अक्षर आकार:

गरूडध्वजस्तोत्रम् अथवा ध्रुवकृता भगवत्स्तुतिः

garUDadhvajastotram or bhagavatstutiH by Dhruva

गरूडध्वजस्तोत्रम् अथवा ध्रुवकृता भगवत्स्तुतिः

ध्रुव उवाच योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन्- प्राणान्नमो भगवते पुरूषाय तुभ्यम् ॥ १॥ एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरूगुणया महदाद्यशेषम् । सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु नानेव दारूषु विभावसुवद्विभासि ॥ २॥ त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः । तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ३॥ नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः । अर्चन्ति कल्पकतरूं कुणपोपभोग्य- मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ४॥ या निर्वृतिस्तनुभूतां तव पादपद्म- ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किन्त्वन्तकासिलुलितात् पततां विमानात् ॥ ५॥ भक्तिं मूहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्त महताममलाशयानाम् । येनाञ्जसोल्बणमुरूव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ॥ ६॥ ते न स्मरन्त्यतितरां प्रियमीशमर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द- सौगंध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ ७॥ तिर्यङ्मगद्विजसरीसृपदेवदैत्य- मर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपम् स्थविष्ठमज ते महदाद्यनेकं नातःपरं परम वेद्मि न यत्र वादः ॥ ८॥ कल्पान्त एतदखिलं जठरेण गृह्वन् शेते पुमान् स्वदृगनन्तसखस्तदङ्के । यन्नाभिसिन्धुरूहकाञ्चनलोकपद्म- गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥ ९॥ त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा कूटस्थ आदिपुरूषो भगवांस्त्र्यधीशः । यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखो व्यातिरिक्त आस्से ॥ १०॥ यस्मिन् विरूद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् । तद्भह्म विश्वभवमेकमनन्तमाद्यम- अनन्दमात्रमविकारमहं प्रपद्ये ॥ ११॥ सत्याशिषो हि भगवंस्तव पादपद्म- माशीस्तथाऽनुभजतः पुरुषार्थमूर्तेः । अप्येवमार्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १२॥ मैत्रेय उवाच अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता । भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १३॥ श्रीभगवानुवाच वेदाहं ते व्यवसितं हृदि राजन्यबालक । तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥ १४॥ नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति । यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ १५॥ मेढ्यां गोचक्रवत्स्थास्नु परस्तात् कल्पवासिनाम् । धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ॥ चरन्ति दक्षिणोकृत्य भ्रमन्तो यत्सतारकाः ॥ १६॥ प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः । षत्त्रिंशद्वर्षसाहस्रं रक्षिताऽव्याहतेन्द्रियः ॥ १७॥ त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः । अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्षय्ति ॥ १८॥ इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः । भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ १९॥ ततो गंतासि मत्स्थानं सर्वलोकनमस्कृतम् । उपरिष्ठादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ २०॥ मैत्रेय उवाच इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् । बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥ २१॥ । इति श्रीमद्भागवतपुराणान्तर्गतं श्रीगरुडध्वजस्तोत्रं सम्पूर्णम् । (श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः)