अक्षर आकार:

गरुडोपनिषदुद्धृता श्रीगरुडनामावलिः

Shri Garudanamavalih from Garudopanishad

गरुडोपनिषदुद्धृता श्रीगरुडनामावलिः

ॐ गं गरुडाय नमः । ॐ हरिवल्लभाय नमः । ॐ स्वस्तिकीकृतदक्षिणपादाय नमः । ॐ अकुञ्चितवामपादाय नमः । ॐ प्राञ्जलीकृतदोर्युग्माय नमः । ॐ वामकटकीकृतानन्ताय नमः । ॐ यज्ञसूत्रीकृतवासुकये नमः । ॐ कटिसूत्रीकृततक्षकाय नमः । ॐ हारीकृतकर्कोटकाय नमः । ॐ सपद्मदक्षिणकर्णाय नमः । १० ॐ समहापद्मवामकर्णाय नमः । ॐ सशङ्खशिरस्काय नमः । ॐ भुजान्तरगुलिकाय नमः । ॐ पौण्ड्रकालिकनागचामर सुवीजिताय नमः । ॐ एलापुत्रकादि नागसेव्यमानाय नमः । ॐ मुदान्विताय नमः । ॐ कपिलाक्षाय नमः । ॐ गरुत्मते नमः । ॐ सुवर्णसदृशप्रभाय नमः । ॐ आजानुतः सुपर्णाभाय नमः । २० ॐ आकट्योस्तु हिनप्रभाय नमः । ॐ आकन्धङ्कुङ्कुमारुणाय नमः । ॐ शत चन्द्रनिभाननाय नमः । ॐ नीलाग्रनासिकावक्त्राय नमः । ॐ सुमहच्चारुकुण्डलाय नमः । ॐ दंष्ट्राकरालवदनाय नमः । ॐ मुकुटोज्ज्वलाय नमः । ॐ कुङ्कुमारुणसर्वाङ्गाय नमः । ॐ कुन्देन्दुधवलानाय नमः । ॐ विष्णुवाहाय नमः । ३० ॐ नागभूषणाय नमः । ॐ विषतूलराश्यनलाय नमः । ॐ भगवते नमः । ॐ श्रीमहागरुडाय नमः । ॐ पक्षीन्द्राय नमः । ॐ विष्णुवल्लभाय नमः । ॐ त्र्यैलोक्यपरिपूजिताय नमः । ॐ उग्राय नमः । ॐ भयङ्कराय नमः । ॐ कालानलरूपाय नमः । ४० ॐ वज्रनखाय नमः । ॐ वज्रतुण्डाय नमः । ॐ वज्रदन्ताय नमः । ॐ वज्रदंष्ट्राय नमः । ॐ वज्रपुच्छाय नमः । ॐ वज्रपक्षालक्षित शरीराय नमः । ॐ अप्रतिशानाय नमः । ॐ दुष्टविषदूषणाय नमः । ॐ स्पृष्ट विषनाशाय नमः । ॐ दन्दशूकविषदारणाय नमः । ५० ॐ प्रलीनविषप्रणाशाय नमः । ॐ सर्वविषनाशाय नमः । ॐ चन्द्रमण्डलसङ्काशाय नमः । ॐ सूर्यमण्डलमुष्टिकाय नमः । ॐ पृथ्वीमण्डलमुद्राङ्गाय नमः । ॐ क्षिपस्वाहामन्त्राय नमः । ॐ सुपर्णाय नमः । ॐ गरुत्मते नमः । ॐ त्रिवृच्छिराय नमः । ॐ गायत्रीचक्षुषे नमः । ६० ॐ स्तोमात्मने नमः । ॐ सामतनवे नमः । ॐ वासुदेव्यबृहद्रथन्तरपक्षाय नमः । ॐ यङ्ञायङ्ञियपुच्छाय नमः । ॐ छन्दोङ्गाय नमः । ॐ धिष्णिशफाय नमः । ॐ यजुर्नाम्ने नमः । ॐ ईं बीजाय नमः । ॐ स्त्र्यं बीजाय नमः । ॐ अनन्तकदूतविषहराय नमः । ७० ॐ वासुकिदूतविषहराय नमः । ॐ तक्षकदूतविषहराय नमः । ॐ कर्कोटकदूतविषहराय नमः । ॐ पद्मकदूतविषहराय नमः । ॐ महापद्मकदूतविषहराय नमः । ॐ शब्ददूतविषहराय नमः । ॐ गुलिकदूतविषहराय नमः । ॐ पौण्ड्रकालिकदूतविषहराय नमः । ॐ नागकदूतविषहराय नमः । ॐ लूताविषहराय नमः । ८० ॐ प्रलूताविषहराय नमः । ॐ वृश्चिकविषहराय नमः । ॐ घोटकविषहराय नमः । ॐ स्थावरविषहराय नमः । ॐ जङ्गमकविषहराय नमः । ॐ दिव्यानां महानागानां विषहराय नमः । ॐ महानागादिरूपाणां विषहराय नमः । ॐ मूषिकविषहराय नमः । ॐ गृहगौलिकविषहराय नमः । ॐ गृहगोधिकविषहराय नमः । ९० ॐ घ्रणापविषहराय नमः । ॐ गृहगिरिगह्वरकालानल वल्मीकोद्भूतानां विषहराय नमः । ॐ तार्णविषहराय नमः । ॐ पौर्णविषहराय नमः । ॐ काष्ठदारुवृक्षकोटररत विषहराय नमः । ॐ मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूत विषहराय नमः । ॐ दुष्टकीटकपिश्वानमार्जाल जम्बूकव्या घ्र वराह विषहराय नमः । ॐ जरायुजाण्डजोद्भिज्जस्वेदजानां विषहराय नमः । ॐ शस्त्रबाणक्षत स्फोटव्रण महाव्रण कृतानां विषहराय नमः । ॐ कृत्रिमविषहराय नमः । १०० ॐ भूतवेतालकूष्काण्णपिशाच प्रेतराक्षसयक्षभयप्रदानां विषहराय नमः । ॐ विषतुण्डानां विषहराय नमः । ॐ विषदन्तानां विषहराय नमः । ॐ विषदंष्ट्रानां विषहराय नमः । ॐ विषाङ्गानां विषहराय नमः । ॐ विषपुच्छानां विषहराय नमः । ॐ विश्वचाराणां विषहराय नमः । ॐ निर्विशेष सुपर्णाय परस्मै परब्रह्मणे नमः । १०८ इति गरुडोपनिषदुद्धृता श्रीगरुडनामावलिः समाप्ता