरतिलकधारी मालधारी तुलस्याः स जयति जयति श्रीवल्लभो गोकुलेशः ॥ २॥ बहुविधिजननर्मप्रोक्तिबाणैरधर्मः प्रकटमयति मर्मस्फोटमाराद्विधाय । वपुषि भजनवर्म प्राप्य कल्याणधर्मः स जयति नवकर्मा गोकुले गोकुलेशः ॥ ३॥ निगमजनितधर्मद्रोहिणि क्षोणिनाथे सकलसहजवेशस्तत्समीपं समेत्य । तदुचितमदमत्या दत्तवानुत्तरं यः स जयति जनचित्तानन्दको गोकुलेशः ॥ ४॥ अधिकृतयुगधर्मे वर्धमाने समन्ता- दनितशरणोऽसौ वेदधर्मो सदाभूऽत् । check तदिह शरणमागाद्यः सदैकः शरण्यं स जयति जनवन्द्यो गोकुले गोकुलेशः ॥ ५॥ कलिवृषलभयाप्तौ तत्कलिं सन्निगृह्य क्षितिपतिरविताऽऽसीद्यस्य पूर्वं परीक्षित् । इह हि नृपतिभीतौ तस्य धर्मस्य नित्यं स जयति भुवि गोप्ता गोकुले गोकुलेशः ॥ ६॥ प्रथममिह परीक्षिद्रक्षितो वर्णधर्मः पुनरपि कलिकल्पक्षुद्रभिक्षुक्षतोऽभूत् । अभयपदमिदं यं शाश्वतं चाभ्युपेतः स जयति निजभक्ताह्लादको गोकुलेशः ॥ ७॥ य इह सकललोके केवलं न स्वकीये प्रभुजननबलेन स्थापयामास धर्मम् । सकलसुखविधाता गोकुलानन्ददाता स जयति निजताताराधको गोकुलेशः ॥ ८॥ श्रीवल्लभाष्टकमिदं पठति प्रपन्नो यः कृष्णरायकृतमित्युषसि स्वचित्तः । सोऽयं सुदुर्लभतमानपि निश्चयेन प्राप्नोति वै विनिहितानखिलान् पदार्थान् ॥ ९॥ इति श्रीकृष्णरायविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ।