द्वादशनामस्तोत्रम्
श्रीगणेशाय नमः ॥
शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः ।
अनन्तस्याप्रमेयस्य नामद्वादशकं स्तवम् ॥ १॥
अर्जुनाय पुरा गीतं गोपालेन महात्मना ।
द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ ॥ २॥
अस्य श्रीदिव्यद्वादशनामस्तोत्रमहामन्त्रस्य फाल्गुनऋषिः
अनुष्टुप्छन्दः श्रीकृष्णः परमात्मा देवता
ॐ बीजं स्वाहेति शक्तिः
श्रीगोपालकृष्णप्रीत्यर्थे जपे विनियोगः ।
अथ ध्यानम् ।
जानुभ्यामपि धावन्तं बाहुभ्यामतिसुन्दरम् ।
सकुण्डलालकं बालं गोपालं चिन्तयेद्बुधः ॥ १॥
प्रथमं तु हरिं वन्द्यं द्वितीयं केशवं तथा ।
तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा ॥ २॥
पञ्चमं वेदगर्भं च षष्ठं तु मधुसूदनम् ।
सप्तमं वासुदेवं च वाराहं चाष्टमं तथा ॥ ३॥
नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।
कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा ॥ ४॥
एतद्द्वादशनामानि मया प्रोक्तानि फाल्गुन ।
कालत्रये पठेद्यस्तु तस्य पुण्यफलं शृणु ॥ ५॥
चान्द्रायणसहस्रस्य कन्यादानशतस्य च ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ६॥
इति श्रीमहाभारतेऽरण्यपर्वणि श्रीकृष्णार्जुनसवादे
द्वादशनामस्तोत्रं सम्पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):