अक्षर आकार:

श्रीगरुडसहस्रनामावलिः

shrIgaruDasahasranAmAvaliH

श्रीगरुडसहस्रनामावलिः

ॐ सुमुखाय नमः । सुवहाय । सुखकृते । सुमुखाभिध- पन्नगेड्भ्त्षाय । सुरसङ्घसेविताङ्घ्रये । सुतदायिने । सूरये । सुजनपरित्रात्रे । सुचरितसेव्याय । सुपर्णाय । पन्नगभूषाय । पतगाय । पात्रे । प्राणाधिपाय । पक्षिणे । पद्मादिनागवैरिणे । पद्माप्रियदास्यकृते । पतगेन्द्राय । परभेदिने । परिहृतपाकारिदर्पकूटाय नमः ॥ २० ॐ नागारये नमः । नगतुल्याय । नाकौकस्स्तूयमानचरिताय । नरकदकर्मनिहन्त्रे । नरपूज्याय । नाशिताहिविषकूटाय । नतरक्षिणे । निखिलेड्याय । निर्वाणात्मने । निरस्तदुरितौघाय । सिद्धध्येयाय । सकलाय । सूक्ष्माय । सूर्यकोटिसङ्काशाय । सुखरूपिणे । स्वर्णनिभाय । स्तम्बेरमभोजनाय । सुधाहारिणे । सुमनसे । सुकीर्तिनाथाय नमः ॥ ४० ॐ गरुडाय नभः । गम्भीरघोषाय । गालवमित्राय । गेयाय । गीतिज्ञाय । गतिमतां श्रेष्ठाय । गन्धर्वार्च्याय । गुह्याय । गुणसिन्धवे । गोत्रभिन्मान्याय । रविसारथिसहजाय । रत्नाभरणान्विताय । रसज्ञाय । रुद्राकान्ताय । रुक्मोज्ज्वलजानवे । रजतनिभसक्थये । रक्तप्रभकण्ठाय । रयिमते । राज्ञे । रथाङ्गपाणिरथाय नमः ॥ ६० ॐ तार्क्ष्याय नमः । तटिन्निभाय । तनुमध्याय । तोषितात्मजननीकाय । तारात्मने । महनीयाय । मतिमते । मुख्याय । मुनीन्द्रेड्याय । माधववाहाय । त्रिवृदात्मस्तोमशीर्षाय । त्रिनयनपूज्याय । त्रियुगाय । त्रिषवणमज्जन्महात्महृन्नीडाय । त्रसरेण्वादिमनिखिलज्ञात्रे । त्रिवर्गफलदायिने । त्र्यक्षाय । त्रासितदैत्याय । त्रय्यन्तेड्याय । त्रयीरूपाय नमः ॥ ८० ॐ वृत्रारिमानहारिणे नमः । वृषदायिने । वृष्णिवराध्युषितांसाय । वृश्चिकलूतादिविषदाहिने । वृकदंशजन्यरोगध्वंसिने । विहगराजे । वीराय । विषहृते । विनतातनुजाय । वीर्याढ्याय । तेजसां राशये । तुर्याश्रमिजायमनमो । तृप्ताय । तृष्णाचिहीनाय । तुलनाहीनाय । तर्क्याय । तक्षकवैरिणे । तटिद्गौराय । तारादिम- पञ्चार्णाय । तन्द्रीरहिताय नमः ॥ १०० ॐ शितनासाग्राय नमः । शान्ताय । शतमखवैरिप्रभञ्जनाय । शास्त्रे । शात्रववीरुद्दात्राय । शमिताघौघाय । शरण्याय । शतदशलोचनसहजाय । शकुनाय । शकुन्ताग्र्याय । रत्नालङ्कृत- मूर्तये । रसिकाय । राजीवचारुचरणयुगाय । रङ्गेशचारुमित्राय । रोचिष्मते । राजदुरुपक्षाय । रुचिनिर्जितकनकाद्रये । रघुपत्यहि- पाशबन्धविच्छेत्रे । रञ्जितखगनिवहाय । रम्याकाराय नमः ॥ १२० ॐ गतक्रोधाय नमः । गीष्पतिनुताय । गरुत्मते । गीर्वाणेशाय । गिरां नाथाय । गुप्तस्वभक्तनिवहाय । गुञ्जाक्षाय । गोप्रियाय । गूढाय । गानप्रियाय । यतात्मने । यमिनम्याय । यक्षसेव्याय । यज्ञप्रियाय । यशस्विने । यज्ञात्मने । यूथपाय । योगिने । यन्त्राराध्याय । यागप्रभवाय नमः ॥ १४० ॐ त्रिजगन्नाथाय नमः । त्रस्यत्पन्नगवृन्दाय । त्रिलोक- परिरक्षिणे । तृषिताच्युततृष्णापहतटिनीजनकाय । त्रिवलीरञ्जित- जठराय । त्रियुगगुणाढ्याय । त्रिमूर्तिसमतेजसे । तपनद्युतिमकुटाय । तरवारिभ्राममानकटिदेशाय । ताम्रास्याय । चक्रधराय । चीराम्बर- मानसावासाय । चूर्णितपुलिन्दवृन्दाय । चारुगतये । चोरभयघ्ने । चञ्चूपुटभिन्नाहये । चर्वितकमठाय । चलच्चेलाय । चित्रितपक्षाय । चम्पकमालाविराजदुरुवक्षसे नमः ॥ १६० ॐ क्षुभ्यन्नीरधिवेगाय नमः । क्षान्तये । क्षीराब्धिवासनिरताय । क्षुद्रग्रहमर्दिने । क्षत्रियपूज्याय । क्षयादिरोगहराय । क्षिप्र- शुभोत्करदायिने । क्षीणारातये । क्षितिक्षमाशालिने । क्षितितल- वासिने । सोमप्रियदर्शनाय । सर्वेशाय । सहजबलाय । सर्वात्मने । सर्वदृशे । तर्जितरक्षस्सङ्घाय । ताराधीशद्युतये । तुष्टाय । तपनीयकान्तये । तत्त्वज्ञानप्रदाय नमः ॥ १८० ॐ मान्याय नमः । मञ्जुलभाषिणे । महितात्मने । मर्त्यधर्मरहिताय । मोचितविनतादास्याय । मुक्तात्मने । महदञ्चितचरणाब्जाय । मुनिपुत्राय । मौक्तिकोज्ज्वलद्धाराय । मङ्गलकारिणे । आनन्दाय । आत्मने । आत्मक्रीडाय । आत्मरतये । आकण्ठ- कुङ्कुगाभाय । आकेशान्तात्सितेतराय । आर्याय । आहृतपीपूषाय । आशाकृते । आशुगमनाय नमः ॥ २०० ॐ आकाशगतये । तरुणाय । तर्कज्ञेयाय । तमोहन्त्रे । तिमिरादिरोगहारिणे । तूर्णगतये । मन्त्रकृते । मन्त्रिणे । मन्त्राराध्याय । मणिहाराय । मन्दराद्रिनिभमूर्तये । सर्वातीताय । सर्वस्मै । सर्वाधाराय । सनातनाय । स्वङ्गाय । सुभगाय । सुलभाय । सुबलाय । सुन्दरबाहवे नमः ॥ २२० ॐ सामात्मने नमः । मखरक्षिणे । मखिपूज्याय । मौलिलग्नमकुटाय । मञ्जीरोज्ज्वलचरणाय । मर्यादाकृते । महा- तेजसे । मायातीताय । मानिने । मङ्गलरूपिणे । महात्मने । तेजोधि- क्कृतमिहिराय । तत्त्वात्मने । तत्त्वनिष्णाताय । तापसहितकारिणे । तापध्वंसिने । तपोरूपाय । ततपक्षाय । तथ्यवचसे । तरुकोटर- वासनिरताय नमः ॥ २४० ॐ तिलकोज्ज्वलनिटिलाय नमः । तुङ्गाय । त्रिदशभीति- पीरमोषिणे । तापिञ्छहरितवाससे । तालध्वजसोदरोज्ज्वलत्केतवे । तनुजितरुक्माय । ताराय । तारध्वानाय । तृणीकृतारातये । तिग्मनखाय । तन्त्रीस्वानाय । नृदेवशुभदायिने । निगमोदित- विभवाय । नीडस्थाय । निर्जराय । नित्याय । निनदहताशुभ- निवहाय । निर्मात्रे । निष्कलाय । नयोपेताय नमः ॥ २६० ॐ नूतनविद्रुमकण्ठाय नमः । विष्णुसमाय । वीर्यजितलोकाय । विरजसे । विततसुकीर्तये । विद्यानाथाय । वीशाय । विज्ञानात्मने । विजयाय । वरदाय । वासाधिकारविधिपूज्याय । मधुरोक्तये । मृदुभाषिणे । मल्लीदामोज्ज्वलत्तनवे । महिलाजनशुभकृते । मृत्युहराय । मलयवासिमुनिपूज्याय । मृगनाभिलिप्तनिटिलाय । मरकतमयकिङ्किणीकाय । मन्देतरगतये नमः ॥ २८० ॐ मेधाविने । दीनजनगोप्त्रे । दीप्ताग्रनासिकास्याय । दारिद्र्यध्वंसनाय । दयासिन्धवे । दान्तप्रियकृते । दान्ताय । दमनकधारिणे । दण्डितसाधुविपक्षाय । दैन्यहराय । दानधर्म- निरताय । वन्दारुवृन्दशुभकृते । वल्मीकौकोभयङ्कराय । विनुताय । विहिताय । वज्रनखाग्राय । यततामिष्टप्रदाय । यन्त्रे । युगबाहवे । यवनासाय नमः ॥ ३०० ॐ यवनारये नमः । ब्रह्मण्याय । ब्रह्मरताय । ब्रह्मात्मने । ब्रह्मगुप्ताय । ब्राह्मणपूजितमूर्तये । ब्रह्मध्यायिने । बृहत्पक्षाय । ब्रह्मसमाय । ब्रह्मांशाय । ब्रह्मज्ञाय । हरितवर्णचेलाय । हरिकैङ्कर्यरताय । हरिदासाय । हरिकथासक्ताय । हरिपूजननियतात्मने । हरिभक्तध्यातदिव्यशुभरूपाय । हरिपादन्यस्तात्मात्मीयभराय । हरिकृपापात्राय । हरिपादवहनसक्ताय नमः ॥ ३२० ॐ हरिमन्दिरचिह्नमूर्तये नमः । दमितपविगर्वकूटाय । दरनाशिने । दरधराय । दक्षाय । दानवदर्पहराय । रदनद्युति- रञ्जिताशाय । रीतिज्ञाय । रिपुहन्त्रे । रोगध्वंसिने । रुजाहीनाय । धर्मिष्ठाय । धर्मात्मने । धर्मज्ञाय । धर्मिजनसेव्याय । धर्माराध्याय । धनदाय । धीमते । धीराय । धवाय नमः ॥ ३४० ॐ धिक्कृतसुरासुरास्त्राय । त्रेताहोमप्रभावसञ्जाताय । तटिनीतीरनिवासिने । तनयार्थ्यर्च्याय । तनुत्राणाय । तुष्यज्जनार्दनाय । तुरीयपुरुषार्थदाय । तपस्वीन्द्राय । तरलाय । तोयचरारिणे । तुरगमुखप्रीतिकृते । रणशूराय । रयशालिने । रतिमते । राजीवहारभृते । रसदाय । रक्षस्सङ्घविनाशिने । रथिकवरार्च्याय । रणद्भूषाय । रभसगतये नमः ॥ ३६० ॐ रहितार्तये । पूताय । पुण्याय । पुरातनाय । पूर्णाय । पद्मार्च्याय । पवनगतये । पतितत्राणाय । परात्पराय । पीनांसाय । पृधुकीर्तये । क्षतजाक्षाय । क्ष्माधराय । क्षणाय । क्षणदाय । क्षेपिष्ठाय । क्षयरहिताय । क्षुण्णक्ष्माभृते । क्षरान्तनासाय । क्षिपवर्णघटितमन्त्राय नमः ॥ ३८० ॐ क्षितिसुरनम्याय नमः । ययातीड्याय । याज्याय । युक्ताय । योगाय । युक्ताहाराय । यमार्चिताय । युगकृते । याचितफलप्रदायिने । यत्नार्च्याय । यातनाहन्त्रे । ज्ञानिने । ज्ञप्तिशरीराय । ज्ञात्रे । ज्ञानदाय । ज्ञेयाय । ज्ञानादिमगुणपूर्णाय । ज्ञप्तिहताविद्यकाय । ज्ञमणये । ज्ञात्यहिमर्दनदक्षाय नमः ॥ ४०० ॐ ज्ञानिप्रियकृते नमः । यशोराशये । युवतिजनेप्सितदाय । युवपूज्याय । यूने । यूथस्थाय । यामाराध्याय । यमभयहारिणे । युद्धप्रियाय । योद्ध्रे । योगज्ञज्ञाताय । ज्ञातृज्ञेयात्मकाय । ज्ञप्तये । ज्ञानहताशुभनिवहाय । ज्ञानघनाय । ज्ञाननिधये । ज्ञातिजभय- हारिणे । ज्ञानप्रतिबन्धकर्मविच्छेदिने । ज्ञानेन हताज्ञानध्वान्ताय । ज्ञानीशवन्द्यचरणाय नमः ॥ ४२० ॐ यज्वप्रियकृते । याजकसेव्याय । यजनादिषट्कनिरतार्च्याय । यायावरशुभकृते । यशोदायिने । यमयुतयोगिप्रेक्ष्याय । यादवहितकृते । यतीश्वरप्रणयिने । योजनसहस्रगामिने । यथार्थज्ञाय । पोषितभक्ताय । प्रार्थ्याय । पृथुतरबाहवे । पुराणविदे । प्राज्ञाय । पैशाचभयनिहन्त्रे । प्रबलाय । प्रथिताय । प्रसन्नवदनयुताय । पत्ररथाय नमः ॥ ४४० ॐ छायानश्यद्भुजङ्गौघाय नमः । छर्दितविप्राय । छिन्नारातये । छन्दोमयाय । छन्दोविदे । छन्दोऽङ्गाय । छन्दश्शास्त्रार्थविदे । छान्दसशुभङ्कराय । छन्दोगध्यातशुभमूर्तये । छलमुखदोष- विहीनाय । छूनायतोज्ज्वलद्बाहवे । छन्दोनिरताय । छात्रोत्कर- सेव्याय । छत्रभृन्महिताय । छन्दोवेद्याय । छन्दः प्रतिपादित- वैभवाय । छागवपाऽऽहुतितृप्ताय । छायापुत्रोद्भवार्तिविच्छेदिने । छविनिर्जितखर्जूराय । छादितदिविषत्प्रभावाय नमः ॥ ४६० ॐ दुस्स्वप्ननाशनाय नमः । दमनाय । देवाग्रण्ये । दात्रे । दुर्धर्षाय । दुष्कृतघ्ने । दीप्तास्याय । दुस्सहाय । देवाय । दीक्षित- वरदाय । सरसाय । सर्वेड्याय । संशयच्छेत्रे । सर्वज्ञाय । सत्याय । योगाचार्याय । यथार्थवित्प्रियकृते । योगप्रमाणवेत्त्रे । युञ्जानाय । योगफलदायिने नमः ॥ ४८० ॐ गानासक्ताय । गहनाय । ग्रहचारपीडनध्वंसिने । ग्रहभयघ्ने । गदहारिणे । गुरुपक्षाय । गोरसादिने । गव्यप्रियाय । गकारादिमनाम्ने । गेयवरकीर्तये । नीतिज्ञाय । निरवद्याय । निर्मलचित्ताय । नरप्रियाय । नम्याय । नारदगेयाय । नन्दिस्तुत- कीर्तये । निर्णयात्यकाय । निर्लेपाय । निर्द्बन्द्वाय नमः ॥ ५०० ॐ धीधिष्ण्याय नमः । धिक्कृतारातये । धृष्टाय । धनञ्जयार्चि- श्शमनाय । धान्यदाय । धनिकाय । धन्वीड्याय । धनदार्च्याय । धूर्तार्तिप्रापकाय । धुरीणाय । षण्मुखनुतचरिताय । षड्गुणपूर्णाय । षडर्धनयनसमाय । नादात्मने । निर्दोषाय । नवनिधिसेव्याय । निरञ्जनाय । नव्याय । यतिमुक्तिरूपफलदाय । यतिपूज्याय नमः ॥ ५२० ॐ शतमूर्तये नमः । शिशिरात्मने । शास्त्रज्ञाय । शास्त्रकृते । श्रीलाय । शशधरकीर्तये । शश्वत्प्रियदाय । शाश्वताय । शमिध्याताय । शुभकृते । फल्गुनसेव्याय । फलदाय । फालोज्ज्वलत्पुण्ड्राय । फलरूपिणे । फणिकटकाय । फणिकटिसूत्राय । फलोद्वहाय । फलभुजे । फलमूलाशिध्येयाय । फणियज्ञसूत्रधारिणे नमः ॥ ५४० ॐ योषिदभीप्सितफलदाय नमः । युतरुद्राय । यजुर्नाम्ने । यजुरुपपादितमहिम्ने । युतरतिकेलये । युवाग्रण्ये । यमनाय । यागचिताग्निसमानाय । यज्ञेशाय । योजितापदरये । जितसुर- सङ्घाय । जैत्राय । ज्योतीरूपाय । जितामित्राय । जवनिर्जित- पवनाय । जयदाय । जीवोत्करस्तुत्याय । जनिधन्यकश्यपाय । जगदात्मने । जडिमविध्वंसिने नमः ॥ ५६० ॐ षिद्गानर्च्याय नमः । षण्डीकृतसुरतेजसे । षडध्वनिरताय । षट्कर्मनिरतहितदाय । षोडशविधविग्रहाराध्याय । षाष्टिकचरुप्रियाय । षडूर्म्यसंस्पृष्टदिव्यात्मने । षोडशियागसुतृप्ताय । षण्णवतिश्राद्धकृद्धितकृते । षड्वर्गगन्धरहिताय । नारायणनित्य- वहनाय । नामार्चकवरदायिने । नानाविधतापविध्वंसिने । नवनीर- दकेशाय । नानार्थप्रापकाय । नताराध्याय । नयविदे । नवग्रहार्च्याय । नखयोधिने । निश्चलात्मने नमः ॥ ५८० ॐ मलयजलिप्ताय नमः । मदघ्ने । मल्लीसूनार्चिताय । महावीराय । मरुदर्चिताय । महीयसे । मञ्जुध्वानाय । मुरार्यंशाय । मायाकूटविनाशिने । मुदितात्मने । सुखितनिजभक्ताय । सकलप्रदाय । समर्थाय । सर्वाराध्याय । सवप्रियाय । साराय । सकलेशाय । समरहिताय । सुकृतिने । सूदितारातये नमः ॥ ६०० ॐ परिधृतहरितसुवाससे नमः । पाणिप्रोद्यत्सुधाकुम्भाय । प्रवराय । पावककान्तये । पटुनिनदाय । पञ्जरावासिने । पण्डित- पूज्याय । पीनाय । पातालपतितवसुरक्षिणे । पङ्केरुहार्चिताङ्घ्रये । नेत्रानन्दाय । नुतिप्रियाय । नेयाय । नवचम्पकमालाभृते । नाकौकसे । नाकिहितकृते । निस्तीर्णसंविदे । निष्कामाय । निर्ममाय । निरुद्वेगाय नमः ॥ ६२० ॐ सिद्धये । सिद्धप्रियकृते । साध्याराध्याय । सुरवोद्वहाय । स्वामिने । सागरतीरविहारिणे । सौम्याय । सुखिने । साधवे । स्वादुफलाशिने । गिरिजाराध्याय । गिरिसन्निभाय । गात्रद्युति- जितरुक्माय । गुण्याय । गुहवन्दिताय । गोप्त्रे । गगनाभाय । गतिदायिने । गीर्णाहये । गोनसारातये नमः ॥ ६४० ॐ रमणकनिलयाय । रूपिणे । रसविदे । रक्षाकराय । रुचिराय । रागविहीनाय । रक्ताय । रामाय । रतिप्रियाय । रवकृते । तत्त्वप्रियाय । तनुत्रालङ्कृतमूर्तये । तुरङ्गगतये । तुलितहरये । तुम्बरुगेयाय । मालिने । महर्द्ध्यिते । मौनिने । मृगनाथविक्रमाय । मुषितार्तये नमः ॥ ६६० ॐ दीनभक्तजनरक्षिणे नगः । दोधूयमानभुवनाय । दोषविहीनाय । दिनेश्वराराध्याय । दुरितविनाशिने । दयिताय । दासीकृतत्रिदशाय । दन्तद्युतिजितकुन्दाय । दण्डधराय । दुर्गतिध्वंसिने । वन्दिप्रियाय । वरेण्याय । वीर्योद्रिक्ताय । वदान्यवरदाय । वाल्मीकिगेयकीर्तये । वर्द्धिष्णवे । वारिताघकूटाय । वसुदाय । वसुप्रियाय । वसुपूज्याय नमः ॥ ६८० ॐ गर्भवासविच्छेदिने । गोदाननिरतसुखकृते । गोकुलरक्षिणे । गवां नाथाय । गोवर्द्धनाय । गभीराय । गोलेशाय । गौतमाराध्याय । गतिमते । गर्गनुताय । चरितादिमपूजनाध्वग- प्रियकृते । चामीकरप्रदायिने । चारुपदाय । चराचरस्वामिने । चन्दनचर्चितदेहाय । चन्दनरसशीतलापाङ्गाय । चरितपवित्रित- भुवनाय । चाटूक्तये । चोरविध्वंसिने । चञ्चद्गुणनिकराय नमः ॥ ७०० ॐ सुभराय । सूक्ष्माम्बराय । सुभद्राय । सूदितखलाय । सुभानवे । सुन्दरमूर्तये । सुखास्पदाय । सुमतये । सुनयाय । सोमरसादिप्रियकृते । विरक्तेड्याय । वैदिककर्मसुतृप्ताय । वैखानसपूजिताय । वियच्चारिणे । व्यक्ताय । वृषप्रियाय । वृषदाय । विद्यानिधये । विराजे । विदिताय नमः ॥ ७२० ॐ परिपालितविहगकुलाय नमः । पुष्टाय । पूर्णाशयाय । पुराणेड्याय । परिधृतपन्नगशैलाय । पार्थिववन्द्याय । पदाहृत- द्विरदाय । परिनिष्ठितकार्याय । परार्ध्यहाराय । परात्मने । तन्वीड्याय । तुङ्गासाय । त्यागिने । तूर्यादिवाद्यसन्तुष्टाय । तप्तद्रुतकनकाङ्गदधारिणे । तृप्तये । तृष्णापाशच्छेदिने । त्रिभुवनमहिताय । त्रयीधराय । तर्काय नमः ॥ ७४० ॐ त्रिगुणातीताय । तामसगुणनाशिने । तपस्सिन्धवे । तीर्थाय । त्रिसमयपूज्याय । तुहिनोरवे । तीर्थकृते । तटस्थाय । तुरगपतिसेविताय । त्रिपुरारिश्लाघिताय । प्रांशवे । पाषण्डतूल- दहनाय । प्रेमरसार्द्राय । पराक्रमिणे । पूर्वाय । प्रेङ्खत्कुण्डलगण्डाय । प्रचलद्धाराय । प्रकृष्टमतये । प्रचुरयशसे । प्रभुनम्याय नमः ॥ ७६० ॐ रसदाय । रूपाधरीकृतस्वर्णाय । रसनानृत्यद्विद्याय । रम्भादिस्तुत्यचारुचरिताय । रंहस्समूहरूपिणे । रोषहराय । रिक्तसाधुधनदायिने । राजद्रत्नसुभूषाय । रहिताघौघाय । रिरंसवे । षट्कालपूजनीयाय । षड्गुणरत्नाकराय । षडङ्गज्ञाय । षड्रसवेदिने । षण्डावेद्याय । षड्दर्शनीप्रदाय । षड्विंशतितत्त्वज्ञाय । षड्रसभोजिने । षडङ्गवित्पूज्याय । षड्जादिस्वरवेदिने नमः ॥ ७८० ॐ युगवेदिने नमः । यज्ञभुजे । योग्याय । यात्रोद्युक्तशुभंयवे । युक्तिज्ञाय । यौवनाश्वसम्पूज्याय । युयुधानाय । युद्धज्ञाय । युक्ताराध्याय । यशोधनाय । विद्युन्निभाय । विवृद्धाय । वक्त्रे । वन्द्याय । वयः प्रदाय । वाच्याय । वर्चस्विने । विश्वेशाय । विधिकृते । विधानज्ञाय नमः ॥ ८०० ॐ दीधितिमालाधारिणे । दशदिग्गामिने । दृढोज्ज्वलत्पक्षाय । दंष्ट्रारुचिरमुरवाय । दवनाशाय । महोदयाय । मुदिताय । मृदितकषायाय । मृग्याय । मनोजवाय । हेतिभृद्वन्द्याय । हैयङ्गवीनभोक्त्रे । हयमेधप्रीतमानसाय । हेमाब्जहारधारिणे । हेलिने । हेतीश्वरप्रणयिने । हठयोगकृत्सुसेव्याय । हरिभक्ताय । हरिपुरस्स्थायिने । हितदाय नमः ॥ ८२० ॐ सुपृष्ठराजद्धरये । सौम्यवृत्ताय । स्वात्युद्भवाय । सुरम्याय । सौधीभूतश्रुतये । सुहृद्वन्द्याव । सगरस्यालाय । सत्पथचारिणे । सन्तानवृद्धिकृते । सुयशसे । विजयिने । विद्वत्प्रवराय । वर्ण्याय । वीतरागभवनाशिने । वैकुण्ठलोकवासिने । वैश्वानरसन्निभाय । विदग्धाय । वीणागानसुरक्ताय । वैदिक- पूज्याय । विशुद्धाय नमः ॥ ८४० ॐ नर्मप्रियाय । नतेड्याय । निर्भीकाय । नन्दनाय । निरातङ्काय । नन्दनवनचारिणे । नगग्रनिलयाय । नमस्कार्याय । निरुपद्रवाय । नियन्त्रे । प्रयताय । पर्णाशिभाविताय । पुण्यप्रदाय । पवित्राय । पुण्यश्लोकाय । प्रियंवदाय । प्राज्ञाय । परयन्त्रतन्त्रभेदिने । परनुन्नग्रहभवार्तिविच्छेदिने । परनुन्नग्रहदाहिने नमः ॥ ८६० ॐ क्षामक्षोभप्रणाशनाय । क्षेमिणे । क्षेमकराय । क्षौद्ररसाशिने । क्षमाभूषाय । क्षान्ताश्रितापराधाय । क्षुधितजनान्नप्रदाय । क्षौमाम्बरशालिने । क्षवधुहराय । क्षीरभुजे । यन्त्रस्थिताय । यागोद्युक्तस्वर्णप्रदाय । युतानन्दाय । यतिवन्दितचरणाब्जाय । यतिसंसृतिदाहकाय । युगेशानाय । याचकजनहितकारिणे । युगादये । युयुत्सवे । यागफलरूपवेत्त्रे नमः ॥ ८८० ॐ धृतिमते नमः । धैर्योदधये । ध्येयाय । धीधिक्कृतकुमताय । धर्मोद्युक्तप्रियाय । धराग्रस्थाय । धीनिर्जितधिषणाय । धीमत्प्रवरार्थिताय । धराय । धृतवैकुण्ठेशानाय । मतिमद्ध्येयाय । महाकुलोद्भूताय । मण्डलगतये । मनोज्ञाय । मन्दारप्रसवधारिणे । मार्जारदंशनोद्भवरोगध्वंसिने । महोद्यमाय । मूषिकविषदाहिने । मात्रे । मेयाय नमः ॥ ९०० ॐ हितोद्युक्ताय नमः । हीरोज्ज्वलभूषणाय । हृद्रोगप्रशमनाय । हृद्याय । हृत्पुण्डरीकनिलयाय । होराशास्त्रार्थविदे । होत्रे । होमप्रियाय । हतार्तये । हुतवहजायावसानमन्त्राय । तन्त्रिणे । तन्त्राराध्याय । तान्त्रिकजनसेविताय । तत्त्वाय । तत्त्वप्रकाशकाय । तपनीयभ्राजमानपक्षाय । त्वग्भवरोगविमर्दिने । तापत्रयघ्ने । त्वरान्विताय । तलताडननिहतारये ॥ ९२० ॐ नीवारान्नप्रियाय नमः । नीतये । नीरन्ध्राय । निष्णाताय । नीरोगाय । निर्ज्वराय । नेत्रे । निर्धार्याय । निर्मोहाय । नैयायिक- सौख्यदायिने । गौरवभृते । गणपूज्याय । गर्विष्ठाहिप्रभञ्जनाय । गुरवे । गुरुभक्ताय । गुल्महराय । गुरुदायिने । गुत्सभृते । गण्याय । गीरष्ठर्स्तये नमः ॥ ९४० ॐ रजोहराय नमः । राङ्कवास्तरणाय । रशनारञ्जितमध्याय । रोगहराय । रुक्मसूनार्च्याय । रल्लकसङ्ख्यानाय । रोचिष्णवे । रोचनाग्रनिलयाय । रङ्गेड्याय । रयसचिवाय । डोलायितनिगमशायिने । ढक्कानादसुतृप्ताय । डिम्भप्रियकृते । डुण्डुभारातये । डहुरसमिश्रान्नादिने । डिण्डिमरवतृप्तमानसाय । डम्भादिदोषहीनाय । डमरहराय । डमरुनादसन्तुष्टाय । डाकिन्यादिक्षुद्रग्रहमर्दिने नमः ॥ ९६० ॐ पाञ्चरात्रपूज्याय नमः । प्रद्युम्नाय । प्रवरगुणाय । प्रसरत्कीर्तये । प्रचण्डदोर्दण्डाय । पत्रिणे । पणितगुणौघाय । प्राप्ताभीष्टाय । पराय । प्रसिद्धाय । चिदूपिणे । चित्तज्ञाय । चेतनपूज्याय । चोदनार्थज्ञाय । चिकुरधृतहल्लकाय । चिरजीविने । चिद्घनाय । चित्राय । चित्रकराय । चिन्निलयाय नमः ॥ ९८० ॐ द्विजवर्याय नमः । दारितेतये । दीप्ताय । दस्युप्राणप्रहराय । दुष्कृत्यनाशकृते । दिव्याय । दुर्बोधहराय । दण्डितदुर्जनसङ्घाय । दुरात्मदूरस्थाय । दानप्रियाय । यमीशाय । यन्त्रार्चककाम्यदाय । योगपराय । युतहेतये । योगाराध्याय । युगावर्ताय । यज्ञाङ्गाय । यज्वेड्याय । यज्ञोद्भूताय । यथार्थाय नमः ॥ १००० ॐ श्रीमते नमः । नितान्तरक्षिणे । वाणीशसमाय । साधवे । यज्ञस्वामिने । मञ्जवे । गरुडाय । लम्बोरुहारभृते नमः ॥ १००८ इति श्रीगरुडसहस्रनामावलिः समाप्ता ।