अक्षर आकार:

श्री धर्मपुरी लक्ष्मी नरसिंहगीतिकाः

Shri Dharmapuri Lakshminarasimha gitika

श्री धर्मपुरी लक्ष्मी नरसिंहगीतिकाः

ॐ गँ गणपतये नमः ॥ हरिनराकृतिं सैंहिकाननं जलधिपुत्रिका सेविताङ्घ्रिकम् । भरणभूषितं भूषित प्रभम् नरहरिं भजे धर्मपूर्विभुम् ॥ १॥ हरिवराननं घातुकान्तकं श्रितजयप्रदं चक्रधारिणम् । भुजगशायिनं भूरिदायिनं नरहरिं भजे धर्मपूर्विभुम् ॥ २॥ ऋषिवराश्रितं ऋग्भिरर्चितं विदितवेद्यकं वेदगम्यकम् । श्रितवरार्थिने कल्पवृक्षकं नरहरिं भजे धर्मपूर्विभुम् ॥ ३॥ दितिजबालकप्राणरक्षणे दितिजमन्दिरे स्तम्भसम्भवम् । द्विजबुधैः सदा पूजितं स्तवैः नरहरिं भजे धर्मपूर्विभुम् ॥ ४॥ सुजनभक्तकान् सक्तरक्षकं कुजनशिक्षणे सक्तचित्तकम् । मकरमौखिकात् नागरक्षकं नरहरिं भजे धर्मपूर्विभुम् ॥ ५॥ सुरपतेः सुखात्सञ्चयाघगां मुनिसतीं वरां पादुकोद्धृतम् । निरतभाविनां पापनाशकं नरहरिं भजे धर्मपूर्विभुम् ॥ ६॥ विहितपापधिं कालकालगं हरिरितीरितं निर्मलङ्करम् । यदियमुच्यतेऽजामिळादिना नरहरिं भजे धर्मपूर्विभुम् ॥ ७॥ निगमरक्षणे मत्स्यकायिनं अमृतसाधने कूर्मवेषिनम् । अवनिपालने श्रीवराहकं नरहरिं भजे धर्मपूर्विभुम् ॥ ८॥ दनुजमारणे सैंहिकाननं बलिविमर्दने वामनाकृतिम् । कुपतिभञ्जने भार्गवद्विजं नरहरिं भजे धर्मपूर्विभुम् ॥ ९॥ रघुकुलोद्भवं रावणान्तकं द्रुपदजावने कृष्णरूपिणम् । शमनसाधने बुद्धरूपिणं नरहरिं भजेधर्मपूर्विभुम् ॥ १०॥ कलिविमर्दने कल्किदेहिनं अभयरूपिणं आश्रिताश्रयम् । नतमुखोऽस्म्यहं नैकधाकृतिं नरहरिं भजेधर्मपूर्विभुम् ॥ ११॥