अक्षर आकार:

धकारादि श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

dhakArAdi shrIdhanvantaryaShTottarashatanAmAvaliH

धकारादि श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

ॐ धन्वन्तरये नमः । धर्मध्वजाय । धरावल्लभाय । धिषणवन्द्याय । धीराय । धीवरेण्याय । धार्मिकाय । धर्मनियामकाय । धर्मरूपाय । धीरोदात्तगुणोज्ज्वलाय । धर्मविदे । धराधरधारिणे । धात्रे । धातृगर्भविदे । धरित्रीहिताय । धराधररूपाय । धार्मिकप्रियाय । धार्मिकवन्द्याय । धार्मिकजनध्याताय । धनदादिसमर्चिताय नमः ॥ २० धनञ्जयरूपाय नमः । धनञ्जयवन्द्याय । धनञ्जयसारथये । धिषणरूपाय । धिषणपूज्याय । धिषणाग्रजसेव्याय । धिषणारूपाय । धिषणादायकाय । धार्मिकशिखामणये । धीप्रदाय । धीरूपाय । ध्यानगम्याय । ध्यानदात्रे । ध्यातृध्येयपदाम्बुजाय । धीरसम्पूज्याय । धीरसमर्चिताय । धीरशिखामणये । धुरन्धराय । धूपधूपितविग्रहाय । धूपदीपादिपूजाप्रियाय नमः ॥ ४० धूमादिमार्गदर्शकाय नमः । धृष्टाय । धृष्टद्युम्नाय । धृष्टद्युम्नस्तुताय । धेनुकासुरसूदनाय । धेनुव्रजरक्षकाय । धेनुकासुरवरप्रदाय । धैर्याय । धैर्यवतामग्रण्ये । धैर्यवतां धैर्यदाय । धैर्यप्रदायकाय । धोयिने (धोय्ये) । धौम्याय । धौम्येडितपदाय । धौम्यादिमुनिस्तुताय । धौम्यवरदाय । धर्मसेतबे । धर्ममार्गप्रवर्तकाय । धर्ममार्गविघ्नकृत्सूदनाय । धर्मराजाय नमः ॥ ६० धर्ममार्गपरैकवन्द्याय नमः । धामत्रयमन्दिराय । धनुर्वातादिरोगघ्नाय । धुतसर्वाघवृन्दाय । धारणारूपाय । धारणामार्गदर्शकाय । ध्यानमार्गतत्पराय । ध्यानमार्गैकलभ्याय । ध्यानमात्रसुलभाय । ध्यातृपापहराय । ध्यातृतापत्रयहराय । धनधान्यप्रदाय । धनधान्यमत्तजनसूदनाय । धूमकेतुवरप्रदाय । धर्माध्यक्षाय । धेनुरक्षाधुरीणाय । धरणीरक्षणधुरीणाय । धरणीभारापहारकाय । धीरसमर्चिताय । धर्मवृद्धिकर्त्रे नमः ॥ ८० धर्मगोप्त्रे नमः । धर्मकर्त्रे । धर्मबन्धवे । धर्महेतवे । धार्मिकव्रजरक्षाधुरीणाय । धनञ्जयादिवरप्रदाय । धनञ्जयसेवातुष्टाय । धनञ्जयसाह्यकृते । धनञ्जयस्तोत्रपात्राय । धनञ्जयगर्वहर्त्रे । धनञ्जनस्तुतिहर्षिताय । धनञ्जयवियोगखिन्नाय । धनञ्जयगीतोपदेशकृते । धर्माधर्मविचारपरायणाय । धर्मसाक्षिणे । धर्मनियामकाय । धर्मधुरन्धराय । धनदृप्तजनदूरगाय । धर्मपालकाय । धर्ममार्गोपदेशकृद्वन्द्याय ॥ १०० धर्मजनवन्द्याय । धर्मरूपविदुरवन्द्याय । धर्मतनयस्तुत्याय । धर्मतनयस्तोत्रपात्राय । धर्मतनयसंसेव्याय । धर्मतनयनमान्याय । धारामृतहस्ताय । धन्वन्तरये ॥ १०८ योऽर्थाय विष्णुरुदधेरुदभूत्सुराणां नानाविधामयविनाशविधानविज्ञः । पीयूषयूषपरिपूर्णघटं गृहीत्वा धन्वन्तरिः सुखकरोऽस्तु करोनविंशः । इति धकारादि श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः समाप्ता ।