अक्षर आकार:

अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् १

Amritasanjivani Dhanvantari Stotra 1

अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् १

नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय । नमो नमो विश्वसृजेश्वराय नमो नमो नमो मुक्तिवरप्रदाय ॥ १॥ नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय । नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय ॥ २॥ नमो नमस्ते सकलार्त्रिहर्त्रे नमो नमस्ते विरुजः प्रकर्त्रे । नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे ॥ ३॥ सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते । विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ४॥ यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् । आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ५॥ स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसंमोहनं कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् । चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ६॥ चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ७॥ पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ८॥ धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ९॥ भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १०॥ याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ११ ॥ क्षत्रियारण्यसञ्छेदकुठारकररैणुक । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १२॥ रक्षोराजप्रतापाब्धिशोषणाशुग राघव । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १३॥ भूभरासुरसन्दोहकालाग्ने रुक्मिणीपते । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १४॥ वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १५॥ कलिवर्णाश्रमास्पष्टधर्मर्द्द्यै कल्किरूपभाक् । सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १६॥ असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः । छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ १७ ॥ अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् । भिन्धि भिन्धि गदाघातैः चिरं जीवय जीवय ॥ १८ ॥ अहं न जाने किमपि त्वदन्यत् समाश्रये नाथ पदाम्बुजं ते । कुरुष्व तद्यन्मनसीप्सितं ते सुकर्मणा केन समक्षमीयाम् ॥ १९ ॥ त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धुः । विद्याहिनागारकुलं त्वमेव त्वमेव सर्वं मम देवदेव ॥ २०॥ न मेऽपराधं प्रविलोकय प्रभोऽ- पराधसिन्धोश्च दयानिधिस्त्वम् । तातेन दुष्टोऽपि सुतः सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान् ॥ २१॥ अहह विस्मर नाथ न मां सदा करुणया निजया परिपूरितः । भुवि भवान् यदि मे न हि रक्षकः कथमहो मम जीवनमत्र वै ॥ २२॥ दह दह कृपया त्वं व्याधिजालं विशालं हर हर करवालं चाल्पमृत्योः करालम् । निजजनपरिपालं त्वां भजे भावयालं कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ २३॥ क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकलदुरितानि नाशय नाशय । क्ष्रौं आरोग्यं कुरु कुरु । ह्रीं दीर्घमायुर्देहि स्वाहा ॥ २४॥ ॥ फलश्रुतिः॥ अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति । गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ २५॥ सर्वे रोगाः प्रशाम्यन्ति सर्वा बाधा प्रशाम्यति । कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ २६॥ ॥ इति सुदर्शनसंहितोक्तं अमृतसञ्जीवन धन्वन्तरि स्तोत्रम् ॥