अक्षर आकार:

श्रीधन्वन्तरि ध्यानम्

shrIdhanvantari dhyAnam

श्रीधन्वन्तरि ध्यानम्

शङ्खं चक्रमुपर्यधश्च करयोर्दिव्यौषधं दक्षिणे वामेनान्यकरेण सम्भृतसुधाकुम्भं जलौकावलिम् । बिभ्राणः करुणाकरः शुभकरः सर्वामयध्वंसकः क्षिप्रं नो दुरितं छिनत्तु भगवान्धन्वन्तरिः पातु नः ॥ श्रीमान् कलयतु शश्वत्क्षेमं धन्वन्तरिः सतां देवः । कामं सुरवरतत्यै कामितदानाय दुग्धवार्धिभवः ॥ १॥ करधृतदिव्यसुधावरकलशः परिपूर्णषड्गुणः श्रीशः । परिहृतभक्तक्लेशः सुरुचिरतरकान्तवरवेषः ॥ २॥ हृतवति करधृतकलशे दितिसुतमुख्यैः प्रतिक्रियां तेषाम् । व्यतनुत निर्जरतत्यै योषिद्रूपो विभज्य पीयूषम् ॥ ३॥ विश्रुतविलसत्कीर्तिः भक्तानन्दप्रदानवरमूर्तिः । निस्तुलकरुणाशक्तिः भात्येष श्रीहरिः स्वयं जगति ॥ ४॥ आनतसज्जनपाता मौनिप्रवरार्तिजातसंहर्ता । ज्ञानिप्रवरनिरन्तरगानार्हात्मीयनित्यसद्वृत्तः ॥ ५॥ आयुर्वेदाब्धिसारं निखिलमुनिजनस्तोमभूत्यै विवृण्वन् भूयः पद्मासनाद्यैरुरुतरवचसा संस्तुतस्सोऽवतान्नः । प्रेयान्क्षीराब्धिजायाः सुतरुमणिसुधेन्द्वात्मनैकोऽखिलेभ्यः भक्तेभ्यो दातुमीष्टे भुवि शमिह गदापायदः संस्मृतो यः ॥ ६॥ क्षीराब्धेर्मथ्यमानादमृतमभिलषद्बुद्धिभिर्वै बुधौघैः उत्तीर्णः पीतवासा घनरुचिररुचिर्विश्वसन्त्राणहेतोः । दोर्भिर्बिभ्रच्चतुर्भिर्जलभवमभयं चामृतं शस्त्रयन्त्रं योऽसौ धन्वन्तरिर्नः सकलगदभयादादिदेवः सदाऽव्यात् ॥ ७॥ तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश ॥ ८॥ पृष्ठे कूर्मतया चतुर्भुजतया दोर्मण्डले मन्दरं रुध्वा क्षीरसमुद्रमोषधिभृतं निर्मथ्य निष्पादितैः । आनीतैरमृतैर्भिषक्तमतया योषित्तया पायितैः देवानामजरामरत्वमकरोत्तस्मै नमो विष्णवे ॥ ९॥ क्षीराब्धेरुदगाः - धृतवानमृतघटं आयुष्यं जगते वितरीतुं श्रीसहज धन्वन्तरिरूप - जय जगदीश हरे ॥ १०॥ इति श्रीधन्वन्तरिध्यानं सम्पूर्णम् ।