अक्षर आकार:

देहलीशस्तुतिः

Dehalishastutih

देहलीशस्तुतिः

वेदान्तदेशिककृता (गोपपुरे - तिरुक्कोयिलूर् - पण्णातटे) विक्रम्य येन विजितानि जगन्ति भूम्ना विश्वस्य यं परमकारणमामनन्ति । विश्राणयन् प्रणयिनां विविधान् पुमर्थान् गोप्ता स मे भवतु गोपपुराधिराजः ॥ १॥ देहल्यधीश्वर तवेदृशमीश्वरत्वं तुष्टूषतां दिशति गद्गदिकानुबन्धम् । वाचालयस्यथ च मां क्वचन क्षपायां क्षान्तेन दान्त कविमुख्यविमर्दनेन ॥ २॥ त्वच्चक्रवद्द्रुतमनेहसि घूर्णमाने निम्नोन्नतक्रमनिदर्शितनेमिवृत्ताः । आराध्य गोपनगरे कृपयोदितं त्वां स्वाराज्यमग्र्यमलभन्त सुरासुरेन्द्राः ॥ ३॥ आकल्पपुष्पसुभगोन्नतबाहुशाखः पादे सदा परिपचेलिमसत्फलस्त्वम् । पण्णातटस्पृशि मृकण्डुतपोवनेऽस्मिन् छायानिलीनभुवनोऽसि तमालशाखी ॥ ४॥ चक्रस्य दैत्यदनुजादिषु वामभावं शङ्खस्य चाश्रितजनेष्वपि दक्षिणत्वम् । व्यक्तं प्रदर्शयति गोपपुराधिराज व्यत्यस्य नूनमनयोः करसम्प्रयोगम् ॥ ५॥ दीपेन केनचिदशीतरुचा निशीथे स्नेहोपपन्नपरिशुद्धगुणार्पितेन । दह्रावकाशनिबिडं ददृशुर्भवन्तं स्वाध्याययोगनयनाः शुचयः कवीन्द्राः ॥ ६॥ कासारपूर्वकविमुख्यविमर्दजन्मा पण्णातटेक्षुसुभगस्य रसो बहुस्ते । त्वत्पादपद्ममधुनि त्वदनन्यभोग्ये नूनं समाश्रयति नूतनशर्करात्वम् ॥ ७॥ वैरोचनेः सदसि वामनभूमिकावान् विक्रान्तिताण्डवरसेन विजृम्भमाणः । चक्रे भवान् मकरकुण्डलकर्णपाशः श्यामैकमेघभरितामिव सप्तलोकीम् ॥ ८॥ चित्रं न तत्त्रिषु मितानि पदेषु धत्ते विश्वान्यमूनि भुवनानि विशङ्कटेषु । भक्तैः समं क्वचिदसौ भवनैकदेशे माति स्म मूर्तिरमिता तदिहाद्भुतं नः ॥ ९॥ भक्तप्रिय त्वयि तथा परिवर्धमाने मुक्तावितानविततिस्तव पूर्वमासीत् । हारावलिः परमथो रशनाकलापः तारागणस्तदनु मौक्तिकनूपुरश्रीः ॥ १०॥ भिक्षोचितं प्रकटयन् प्रथमाश्रमं त्वं कृष्णाजिनं यवनिकां कृतवान् प्रियायाः । व्यक्ताकृतेस्तव समीक्ष्य भुजान्तरे तां त्वामेव गोपनगरीश जना विदुस्त्वाम् ॥ ११॥ सत्कुर्वतां तव पदं चतुराननत्वं पादोदकं च शिरसा वहतां शिवत्वम् । एकत्र विक्रमणकर्मणि तद्वयं ते देहल्यधीश युगपत्प्रथितं पृथिव्याम् ॥ १२॥ भक्तोपरोधसह पादसरोजतस्ते मन्दाकिनी विगलिता मकरन्दधारा । सद्यस्त्रिवर्गमपवर्गमपि क्षरन्ती पुण्या बभूव पुरशासन मौलिमाला ॥ १३॥ विक्रान्तकेतुपटिका पदवाहिनी ते न्यञ्चन्त्युपैति नतजीवितशिंशुमारम् । औत्तानपादिममृतांशुमशीतभानुं हेमाचलं पशुपतिं हिमवन्तमुर्वीम् ॥ १४॥ वेधः कमण्डलुजलैर्विहितार्चनं ते पादाम्बुजं प्रतिदिनं प्रतिपद्यमाना । स्तोत्रप्रिय त्रिपथगाऽऽदिसरिद्वराणां पण्णा बभूव भुवने बहुमानपात्रम् ॥ १५॥ स्वच्छन्दविक्रमसमुन्नमितादमुष्मात् स्रोतस्त्रयं यदभवत्तव पादपद्मात् । वेतालभूतसरसामपदिश्य वाचं प्रायेण तत्प्रसवभूमिमवाप भूयः ॥ १६॥ क्रीडापरेण भवता विहितोपरोधान् आराधकाननुपरोधमुदञ्चयिष्यन् । ताम्रेण पादनखरेण तदाऽण्डमध्ये घण्टापथं कमपि नूनमवर्तयस्त्वम् ॥ १७॥ कामाविलेऽपि करुणार्णवबिन्दुरेकः क्षिप्तः स्वकेलि तरसा तव देहलीश । तत्सन्ततेरुभयथा विततिं भजन्त्याः संसारदावदहनं शमयत्यशेषम् ॥ १८॥ नीडोदरान्निपतितस्य शुकार्भकस्य त्राणेन नाथ विहरन्निव सार्वभौमः । आदाय गोपनगराधिपते स्वयं मां क्रीडा दया व्यतिकरेण कृतार्थय त्वम् ॥ १९॥ लीलाशकुन्तमिव मां स्वपदोपलब्ध्यै स्वैरं क्षिपन् दुरितपञ्जरतो गुणस्थम् । तत्तादृशं कमपि गोपपुरीविहारिन् सन्तोषमुल्ललय सागरसम्भवायाः ॥ २०॥ वातूलकल्पवृजिनप्रभवैर्मदीयां वैयाकुलीं विषयसिन्धुतरङ्गभङ्गैः । दासोपमर्दसह दुर्निरसां त्वदन्यैः अन्वीक्ष्य गाढमनुकम्पितुमर्हसि त्वम् ॥ २१॥ एनस्विनीमिति सदा मयि जायमानां देहल्यधीश दृषदोऽपि विलापयन्तीम् । नाथे समग्रशकने त्वयि जागरूके किं ते सहेत करुणा करुणामवस्थाम् ॥ २२॥ आत्मोन्नतिं परनिकर्षमपीह वाञ्छन् निम्नेऽपि मोहजलधौ निपतामि भूयः । तन्मामुदञ्चय तवोन्नतपादनिघ्नं देहल्यधीश गुणितेन दयागुणेन ॥ २३॥ अक्षीणकल्मषरसोऽपि तवानृशंस्यात् लक्ष्मीसमक्षमपि विज्ञपयाम्यभीतः । भक्तोपमर्दरसिक स्वयमल्पबुद्धेः यन्मन्यसे मम हितं तदुपाददीथाः ॥ २४॥ मन्ये दयार्द्र हृदयेन महाधनं मे दत्तं त्वयेदमनपायमकिञ्चनत्वम् । येन स्तनन्धयमिव स्वहितानभिज्ञं न्यासीकरोषि निजपादसरोरुहे माम् ॥ २५॥ दुर्वारतीव्रदुरितप्रतिवावदूकैः औदार्यवद्भिरनघस्मितदर्शनीयैः । देहल्यधीश्वर दयाभरितैरपाङ्गैः वाचं विनापि वदसीव मयि प्रसादम् ॥ २६॥ अयमनवमसूक्तैरादिभक्तैर्यथावत् विशदितनिजतत्त्वो विश्वमव्यादभव्यात् । रथचरणनिरूढव्यञ्जनानां जनानां दुरितमथनलीलादोहली देहलीशः ॥ २७॥ इयमवितथवर्णा वर्णनीयस्वभावात् विदितनिगमसीम्ना वेङ्कटेशेन गीता । भवमरुभुवि तृष्णालोभपर्याकुलानां दिशतु फलमभीष्टं देहलीशस्तुतिर्नः ॥ २८॥ इति वेदान्तदेशिककृता देहलीशस्तुतिः समाप्ता ।