अक्षर आकार:

द्वादशमूर्तिस्तुतिः १

dvAdashamUrtistutiH 1

द्वादशमूर्तिस्तुतिः १

तत्र वैष्णवलोके तु विष्णुः साक्षात्सनातनः । चतुर्धा दशधा चैव तथा द्वादशधा पुनः ॥ १॥ विभिन्नमूर्तिः सततं वर्तते माधवः सदा । जाम्बूनदप्रभश्चक्री पुर्वस्यां दिशि केशवः ॥ २॥ पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः । इन्दीवरदलश्यामो मधुमान्माधवेऽवति ॥ ३॥ गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् । उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः ॥ ४॥ आग्नेय्यामरविन्दाभो मुसली मधुसूदनः । त्रिविक्रमः खड्गपाणिः नैरृत्ये ज्वलनप्रभः ॥ ५॥ वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान् । ईशान्यां पुण्डरीकाभः श्रीधरः पट्टिशायुधः ॥ ६॥ विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी । पद्मनाभः शार्ङ्गपाणिः सहस्रार्कसमप्रभः ॥ ७॥ माणिक्यमण्टपस्थानमानुलोम्येन वेष्टते । सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतो मुखः ॥ ८॥ इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः । दामोदरस्तु सर्वात्मा परमानन्दनिर्भरः ॥ ९॥ माणिक्यमण्टपस्थानं विलोमेन विवेष्टते । इत्थं द्वादशभिर्दे हैः भगवानम्बुजेक्षणः । माणिक्यमण्टपगतो विष्णुलोके विराजते ॥ १०॥ एतेषां विभवमूर्तीनां केशवादीनां, समष्टिरूपस्य वासुदेवस्य च शक्तयः पत्न्यः कीर्तिः कान्तिः तुष्टिः पुष्टिः धृतिः क्षान्तिः, क्रिया, दया, मेधा हर्षा, श्रद्धा लज्जा लक्ष्मीरिति क्रमदीपिकायाम् । इति ब्रह्माण्डपुराणान्तर्गतं द्वादशमूर्तिस्तुतिः १ सम्पाप्ता ।