अक्षर आकार:

द्वितीया चतुःश्लोकी

dvitIyA chatuHshlokI

द्वितीया चतुःश्लोकी

सदा सर्वात्मभावेन भजनीयो व्रजेश्वरः । करिष्यति स एवास्मदैहिकं पारलौकिकम् ॥ १॥ अन्याश्रयो न कर्त्तव्यः सर्वथा बाधकस्तु सः । स्वकीये स्वात्मभावाच्च कर्तव्यः सर्वथा सदा ॥ २॥ सदा सर्वात्मना कृष्णः सेव्यः कालादिदोषनुत् । तद्भक्तेषु च निर्दोषभावेन स्थेयमादरात् ॥ ३॥ भगवत्येव सततं स्थापनीयं मनः स्वयम् । कालोऽयं कठिनोऽपि श्रीकृष्णभक्तान्न बाधते ॥ ४॥ इति श्रीविठ्ठलेश्वरोक्ता द्वितीया चतुःश्लोकी समाप्ता ।