अक्षर आकार:

श्रीद्वादशनामपञ्जरस्तोत्रम्

shrIdvAdashanAmapanjarastotram

श्रीद्वादशनामपञ्जरस्तोत्रम्

पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः । पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ॥ १॥ इन्दीवरदलश्यामो माधवोर्ध्वं गदाधरः । गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ २॥ उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः । आग्नेय्यामरविन्दाभो मुसली मधुसूदनः ॥ ३॥ त्रिविक्रमः खड्गपाणिर्निरृत्यां ज्वलनप्रभः । वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान् ॥ ४॥ ऐशान्यां पुण्डरीकाभः श्रीधरः पट्टसायुधः । विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी ॥ ५॥ हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः । सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः ॥ ६॥ इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः । स बाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः ॥ ७॥ एवं सर्वत्रमच्छिद्रं नामद्वादशपञ्जरम् । प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति कदाचन ॥ ८॥ भयं नास्ति कदाचन ॐ नम इति ॥ इति श्रीद्वादशनामपञ्जरस्तोत्रं सम्पूर्णम् ।