अक्षर आकार:

गर्भस्तुती

garbhastutiH

गर्भस्तुती

श्री गणेशाय नमः । देवा ऊचुः । जगद्योनिरयोनिस्त्वमनन्तोऽव्यय एव च । ज्योतिःस्वरूपो ह्यनिशः सगुणो निर्गुणो महान् ॥ १॥ भक्तानुरोधात्साकारो निराकारो निरङ्कुशः । निर्व्यूहो निखिलाधारो निःशङ्को निरुपद्रवः ॥ २॥ निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः । स्वात्मारामः पूर्णकामोऽनिमिषो नित्य एव च ॥ ३॥ स्वेच्छामयः सर्वहेतुः सर्वः सर्वगुणाश्रयः । सर्वदो दुःखदो दुर्गो दुर्जनान्तक एव च ॥ ४॥ सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः । वेदहेतुश्च वेदश्च वेदाङ्गो वेदविद्विभुः ॥ ५॥ इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः । हर्षाश्रुलोचनाः सर्वे ववृषुः कुसुमानि च ॥ ६॥ द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् । दृढां भक्तिं हरेर्दास्यं लभते वाञ्छितं फलम् ॥ ७॥ इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः । बभूव जलवृष्टिश्च निश्चेष्टा मथुरापुरी ॥ ८॥ ॥ इति श्रीब्रह्मवैवर्ते देवकृता गर्भस्तुतिः सम्पूर्णा ॥