अक्षर आकार:

द्वादशस्तोत्राणि श्रीमध्वकृत

dvAdasha stotra (Shri Madhva)

द्वादशस्तोत्राणि श्रीमध्वकृत

॥ द्वादश स्तोत्राणि॥ अथ प्रथमस्तोत्रम् वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् । इन्दिरापतिमाद्यादि वरदेश वरप्रदम् ॥ १॥ नमामि निखिलाधीश किरीटाघृष्टपीठवत् । हृत्तमः शमनेऽर्काभं श्रीपतेः पादपङ्कजम् ॥ २॥ जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः । स्वर्णमञ्जीरसंवीतं आरूढं जगदम्बया ॥ ३॥ उदरं चिन्त्यं ईशस्य तनुत्वेऽपि अखिलम्भरं । वलित्रयाङ्कितं नित्यं आरूढं श्रियैकया ॥ ४॥ स्मरणीयमुरो विष्णोः इन्दिरावासमुत्तमैः । var इन्दिरावासमीशितुः इन्दिरावासमुत्तमम् अनन्तं अन्तवदिव भुजयोरन्तरङ्गतम् ॥ ५॥ शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः । पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥ ६॥ सन्ततं चिन्तयेत्कण्ठं भास्वत्कौस्तुभभासकम् । वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ॥ ७॥ स्मरेत यामिनीनाथ सहस्रामितकान्तिमत् । भवतापापनोदीड्यं श्रीपतेः मुखपङ्कजम् ॥ ८॥ पूर्णानन्यसुखोद्भासिं अन्दस्मितमधीशितुः । गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥ ९॥ स्मरामि भवसन्ताप हानिदामृतसागरम् । पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥ १०॥ ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् । भ्रूभङ्गं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥ ११॥ सन्ततं चिन्तयेऽनन्तं अन्तकाले var अन्त्यकाले विशेषतः । नैवोदापुः गृणन्तोऽन्तं यद्गुणानां अजादयः ॥ १२॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु प्रथमस्तोत्रं सम्पूर्णम्
अथ द्वितीयस्तोत्रम् स्वजनोदधिसंवृद्धि पूर्णचन्द्रो गुणार्णवः ।var सुजनोदधिसंवृद्धि अमन्दानन्द सान्द्रो नः सदाव्यादिन्दिरापतिः ॥ १॥ var प्रीयातामिन्दिरापतिः रमाचकोरीविधवे दुष्टदर्पोदवह्नये (दुष्टसर्पोदवह्नये) । सत्पान्थजनगेहाय नमो नारायणाय ते ॥ २॥ चिदचिद्भेदं अखिलं विधायाधाय भुञ्जते । अव्याकृतगुहस्थाय रमाप्रणयिने नमः ॥ ३॥ अमन्दगुणसारोऽपि मन्दहासेन वीक्षितः । नित्यमिन्दिरयाऽनन्दसान्द्रो यो नौमि तं हरिम् ॥ ४॥ वशी वशो (वशे) न कस्यापि योऽजितो विजिताखिलः । सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥ ५॥ अगुणायगुणोद्रेक स्वरूपायादिकारिणे । विदारितारिसङ्घाय वासुदेवाय ते नमः ॥ ६॥ आदिदेवाय देवानां पतये सादितारये । अनाद्यज्ञानपाराय नमः पारावराश्रय ॥ ७॥ var नमो वरवराय ते अजाय जनयित्रेऽस्य विजिताखिलदानव । अजादि पूज्यपादाय नमस्ते गरुडध्वज ॥ ८॥ इन्दिरामन्दसान्द्राग्र्य कटाक्षप्रेक्षितात्मने । अस्मदिष्टैक कार्याय पूर्णाय हरये नमः ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु द्वितीयस्तोत्रं सम्पूर्णम्
अथ तृतीयस्तोत्रम् कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततं । हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥ १॥ न ततोऽस्त्यपरं जगदीड्यतमं (जगतीड्यतमं) परमात्परतः पुरुषोत्तमतः । तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥ २॥ यततोऽपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति । स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥ ३॥ श‍ृणुतामलसत्यवचः परमं शपथेरितं उच्छ्रितबाहुयुगं । न हरेः परमो न हरेः सदृशः परमः स तु सर्व चिदात्मगणात् ॥ ४॥ यदि नाम परो न भवेत (भवेत्स) हरिः कथमस्य वशे जगदेतदभूत् । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥ ५॥ न च कर्मविमामल कालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥ ६॥ व्यवहारभिदाऽपि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् । बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत्स्वयमेव हरिः ॥ ७॥ चतुरानन पूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा । नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥ ८॥ आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा । कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु तृतीयस्तोत्रं सम्पूर्णम्
अथ चतुर्थस्तोत्रम् निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः । अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ १॥ यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः । स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ २॥ var सुमतिप्रभवम् बहुचित्रजगत् बहुधाकरणात्परशक्तिरनन्तगुणः परमः । सुखरूपममुष्यपदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ ३॥ स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् । विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥ ४॥ विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् । बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥ ५॥ न हि विश्वसृजो विभुशम्भुपुरन्दर सूर्यमुखानपरानपरान् । सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणतां स्वधिया ॥ ६॥ परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च । क्वचिदद्यतनोऽपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥ ७॥ इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः । सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ ८॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु चतुर्थस्तोत्रं सम्पूर्णम्
अथ पञ्चमस्तोत्रम् वासुदेवापरिमेयसुधामन् शुद्धसदोदित सुन्दरीकान्त । धराधरधारण वेधुरधर्तः सौधृतिदीधितिवेधृविधातः ॥ १॥ अधिकबन्धं रन्धय बोधा च्छिन्धिपिधानं बन्धुरमद्धा । केशव केशव शासक वन्दे पाशधरार्चित शूरपरेश (शूरवरेश) ॥ २॥ नारायणामलतारण (कारण) वन्दे कारणकारण पूर्ण वरेण्य । माधव माधव साधक वन्दे बाधक बोधक शुद्ध समाधे ॥ ३॥ गोविन्द गोविन्द पुरन्दर वन्दे स्कन्द सनन्दन वन्दित पाद । विष्णु सृजिष्णु ग्रसिष्णु विवन्दे कृष्ण सदुष्ण वधिष्ण सुधृष्णो ॥ ४॥ var विष्णो सृजिष्णो ग्रसिष्णो विवन्दे कृष्ण सदुष्णवधिष्णो सुधृष्णो मधुसूदन दानवसादन वन्दे दैवतमोदन (दैवतमोदित) वेदित पाद । त्रिविक्रम निष्क्रम विक्रम वन्दे सुक्रम सङ्क्रमहुङ्कृतवक्त्र ॥ ५॥ var सङ्क्रम सुक्रम हुङ्कृतवक्त्र वामन वामन भामन वन्दे सामन सीमन सामन सानो । श्रीधर श्रीधर शंधर वन्दे भूधर वार्धर कन्धरधारिन् ॥ ६॥ हृषीकेश सुकेश परेश विवन्दे शरणेश कलेश बलेश सुखेश । पद्मनाभ शुभोद्भव वन्दे सम्भृतलोकभराभर भूरे । दामोदर दूरतरान्तर वन्दे दारितपारक पार (दारितपारगपार) परस्मात् ॥ ७॥ आनन्दसुतीर्थ मुनीन्द्रकृता हरिगीतिरियं परमादरतः । परलोकविलोकन सूर्यनिभा हरिभक्ति विवर्धन शौण्डतमा ॥ ८॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु पञ्चमस्तोत्रं सम्पूर्णम्
अथ षष्ठस्तोत्रम् मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य । कूर्मस्वरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥ १॥ सूकररूपक दानवशत्रो भूमिविधारक यज्ञावराङ्ग । देव नृसिंह हिरण्यकशत्रो सर्व भयान्तक दैवतबन्धो ॥ २॥ वामन वामन माणववेष दैत्यवरान्तक कारणरूप । राम भृगूद्वह सूर्जितदीप्ते क्षत्रकुलान्तक शम्भुवरेण्य ॥ ३॥ राघव राघव राक्षस शत्रो मारुतिवल्लभ जानकिकान्त । देवकिनन्दन नन्दकुमार वृन्दावनाञ्चन गोकुलचन्द्र ॥ ४॥ कन्दफलाशन सुन्दररूप नन्दितगोकुलवन्दितपाद । इन्द्रसुतावक नन्दकहस्त चन्दनचर्चित सुन्दरिनाथ ॥ ५॥ इन्दीवरोदर दळनयन मन्दरधारिन् गोविन्द वन्दे । चन्द्रशतानन कुन्दसुहास नन्दितदैवतानन्दसुपूर्ण ॥ ६॥ देवकिनन्दन सुन्दररूप रुक्मिणिवल्लभ पाण्डवबन्धो । दैत्यविमोहक नित्यसुखादे देवविबोधक बुद्धस्वरूप ॥ ७॥ दुष्टकुलान्तक कल्किस्वरूप धर्मविवर्धन मूलयुगादे । नारायणामलकारणमूर्ते पूर्णगुणार्णव नित्यसुबोध ॥ ८॥ आनन्दतीर्थकृता हरिगाथा पापहरा शुभनित्यसुखार्था ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु षष्ठस्तोत्रं सम्पूर्णम्
अथ सप्तमस्तोत्रम् विश्वस्थितिप्रळयसर्गमहाविभूति वृत्तिप्रकाशनियमावृति बन्धमोक्षाः । यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ १॥ ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्व गीर्वाणसन्ततिरियं यदपाङ्गलेशम् । आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ २॥ धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् । आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ३॥ षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् । आश्रित्य यानपि समेत्य न याति दुःखं श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ४॥ शेषाहिवैरिशिवशक्रमनुप्रधान चित्रोरुकर्मरचनं यदपाङ्गलेशम् । आश्रित्य विश्वमखिलं विदधाति धाता श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ५॥ शक्रोग्रदीधितिहिमाकरसूर्यसूनु पूर्वं निहत्य निखिलं यदपाङ्गलेशम् । आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ ६॥ तत्पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् । आश्रित्य नागपतिः अन्यसुरैर्दुरापां श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ७॥ नागारिरुग्रबलपौरुष आप विष्णुवाहत्वमुत्तमजवो यदपाङ्गलेशम् । var विष्णोर्वाह आश्रित्य शक्रमुखदेवगणैः अचिन्त्यं श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ ८॥ आनन्दतीर्थमुनिसन्मुखपंकजोत्थं साक्षाद्रमाहरिमनः प्रियं उत्तमार्थम् । भक्त्या पठति अजितमात्मनि सन्निधाय यः स्तोत्रमेतभियाति तयोरभीष्टम् ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु सप्तमस्तोत्रं सम्पूर्णम्
अथ अष्टमस्तोत्रम् वन्दिताशेषवन्द्योरुवृन्दारकं चन्दनाचर्चितोदारपीनांसकम् । इन्दिराचञ्चलापाङ्गनीराजितं मन्दरोद्धारिवृत्तोद्भुजाभोगिनम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ १॥ सृष्टिसंहारलीलाविलासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् । दुष्टनिःशेषसंहारकर्मोद्यतं हृष्टपुष्टातिशिष्ट (अनुशिष्ट) प्रजासंश्रयम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ २॥ उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानन्ददश्रीपदम् । भिन्नकर्माशयप्राणिसम्प्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ३॥ विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितीशेश्वरैश्चार्च्चितम् । अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानन्दरूपं परम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ४॥ अत्ययो यस्य (येन) केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः । सत्यसङ्कल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ५॥ पश्यतां दुःखसन्ताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् । नश्यतां दूरगं सर्वदाप्याऽत्मगं वश्यतां स्वेच्छया सज्जनेष्वागतम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ६॥ अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि । उग्र आद्योऽपि यस्यात्मजाग्र्यात्मजः सद्गृहीतः सदा यः परं दैवतम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ७॥ अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तितः । उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेन्द्रपूर्वैः सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ८॥ धार्यते येन विश्वं सदाजादिकं वार्यतेऽशेषदुःखं निजध्यायिनाम् । पार्यते सर्वमन्यैर्नयत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ९॥ सर्वपापानियत्संस्मृतेः सङ्क्षयं सर्वदा यान्ति भक्त्या विशुद्धात्मनाम् । शर्वगुर्वादिगीर्वाण संस्थानदः कुर्वते कर्म यत्प्रीतये सज्जनाः । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ १०॥ अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यान्ति दुःखानि यन्नामतः । अक्षरो योऽजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाऽजादिकम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ११॥ नन्दितीर्थोरुसन्नामिनो नन्दिनः सन्दधानाः सदानन्ददेवे मतिम् । मन्दहासारुणा पाङ्गदत्तोन्नतिं वन्दिताशेषदेवादिवृन्दं सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ १२॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु अष्टमस्तोत्रं सम्पूर्णम्
अथ नवमस्तोत्रम् अतिमततमोगिरिसमितिविभेदन पितामहभूतिद गुणगणनिलय । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १॥ विधिभवमुखसुरसततसुवन्दितरमामनोवल्लभ भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ २॥ अगणितगुणगणमयशरीर हे विगतगुणेतर भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ३॥ अपरिमितसुखनिधिविमलसुदेह हे विगत सुखेतर भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ४॥ प्रचलितलयजलविहरण शाश्वतसुखमयमीन हे भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ५॥ सुरदितिजसुबलविलुळितमन्दरधर पर कूर्म हे भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ६॥ सगिरिवरधरातळवह सुसूकरपरमविबोध हे भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ७॥ अतिबलदितिसुत हृदय विभेदन जयनृहरेऽमल भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ८॥ बलिमुखदितिसुतविजयविनाशन जगदवनाजित भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ९॥ अविजितकुनृपतिसमितिविखण्डन रमावर वीरप भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १०॥ खरतरनिशिचरदहन परामृत रघुवर मानद भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ११॥ सुललिततनुवर वरद महाबल यदुवर पार्थप भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १२॥ दितिसुतविमोहन विमलविबोधन परगुणबुद्ध हे भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १३॥ कलिमलहुतवह सुभग महोत्सव शरणद कल्कीश भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १४॥ अखिलजनिविलय परसुखकारण परपुरुषोत्तम भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १५॥ इति तव नुतिवरसततरतेर्भव सुशरणमुरुसुखतीर्थमुनेः भगवन् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १६॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु नवमस्तोत्रं सम्पूर्णम्
अथ दशमस्तोत्रम् अव नः श्रीपतिरप्रतिरधिकेशादिभवादे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १॥ सुरवन्द्याधिप सद्वरभरिताशेषगुणालम् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ २॥ सकलध्वान्तविनाशन (विनाशक) परमानन्दसुधाहो । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ३॥ त्रिजगत्पोत सदार्चितचरणाशापतिधातो । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ४॥ त्रिगुणातीतविधारक परितो देहि सुभक्तिम् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ५॥ शरणं कारणभावन भव मे तात सदाऽलम् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ६॥ मरणप्राणद पालक जगदीशाव सुभक्तिम् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ७॥ तरुणादित्यसवर्णकचरणाब्जामल कीर्ते । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ८॥ सलिलप्रोत्थसरागकमणिवर्णोच्चनखादे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ९॥ कज (खज) तूणीनिभपावनवरजङ्घामितशक्ते । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १०॥ इबहस्तप्रभशोभनपरमोरुस्थरमाळे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ११॥ असनोत्फुल्लसुपुष्पकसमवर्णावरणान्ते । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १२॥ शतमोदोद्भवसुन्दरिवरपद्मोत्थितनाभे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १३॥ जगदागूहकपल्लवसमकुक्षे शरणादे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १४॥ जगदम्बामलसुन्दरिगृहवक्षोवर योगिन् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १५॥ दितिजान्तप्रद चक्रधरगदायुग्वरबाहो । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १६॥ परमज्ञानमहानिधिवदन श्रीरमणेन्दो । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १७॥ निखिलाघौघविनाशन (विनाशक) परसौख्यप्रददृष्टे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १८॥ परमानन्दसुतीर्थसुमुनिराजो हरिगाथाम् । कृतवान्नित्यसुपूर्णकपरमानन्दपदैषिन् ॥ १९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु दशमस्तोत्रं सम्पूर्णम्
अथ एकादशस्तोत्रम् उदीर्णमजरं दिव्यं अमृतस्यन्द्यधीशितुः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ १॥ सर्ववेदपदोद्गीतं इन्दिरावासमुत्तमम् (इन्दिराधारमुत्तमम्) । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ २॥ सर्वदेवादिदेवस्य विदारितमहत्तमः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ३॥ उदारमादरान्नित्यं अनिन्द्यं सुन्दरीपतेः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ४॥ इन्दीवरोदरनिभं सुपूर्णं वादिमोहनम् (वादिमोहदम्) । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ५॥ दातृसर्वामरैश्वर्यविमुक्त्यादेरहो परम् (वरम्) । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ६॥ दूराद्दुरतरं यत्तु तदेवान्तिकमन्तिकात् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ७॥ पूर्णसर्वगुणैकार्णमनाद्यन्तं सुरेशितुः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ८॥ आनन्दतीर्थमुनिना हरेरानन्दरूपिणः । कृतं स्तोत्रमिदं पुण्यं पठन्नानन्दमाप्नुयात् ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु एकादशस्तोत्रं सम्पूर्णम्
अथ द्वादशस्तोत्रम् आनन्दमुकुन्द अरविन्दनयन । आनन्दतीर्थ परानन्दवरद ॥ १॥ सुन्दरीमन्दिरगोविन्द वन्दे । आनन्दतीर्थ परानन्दवरद ॥ २॥ चन्द्रकमन्दिरनन्दक वन्दे । आनन्दतीर्थ परानन्दवरद ॥ ३॥ चन्द्रसुरेन्द्रसुवन्दित वन्दे । आनन्दतीर्थ परानन्दवरद ॥ ४॥ मन्दारसूनसुचर्चित वन्दे । आनन्दतीर्थ परानन्दवरद ॥ ५॥ वृन्दारवृन्दसुवन्दित वन्दे (वृन्दारकवृन्दसुवन्दित वन्दे) । आनन्दतीर्थ परानन्दवरद ॥ ६॥ इन्दिराऽनन्दक सुन्दर वन्दे । आनन्दतीर्थ परानन्दवरद ॥ ७॥ मन्दिरस्यन्दनस्यन्दक वन्दे । आनन्दतीर्थ परानन्दवरद ॥ ८॥ आनन्दचन्द्रिकास्यन्दक वन्दे । आनन्दतीर्थ परानन्दवरद ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु द्वादशं स्तोत्रं सम्पूर्णम् ॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु॥