अक्षर आकार:

श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

shrIdhanvantaryaShTottarashatanAmAvaliH

श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

ॐ धन्वन्तरये नमः । सुधापूर्णकलशाढ्यकराय । हरये । जरामृतित्रस्तदेवप्रार्थनासाधकाय । प्रभवे । निर्विकल्पाय । निस्समानाय । मन्दस्मितमुखाम्बुजाय । आञ्जनेयप्रापिताद्रये । पार्श्वस्थविनतासुताय । निमग्नमन्दरधराय । कूर्मरूपिणे । बृहत्तनवे । नीलकुञ्चितकेशान्ताय । परमाद्भुतरूपधृते । कटाक्षवीक्षणाश्वस्तवासुकये । सिंहविक्रमाय । स्मर्तृहृद्रोगहरणाय । महाविष्ण्वंशसम्भवाय । प्रेक्षणीयोत्पलश्यामाय नमः ॥ २० आयुर्वेदाधिदैवताय नमः । भेषजग्रहणानेहस्स्मरणीयपदाम्बुजाय । नवयौवनसम्पन्नाय । किरीटान्वितमस्तकाय । नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलये । दीर्घपीवरदोर्दण्डाय । कम्बुग्रीवाय । अम्बुजेक्षणाय । चतुर्भुजाय । शङ्खधराय । चक्रहस्ताय । वरप्रदाय । सुधापात्रे परिलसदाम्रपत्रलसत्कराय । शतपद्याढ्यहस्ताय । कस्तूरीतिलकाञ्चिताय । सुकपोलाय । सुनासाय । सुन्दरभ्रूलताञ्चिताय । स्वङ्गुलीतलशोभाढ्याय । गूढजत्रवे नमः ॥ ४० महाहनवे नमः । दिव्याङ्गदलसद्बाहवे । केयूरपरिशोभिताय । विचित्ररत्नखचितवलयद्वयशोभिताय । समोल्लसत्सुजातांसाय । अङ्गुलीयविभूषिताय । सुधागन्धरसास्वादमिलद्भृङ्गमनोहराय । लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलाय । लक्ष्मीशोभितवक्षस्काय । वनमालाविराजिताय । नवरत्नमणीक्लृप्तहारशोभितकन्धराय । हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखाय । विरजोऽम्बरसंवीताय । विशालोरसे । पृथुश्रवसे । निम्ननाभये । सूक्ष्ममध्याय । स्थूलजङ्घाय । निरञ्जनाय । सुलक्षणपदाङ्गुष्ठाय नमः ॥ ६० सर्वसामुद्रिकान्विताय नमः । अलक्तकारक्तपादाय । मूर्तिमद्वार्धिपूजिताय । सुधार्थान्योन्यसंयुध्यद्देवदैतेयसान्त्वनाय । कोटिमन्मथसङ्काशाय । सर्वावयवसुन्दराय । अमृतास्वादनोद्युक्तदेवसङ्घापरिष्टुताय । पुष्पवर्षणसंयुक्तगन्धर्वकुलसेविताय । शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृताय । विष्वक्सेनादियुक्पार्श्वाय । सनकादिमुनिस्तुताय । साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षिताय । साशङ्कसम्भ्रमदितिदनुवंश्यसमीडिताय । नमनोन्मुखदेवादिमौलिरत्नलसत्पदाय । दिव्यतेजःपुञ्जरूपाय । सर्वदेवहितोत्सुकाय । स्वनिर्गमक्षुब्धदुग्धवाराशये । दुन्दुभिस्वनाय । गन्धर्वगीतापदानश्रवणोत्कमहामनसे । निष्किञ्चनजनप्रीताय नमः ॥ ८० भवसम्प्राप्तरोगहृते नमः । अन्तर्हितसुधापात्राय । महात्मने । मायिकाग्रण्यै । क्षणार्धमोहिनीरूपाय । सर्वस्त्रीशुभलक्षणाय । मदमत्तेभगमनाय । सर्वलोकविमोहनाय । स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलये । रत्नदर्वीलसद्धस्ताय । देवदैत्यविभागकृते । सङ्ख्यातदेवतान्यासाय । दैत्यदानववञ्चकाय । देवामृतप्रदात्रे । परिवेषणहृष्टधिये । उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकाय । पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहराय । राहुकेतुग्रहस्थानपश्चाद्गतिविधायकाय । अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनाय । गरुत्मद्वाहनारूढाय नमः ॥ १०० सर्वेशस्तोत्रसंयुताय नमः । स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजिताय । मोहिनीदर्शनायातस्थाणुचित्तविमोहकाय । शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुताय । वेदान्तवेद्यमहिम्ने । सर्वलोकैकरक्षकाय । राजराजप्रपूज्याङ्घ्रये । चिन्तितार्थप्रदायकाय ॥ १०८ इति श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः समाप्ता ।