अक्षर आकार:

धन्वन्तरी सुप्रभातम्

dhanvantarI suprabhAtam

धन्वन्तरी सुप्रभातम्

श्री गणेशाय नमः ॥ अस्मत्स्तवम् जलधिमन्थनघोषतुल्य - माकर्ण्य भग्न निजयोगसमाधिनिद्रः । उन्मील्य नेत्रयुगलीमवलोकयास्मान्, धन्वन्तरे, भवतु भो तव सुप्रभातम् ॥ १॥ क्षीरार्णवे भुजगवर्ष्मणि योगनिद्रा - लीनस्य निस्तुलनिजात्मसुखोत्सुकस्य । कारुण्यतोऽद्य शयनात् स्वयमुत्थितस्य, धन्वन्तरे, मधुरिपो तव सुप्रभातम् ॥ २॥ उद्बिभ्रतो नवसुधाकलशं जलूकां, शंखं रथाङ्गमपि पाणितलैश्चतुर्भिः । चिह्नानि कौस्तुभमुखानि च तत्तद्ङ्गैर् धन्वन्तरे, मुररिपो तव सुप्रभातम् ॥ ३॥ आनीलगात्र, कपिशाम्बर, वन्यमालिन्, काञ्चीकिरीटकटकादि विभूषिताङ्ग । धन्वन्तरे धृतसुधाघट दीनबन्धो, भो भोतु ते भवचिकित्सक सुप्रभातम् ॥ ४॥ आपीनदीर्घभुजदण्ड मृगादिपांस, कारूण्यशीतलविलोचन कम्बुकण्ठ । हासोल्लसन्मुख विशाल भुजान्तराल, धन्वन्तरेऽस्तु भगवंस्तव सुप्रभातम् ॥ ५॥ विष्णो, जनार्दन, मुरान्तक, वासुदेव, वैकुण्ठ, केशव, हरे, जगदीश, शौरे । गोविन्द, नन्दसुत, कंसरिपो, मुकुन्द, धन्वन्तरे भवतु भो तव सुप्रभातम् ॥ ६॥ पञ्चास्त्रकोटिकमनीय कलेवराय, पञ्चास्यसन्निभविलोकन विक्रमाय । रागादिरोगकुलनाशकृतेऽस्तु तुभ्यम्, धन्वन्तरे प्रणतवत्सल सुप्रभातम् ॥ ७॥ नाम्नैव यो झटितिकृन्तति दोषकोपम्, स्मृत्यैव यस्सपदि हन्ति गुणत्रयं च । बाह्यन्तरद्विविध रोगहरस्य तस्य, धन्वन्तरे, भवतु भो तव सुप्रभातम् ॥ ८॥ द्रव्यामृतस्य कलशार्णव निर्गतस्य, ज्ञानामृतस्य निगमाब्धि समुत्थितस्य । रोगद्वय प्रशमनाय नृणां प्रदातुर्, धन्वन्तरे, भवतु भो तव सुप्रभातम् ॥ ९॥ अमृतघटजवूकं चक्रशंखांश्चतुर्भिः, मसृणकरसरोजैर्बिभ्रते, विश्वगोप्त्रे । उभयनरकहंत्रे, नाथ, धन्वन्तरे, ते, भवतु शुभवराणां दाशुषे सुप्रभातम् ॥ १०॥ मेघश्यामललोभनीयवपुषे विध्युत् स्फुरद्वाससे, श्रीमद्दीर्घ चतुर्भुजैः नवसुधाकुम्भम् जलूकामरिम् । शंखंचोद्वहते, कृपाप्लुतदृशे मन्दस्मितश्रीमुचे, भूयात् सन्तत सुप्रभातमयि भो धन्वन्तरे ते हरे ॥ ११॥ आयुर्वेदविधायिन स्तनुभृतामन्तर्बहिर्वासिनः, श्रीनामौषधदायिनो, भवमहारोगस्य संहारिणः । निर्वाणामृतवर्षिणो निजयशस्सिन्धौ जगत् प्लावितो, भो भूयात्तव सुप्रभात मयि भो धन्वन्तरे श्रीहरे ॥ १२॥ सर्वेषां सुखहेतवे, भव महापाथोनिधेस्सेतवे, मुक्तिश्रीजयकेतवे, मृतिभयत्रस्तस्य जीवातवे । सक्तानां सुरधेनवे, विधिविमृग्यांघ्रिद्वयीरेणवे, भूयादुज्ज्वल सुप्रभातमयि ते गोविन्द धन्वन्तरे ॥ १३॥ श्रीधन्वन्तरिमूर्तये सुरवरैरुद्गीतसत्कीर्तये, विध्वस्तप्रणतार्त्तये त्रिभुवनी सौभाग्यसम्पूर्तये । कारुण्यामृतसिन्धवे भवरुजाशान्त्यर्थिना बन्धवे, तुभ्यम् भास्वर सुप्रभातमयि भो, भूयोऽपि भो भूयताम् ॥ १४॥ भक्तैर्निर्मथ्य मानान्नवविधभगवद्धर्मदुग्धाम्बुराशेः, प्रादुर्भूताय भक्त्यात्मकवयुनसुधाकुम्भ हस्ताम्बुजाय, संसारव्याधिहंत्रे, निरुपम परमानन्द सन्दोहदात्रे, भो भूयात् सुप्रभातं मुरमथन, हरे कृष्ण धन्वन्तरे ते ॥ १५॥