अक्षर आकार:

धर्मपुरीनरहरीस्तुतिः

Dharmapuri Narahari Stuti

धर्मपुरीनरहरीस्तुतिः

ॐ गँ गणपतये नमः । नरहरिं भजे धर्मपूर्विभुम् भरणभूषितं भूषित प्रभम् । जलधिपुत्रिका सेविताङ्घ्रिकं हरिनराकृतिं सैंहिकाननं ॥ १॥ नरहरिं भजे धर्मपूर्विभुम् । हरिवराननं घातुकान्तकं श्रितजयप्रदं चक्रधारिणम् । भुजगशायिनं भूरिदायिनं नरहरिं भजे धर्मपूर्विभुम् ॥ २॥ ऋषिवराश्रितं ऋग्भिरर्चितं विदितवेद्यकं वेदगम्यकम् । श्रितवरार्थिने कल्पवृक्षकं नरहरिं भजे धर्मपूर्विभुम् ॥ ३॥ द्विजबुधैः सदा पूजितं स्तवैः दितिजबालकप्राणरक्षणे । दितिजमन्दिरे स्तम्भसम्भवं नरहरिं भजे धर्मपूर्विभुम् ॥ ४॥ सुजनभक्तकान् सक्तरक्षकं कुजनशिक्षणे सक्तचित्तकम् । मकरमौखिकात् नागरक्षकं नरहरिं भजे धर्मपूर्विभुम् ॥ ५॥ सुरपतेः सुखात् सञ्चयाघगां मुनिसतीं वरां पादुकोद्धृतम् । निरतभाविनां पापनाशकं नरहरिं भजे धर्मपूर्विभुम् ॥ ६॥ विहितपापधिं कालकालगं हरिरितीरितं निर्मलङ्करम् । यदियमुच्यतेऽजामिलादिना नरहरिं भजे धर्मपूर्विभुम् ॥ ७॥ निगमरक्षणे मत्स्यकायिनं अमृतसाधने कूर्मवेषिनम् । अवनिपालने श्रीवराहकं नरहरिं भजे धर्मपूर्विभुम् ॥ ८॥ दनुजमारणे सैंहिकाननं बलिविमर्दने वामनाकृतिम् । कुपतिभञ्जने भार्गवद्विजं नरहरिं भजे धर्मपूर्विभुम् ॥ ९॥ रघुकुलोद्भवं रावणान्तकं द्रुपदात्मजावने कृष्णरूपिणम् । शमनसाधने बुद्धरूपिणं नरहरिं भजे धर्मपूर्विभुम् ॥ १०॥ कलिविमर्दने कल्किदेहिनं अभयरूपिणं आश्रिताश्रयम् । नतमुखोऽस्म्यहं नैकधाकृतिं नरहरिं भजे धर्मपूर्विभुम् ॥ ११॥ इति कोरिडे विश्वनाथशर्मणाविरचिता धर्मपुरीनरहरीस्तुतिः समाप्ता ।