अक्षर आकार:

धन्वन्तरिस्तोत्रम्

Dhanvantaristotra

धन्वन्तरिस्तोत्रम्

ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय, सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम् । ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥ मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तानुसंस्थात् । हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुः दुरितं निहन्यात् ॥ अज्ञान-दुःख-भय-रोग-महाविषाणि योगोऽयमाशु विनिहन्ति सुखं च दद्यात् । उन्माद-विभ्रमहरः हरतश्च सान्द्र- मानन्दमेव पदमापयति स्म नित्यम् ॥ ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं एवं स यस्य शिरसि स्वकरं निधाय । आवर्तयेन्मनुमिमं स च वीतरोगः पापादपैति मनसा यदि भक्तिनम्रः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ दीर्घ-पीवर-दोर्दण्डः, कम्बुग्रीवोऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ पीतवासा महोरस्कः, सुमृष्टमणिकुण्डलः । नीलकुञ्चितकेशान्तः, सुभगः सिंहविक्रमः ॥ var स्निग्धकुञ्चित Bhagavatam 8.8.34 अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः। स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः । धन्वन्तरिरिति ख्यातः आयुर्वेददृगित्यभाक् । एवं धन्वन्तरिं ध्यायेत् साधकोऽभीष्टसिद्धये ॥ ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय, सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ धन्वन्तरिङ्गरुचिधन्वन्तरेरितरुधन्वंस्तरीभवसुधा धान्वन्तरावसथमन्वन्तराधिकृतधन्वन्तरौषधनिधे । धन्वन्तरंगशुगुधन्वन्तमायिषु वितन्वन् ममाब्धितनय सून्वन्ततात्मकृततन्वन्तरावयवतन्वन्तरार्तिजलधौ ॥ धन्वन्तरिश्च भगवान् स्वयमास देवो var स्वयेमेव कीर्तिः नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवाप चार्धा var रवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ Bhagavatam 2.7.21 क्षीरोदमथनोद्भूतं दिव्यगन्धानुलेपिनम् । सुधाकलशहस्तं तं वन्दे धन्वन्तरिं हरिम् ॥ शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ अयं मे हस्तो भगवान् अयं मे भगवत्तरः । अयं मे विश्वभेषजोऽयं शिवाभिमर्षणः ॥ अच्युतानन्त-गोविन्द-विष्णो नारायणामृत । रोगान्मे नाशयाशेषान् आशु धन्वन्तरे हरे ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय, सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ इति धन्वन्तरिस्तोत्रं सम्पूर्णम् । Audio http://www.divinebrahmanda.com/2012/09/sri-dhanwantri-stotram-by-sritml