अक्षर आकार:

श्रीगरुडाष्टोत्तरशतनामस्तोत्रम्

shrIgaruDAShTottarashatanAmastotram

श्रीगरुडाष्टोत्तरशतनामस्तोत्रम्

श्रीदेव्युवाच - देवदेव महादेव सर्वज्ञ करुणानिधे । श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् । ईश्वर उवाच - श‍ृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः । नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥ अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः गरुडो देवता । प्रणवो बीजम् । विद्या शक्तिः । वेदादिः कीलकम् । पक्षिराजप्रीत्यर्थे जपे विनियोगः । ध्यानम् - अमृतकलशहस्तं कान्तिसम्पूर्णदेहं सकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् । कनकरुचिरपक्षोद्धूयमानाण्डगोलं सकलविषविनाशं चिन्तयेत्पक्षिराजम् ॥ ॐ । वैनतेयः खगपतिः काश्यपोऽग्निर्महाबलः । तप्तकाश्चनवर्णाभः सुपर्णो हरिवाहनः ॥ १॥ छन्दोमयो महातेजा महोत्साहो महाबलः । ब्रह्मण्यो विष्णुभक्तश्च कुन्देन्दुधवलाननः ॥ २॥ चक्रपाणिधरः श्रीमान्नागारिर्नागभूषणः । विज्ञानदो विशेषज्ञो विद्यानिधिरनामयः ॥ ३॥ भूतिदो भुवनत्राता भूशयो भक्तवत्सलः । सप्तच्छन्दोमयः पक्षी सुरासुरसुपूजितः ॥ ४॥ गजभुक् कच्छपाशी च दैत्यहन्ताऽरुणानुजः । अमृतांशोऽमृतवपुरानन्दनिधिरव्ययः ॥ ५॥ निगमात्मा निराहारो निस्त्रैगुण्यो निरप्ययः । निर्विकल्पः परं ज्योतिः परात्परतरः परः ॥ ६॥ शुभाङ्गः शुभदः शूरः सूक्ष्मरूपी बृहत्तनुः । विषाशी विदितात्मा च विदितो जयवर्धनः ॥ ७॥ दार्ढ्याङ्गो जगदीशश्च जनार्दनमहाध्वजः । सतां सन्तापविच्छेत्ता जरामरणवर्जितः ॥ ८॥ कल्याणदः कलातीतः कलाधरसमप्रभः । सोमपः सुरसङ्घेशो यज्ञाङ्गो यज्ञभूषणः ॥ ९॥ महाजवो जितामित्रो मन्मथप्रियबान्धवः । शङ्खभृच्चक्रधारी च बालो बहुपराक्रमः ॥ १०॥ सुधाकुम्भधरो धीमान्दुराधर्षो दुरारिहा । वज्राङ्गो वरदो वन्द्यो वायुवेगो वरप्रदः ॥ ११॥ विनतानन्दनः श्रीदो विजितारातिसङ्गुलः । पतद्वीरष्ठः सर्वेशः पापहा पापनाशनः ॥ १२॥ अग्निजिज्जयघोषश्च जगदाह्लादकारकः । वज्रनासः सुवक्त्रश्च मारिघ्नो मदभञ्जनः ॥ १३॥ कालज्ञः कमलेष्टश्च कलिदोषनिवारणः । विद्युन्निभो विशालाङ्गो विनतादास्यमोचनः ॥ १४॥ स्तोमात्मा च त्रयीमूर्धा भूमा गायत्रलोचनः । सामगानरतः स्रग्वी स्वच्छन्दगतिरग्रणीः ॥ १५॥ इतीदं परमं गुह्यं गरुडस्य महात्मनः नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् । स्तूयमानं महादिव्यं विष्णुना समुदीरितम् ॥ १६॥ इति ब्रह्माण्डपुराणान्तर्गतं गरुडाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।