अक्षर आकार:

द्वादशमूर्तिस्तुतिः २

dvAdashamUrtistutiH 2

द्वादशमूर्तिस्तुतिः २

चतुश्चक्रं नमस्यामि केशवं कनकप्रभम् । नारायणं घनश्यामं चतुःशङ्खं नमाम्यहम् ॥ १॥ माधवं मणिभङ्गामं चिन्तयामि चतुर्गदम् । चन्द्रभासं चतुः शार्ङ्गं गोविन्दमपि संश्रये ॥ २॥ विष्णुं चतुर्हलं वन्दे पद्मकिञ्जल्कसन्निभम् । चतुर्मुसलमब्जाभं संश्रये मधुसूदनम् ॥ ३॥ अग्निवर्णं चतुःखड्गं भावयामि त्रिविक्रमम् । वामनं बालसूर्याभं चतुर्वज्रं विभावये ॥ ४॥ श्रीधरं पुण्डरीकाभं चतुःपट्टसमाश्रये । चतुर्मुद्गरमभ्येमि हृषीकेशं तटित्प्रभम् ॥ ५॥ पञ्चायुधं पद्मनाभं प्रणमाम्यर्करोचिषम् । दामोदरं चतुःपाशं इन्द्रगोपनिभं भजे ॥ ६॥ वासुदेवमुपासेऽहं पूर्णेन्द्वयुतसन्निभम् । श्रीदेवी, अमृतोद्भवा, कमला, चन्द्रसोदरी, वरारोहा, हरिवल्लभा, विष्णुपत्नी, वैष्णवी, शार्ङ्गिणी, देवदेविका, महालक्ष्मीः, सुरसुन्दरी, सर्वाभिष्टप्रदायिनी इति देव्यः केशवादीनां सवासुदेवानाम् । अच्युताय नमोऽनन्ताय नमो गोविन्दाय नमः इति त्रिनामा । इति द्वादशमूर्तिस्तुतिः २ सम्पाप्ता ।