अक्षर आकार:

दयाशतकम्

dayAshatakam

दयाशतकम्

श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ श्रीः । प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया । इक्षुसारस्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥ १॥ विगाहे तीर्थबहुलां शीतलां गुरुसन्ततिम् । श्रीनिवासदयाम्भोधिपरीवाहपरम्पराम् ॥ २॥ कृतिनः कमलावासकारुण्यैकान्तिनो भजे । धत्ते यत्सूक्तिरूपेण त्रिवेदी सर्वयोग्यताम् ॥ ३॥ पराशरमुखान्वन्दे भगीरथनये स्थितान् । कमलाकान्तकारुण्यगङ्गाप्लावितमद्विधान् ॥ ४॥ अशेषविघ्नशमनमनीकेश्वरमाश्रये । श्रीमतः करुणाम्भोधौ शिक्षास्रोत इवोत्थितम् ॥ ५॥ समस्तजननीं वन्दे चैतन्यस्तन्यदायिनीम् । श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥ ६॥ वन्दे वृषगिरीशस्य महिषीं विश्वधारिणीम् । तत्कृपाप्रतिघातानां क्षमया वारणं यया ॥ ७॥ निशामयतु मां नीला यद्भोगपटलैर्ध्रुवम् । भावितं श्रीनिवासस्य भक्तदोषेष्वदर्शनम् ॥ ८॥ कमप्यनवधिं वन्दे करुणावरुणालयम् । वृषशैलतटस्थानां स्वयं व्यक्तिमुपागतम् ॥ ९॥ अकिञ्चननिधिं सूतिमपवर्गत्रिवर्गयोः । अञ्जनाद्रीश्वरदयामभिष्टौमि निरञ्जनाम् ॥ १०॥ अनुचरशक्त्यादिगुणामग्रेसरबोधविरचितालोकाम् । स्वाधीनवृषगिरीशां स्वयं प्रभूतां प्रमाणयामि दयाम् ॥ ११॥ अपि निखिललोकसुचरितमुष्टिन्धयदुरितमूर्च्छनाजुष्टम् । सञ्जीवयतु दये मामञ्जनगिरिनाथरञ्जनी भवती ॥ १२॥ भगवति दये भवत्या वृषगिरिनाथे समाप्लुते तुङ्गे । अप्रतिघमज्जनानां हस्तालम्बो मदागसां मृग्यः ॥ १३॥ कृपणजनकल्पलतिकां कृतापराधस्य निष्क्रियामाद्याम् । वृषगिरिनाथदये त्वां विदन्ति संसारतारिणीं विबुधाः ॥ १४॥ वृषगिरिगृहमेधिगुणा बोधबलैश्वर्यवीर्यशक्तिमुखाः । दोषा भवेयुरेते यदि नाम दये त्वया विनाभूताः ॥ १५॥ आसृष्टि सन्ततानामपराधानां निरोधिनीं जगतः । पद्मासहायकरुणे प्रतिसञ्चरकेलिमाचरसि ॥ १६॥ अचिदविशिष्टान्प्रलये जन्तूनवलोक्य जातनिर्वेदा । करणकलेवरयोगं वितरसि वृषशैलनाथकरुणे त्वम् ॥ १७॥ अनुगुणदशार्पितेन श्रीधरकरुणे समाहितस्नेहा । शमयसि तमः प्रजानां शास्त्रमयेन स्थिरप्रदीपेन ॥ १८॥ रुढा वृषाचलपतेः पादे मुखकान्तिपत्रलच्छाया । करुणे सुखयसि विनतान्कटाक्षविटपैः करापचेयफलैः ॥ १९॥ नयने वृषाचलेन्दोस्तारामैत्रीं दधानया करुणे । दृष्टस्त्वयैव जनिमानपवर्गमकृष्टपच्यमनुभवति ॥ २०॥ समयोपनतैस्तव प्रवाहैरनुकम्पे कृतसम्प्लवा धरित्री । शरणागतसस्यमालिनीयं वृषशैलेशकृषीवलं धिनोति ॥ २१॥ कलशोदधिसम्पदो भवत्याः करुणे सन्मतिमन्थसंस्कृतायाः । अमृतांशमवैमि दिव्यदेहं मृतसञ्जीवनमञ्जनाचलेन्दोः ॥ २२॥ जलधेरिव शीतता दये त्वं वृषशैलाधिपतेस्स्वभावभूता । प्रलयारभटीनटीं तदीक्षां प्रसभं ग्राहयसि प्रसत्तिलास्यम् ॥ २३॥ प्रणतप्रतिकूलमूलघाती प्रतिघः कोऽपि वृषाचलेश्वरस्य । कलमे यवसापचायनीत्या करुणे किङ्करतां तवोपयाति ॥ २४॥ अबहिष्कृतनिग्रहान्विदन्तः कमलाकान्तगुणान्स्वतन्त्रतादीन् । अविकल्पमनुग्रहं दुहानां भवतीमेव दये भजन्ति सन्तः ॥ २५॥ कमलानिलयस्त्वया दयालुः करुणे निष्करुणा निरूपणे त्वम् । अत एव हि तावकाश्रितानां दुरितानां भवति त्वदेव भीतिः ॥ २६॥ अतिलङ्घितशासनेष्वभीक्ष्णं वृषशैलाधिपतिर्विजृम्भितोष्मा । पुनरेव दये क्षमानिदानैर्भवतीमाद्रियते भवत्यधीनैः ॥ २७॥ करुणे दुरितेषु मामकेषु प्रतिकारान्तरदुर्जयेषु खिन्नः । कवचायितया त्वयैव शार्ङ्गी विजयस्थानमुपाश्रितो वृषाद्रिम् ॥ २८॥ मयि तिष्ठति दुष्कृतां प्रधाने मितदोषानितरान्विचिन्वती त्वम् । अपराधगणैरपूर्णकुक्षिः कमलाकान्तदये कथं भवित्री ॥ २९॥ अहमस्म्यपराधचक्रवर्ती करुणे त्वं च गुणेषु सार्वभौमी । विदुषी स्थितिमीदृशीं स्वयं मां वृषशैलेश्वरपादसात्कुरु त्वम् ॥ ३०॥ अशिथिलकरणेऽस्मिन्नक्षतश्वासवृत्तौ वपुषि गमनयोग्ये वासमासादयेयम् । वृषगिरिकटकेषु व्यञ्जयत्सु प्रतीतै- र्मधुमथनदये त्वां वारिधाराविशेषैः ॥ ३१॥ अविदितनिजयोगक्षेममात्मानभिज्ञं गुणलवरहितं मां गोप्तुकामा दये त्वम् । परवति चतुरैस्ते विभ्रमैः श्रीनिवासे बहुमतिमनपायां विन्दसि श्रीधरण्योः ॥ ३२॥ फलवितरणदक्षं पक्षपातानभिज्ञं प्रगुणमनुविधेयं प्राप्य पद्मासहायम् । महति गुणसमाजे मानपूर्वं दये त्वं प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ ३३॥ अनुभवितुमघौघं नालमागामिकालः प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यम् । स्वयमिति हि दये त्वं स्वीकृतश्रीनिवासा शिथिलितभवभीतिः श्रेयसे जायसे नः ॥ ३४॥ अवतरणविशेषैरात्मलीलापदेशै- रवमतिमनुकम्पे मन्दचित्तेषु विन्दन् । वृषभशिखरिनाथस्त्वन्निदेशेन नूनं भजति शरणभाजां भाविनो जन्मभेदान् ॥ ३५॥ परहितमनुकम्पे भावयन्त्यां भवत्यां स्थिरमनुपधि हार्दं श्रीनिवासो दधानः । ललितरुचिषु लक्ष्मीभूमिनीलासु नूनं प्रथयति बहुमानं त्वत्प्रतिच्छन्दबुद्ध्या ॥ ३६॥ वृषगिरिसविधेषु व्याजतो वासभाजां दुरितकलुषितानां दूयमाना दये त्वम् । करणविलयकाले कान्दिशीकस्मृतीनां स्मरयसि बहुलीलं माधवं सावधाना ॥ ३७॥ दिशि दिशि गतिविद्भिर्देशिकैर्नीयमाना स्थिरतरमनुकम्पे स्त्यानलग्रा गुणैस्त्वम् । परिगतवृषशैलं पारमारोपयन्ती भवजलधिगतानां पोतपात्री भवित्री ॥ ३८॥ परिमितफलसङ्गात्प्राणिनः किम्पचाना निगमविपणिमध्ये नित्यमुक्तानुषक्तम् । प्रसदनमनुकम्पे प्राप्तवत्या भवत्या वृषगिरिहरिनीलं व्यञ्जितं निर्विशन्ति ॥ ३९॥ त्वयि बहुमतिहीनः श्रीनिवासानुकम्पे जगति गतिमिहान्यां देवि संमन्यते यः । स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्यां शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ ४०॥ आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा काले दृष्ट्वा कमलवसतेरप्यकिञ्चित्कराणि । पद्माकान्तं प्रणिहितवतीं पालनेऽनन्यसाध्ये साराभिज्ञा जगति कृतिनस्संश्रयन्ते दये त्वाम् ॥ ४१॥ प्राजापत्यप्रभृतिविभवं प्रेक्ष्य पर्यायदुःखं जन्माकाङ्क्षन्वृषगिरिवने जग्मुषां तस्थुषां वा । आशासानाः कतिचन विभोस्त्वत्परिष्वङ्गधन्यै- रङ्गीकारं क्षणमपि दये हार्दतुङ्गैरपाङ्गैः ॥ ४२॥ नाभीपद्मस्फुरणसुभगा नव्यनीलोत्पलाभा क्रीडाशैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् । शीता नित्यं प्रसदनवती श्रद्धधानावगाह्या दिव्या काचिज्जयति महती दीर्घिका तावकीना ॥ ४३॥ यस्मिन्दृष्टे तदितरसुखैर्गम्यते गोष्पदत्वं सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्तमानन्दसिन्धुम् । त्वत्स्वीकारात्तमिह कृतिनस्सूरिवृन्दानुभाव्यं नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥ ४४॥ सारं लब्ध्वा कमपि महतः श्रीनिवासाम्बुराशेः काले काले घनरसवती कालिकेवानुकम्पे । व्यक्तोन्मेषा मृगपतिगिरौ विश्वमाप्याययन्ती शीलोपज्ञं क्षरति भवती शीतलं सद्गुणौघम् ॥ ४५॥ भीमे नित्यं भवजलनिधौ मज्जतां मानवाना- मालम्बार्थं वृषगिरिपतिस्त्वन्निदेशात्प्रयुंक्ते । प्रज्ञासारं प्रकृतिमहता मूलभागेन जुष्टं शाखाभेदैस्सुभगमनघं शाश्वतं शास्त्रपाणिम् ॥ ४६॥ विद्वत्सेवाकतकनिकषैर्वीतपङ्काशयानां पद्माकान्तः प्रणयति दये दर्पणं ते स्वशास्त्रम् । लीलादक्षां त्वदनवसरे लालयन्विप्रलिप्सां मायाशास्त्राण्यपि शमयितुं त्वत्प्रपन्नप्रतीपान् ॥ ४७॥ दैवात्प्राप्ते वृषगिरितटं देहिनि त्वन्निदानात् स्वामिन्पाहीत्यवशवचने विन्दति स्वापमन्त्यम् । देवः श्रीमान् दिशति करुणे दृष्टिमिच्छंस्त्वदीया- मुद्घातेन श्रुतिपरिषदामुत्तरेणाभिमुख्यम् ॥ ४८॥ श्रेयःसूतिं सकृदपि दये सम्मतां यस्सखीं ते शीतोदारामलभत जनः श्रीनिवासस्य दृष्टिम् । देवादीनामयमनृणतां देहवत्त्वेऽपि विन्दन् बन्धान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः ॥ ४९॥ दिव्यापाङ्गं दिशसि करुणे येषु सद्देशिकात्मा क्षिप्रं प्राप्ता वृषगिरिपतिं क्षत्रबन्ध्वादयस्ते । विश्वाचार्या विधिशिवमुखास्स्वाधिकारोपरुद्धा मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥ ५०॥ अतिकृपणोऽपि जन्तुरधिगम्य दये भवती- मशिथिलधर्मसेतुपदवीं रुचिरामचिरात् । अमितमहोर्मिजालमतिलङ्घ्य भवाम्बुनिधिं भवति वृषाचलेशपदपत्तननित्यधनी ॥ ५१॥ अभिमुखभावसम्पदभिसम्भविनां भविनां क्वचिदुपलक्षिता क्वचिदभङ्गुरगूढगतिः । विमलरसावहा वृषगिरीशदये भवती सपदि सरस्वतीव शमयत्यघमप्रतिघम् ॥ ५२॥ अपि करुणे जनस्य तरुणेन्दुविभूषणता- मपि कमलासनत्वमपि धाम वृषाद्रिपतेः । तरतमतावशेन तनुते ननु ते विततिः परहितवर्ष्मणा परिपचेलिमकेलिमती ॥ ५३॥ धृतभुवना दये त्रिविधगत्यनुकूलतरा वृषगिरिनाथपादपरिरम्भवती भवती । अविदितवैभवाऽपि सुरसिन्धुरिवातनुते सकृदवगाहमानमपतापमपापमपि ॥ ५४॥ निगमसमाश्रिता निखिललोकसमृद्धिकरी भजदघकूलमुद्रुजगतिः परितप्तहिता । प्रकटितहंसमत्स्यकमठाद्यवतारशता विबुधसरिच्छ्रियं वृषगिरीशदये वहसि ॥ ५५॥ जगति मितम्पचा त्वदितरा तु दये तरला फलनियमोज्झिता भवति सन्तपनाय पुनः । त्वमिह निरङ्कुशप्रशकनादिविभूतिमती वितरसि देहिनां निरवधिं वृषशैलनिधिम् ॥ ५६॥ सकरुणलौकिकप्रभुपरिग्रहनिग्रहयो- र्नियतिमुपाधिचक्रपरिवृत्तिपरम्परया । वृषभमहीधरेशकरुणे वितरङ्गयतां श्रुतिमितसम्पदि त्वयि कथं भविता विशयः ॥ ५७॥ वृषगिरिकृष्णमेघजनितां जनितापहरां त्वदभिमतिं सुवृत्तिमुपजीव्य निवृत्ततृषः । बहुषु जलाशयेषु बहुमानमपोह्य दये न जहति सत्पथं जगति चातकवत्कृतिनः ॥ ५८॥ त्वदुदयतूलिकाभिरमुना वृषशैलजुषा स्थिरचरशिल्पिनैव परिकल्पितचित्रधियः । यतिपतियामुनप्रभृतयः प्रथयन्ति दये जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥ ५९॥ मृदुहृदये दये मृदितकामहिते महिते धृतविबुधे बुधेषु विततात्मधुरे मधुरे । वृषगिरिसार्वभौमदयिते मयि ते महतीं भवुकनिधे निधेहि भवमूलहरां लहरीम् ॥ ६०॥ अकूपारैरेकोदकसमयवैतण्डिकजवै- रनिर्वाप्यां क्षिप्रं क्षपयितुमविद्याख्यबडवाम् । कृपे त्वं तत्तादृक्प्रथिमवृषपृथ्वीधरपति- स्वरूपद्वैगुण्यद्विगुणनिजबिन्दुः प्रवहसि ॥ ६१॥ विवित्सावेतालीविगमपरिशुद्धेऽपि हृदये पटुप्रत्याहारप्रभृतिपुटपाकप्रचकिताः । नमन्तस्त्वां नारायणशिखरिकूटस्थकरुणे निरुद्धत्वद्दोहा नृपतिसुतनीतिं न जहति ॥ ६२॥ अनन्याधीनस्सन्भवति परतन्त्रः प्रणमतां कृपे सर्वद्रष्टा न गणयति तेषामपकृतिम् । पतिस्त्वत्पारार्थ्यं प्रथयति वृषक्ष्माधरपति- र्व्यवस्थां वैयात्यादिति विघटयन्ती विहरसि ॥ ६३॥ अपां पत्युश्शत्रूनसहनमुनेर्धर्मनिगलं कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम् । विलीनस्वातन्त्र्यो वृषगिरिपतिस्त्वद्विहृतिभि- र्दिशत्येवं देवो जनितसुगतिं दण्डनगतिम् ॥ ६४॥ निषादानां नेता कपिकुलपतिः कापि शबरी कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति । अमीषां निम्नत्वं वृषगिरिपतेरुन्नतिमपि प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि ॥ ६५॥ त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निजपदे वहन्मूर्तिरष्टौ विहरति मृडानीपरिवृढः । बिभर्ति स्वाराज्यं वृषशिखरिश‍ृङ्गारिकरुणे शुनासीरो देवासुरसमरनासीरसुभटः ॥ ६६॥ दये दुग्धोदन्वद्व्यतियुतसुधासिन्धुनयत- स्त्वदाश्लेषान्नित्यं जनितमृतसंजीवनदशाः । स्वदन्ते दान्तेभ्यः श्रुतिवदनकर्पूरगुलिका विषुण्वन्तश्चित्तं वृषशिखरिविश्वम्भरगुणाः ॥ ६७॥ जगज्जन्मस्थेमप्रलयरचनाकेलिरसिको विमुक्त्येकद्वारं विघटितकवाटं प्रणयिनाम् । इति त्वय्यायत्तं द्वितयमुपधीकृत्य करुणे विशुद्धानां वाचां वृषशिखरिनाथः स्तुतिपदम् ॥ ६८॥ कलिक्षोभोन्मीलत्क्षितिकलुषकूलङ्कषजवै- रनुच्छेदै रेतैरवटतटवैषम्यरहितैः । प्रवाहैस्ते पद्मासहचरपरिष्कारिणि कृपे विकल्पन्तेऽनल्पा वृषशिखरिणो निर्झरगुणाः ॥ ६९॥ विकल्प्यन्ते खिलं चेतोवृत्तेः किमिदमिति विस्मेरभुवनं कृपे सिंहक्ष्माभृत्कृतमुखचमत्कारकरणम् । भरन्यासच्छन्नप्रबलवृजिनप्राभृतभृतां प्रतिप्रस्थानं ते श्रुतिनगरश‍ृङ्गाटकजुषः ॥ ७०॥ त्रिविधचिदचित्सत्तास्थेमप्रवृत्तिनियामिका वृषगिरिविभोरिच्छा सा त्वं परैरपराहता । कृपणभरभृत्किङ्कुर्वाणप्रभूतगुणान्तरा वहसि करुणे वैचक्षण्यं मदीक्षणसाहसे ॥ ७१॥ वृषगिरिपतेर्हृद्या विश्वावतारसहायिनी क्षपितनिखिलावद्या देवि क्षमादिनिषेविता । भुवनजननी पुंसां भोगापवर्गविधायिनी वितमसि पदे व्यक्तिं नित्यां बिभर्षि दये स्वयम् ॥ ७२॥ स्वयमुदयिनस्सिद्धाद्याविष्कृताश्च शुभालया विविधविभवव्यूहावासाः परं च पदं विभोः । वृषगिरिमुखेष्वेतेष्विच्छावधि प्रतिलब्धये दृढविनिहिता निश्रेणिस्त्वं दये निजपर्वभिः ॥ ७३॥ हितमिति जगद्दृष्ट्या कॢप्तैरकॢप्तफलान्तरै- रमतिविहितैरन्यैर्धर्मायितैश्च यदृच्छया । परिणतबहुच्छद्मा पद्मासहायदये स्वयं प्रदिशसि निजाभिप्रेतं नः प्रशाम्यदपत्रपा ॥ ७४॥ अतिविधिशिवैरैश्वर्यात्मानुभूतिरसैर्जनान्- अहृदयमिहोपच्छन्द्यैषामसङ्गदशार्थिनी । तृषितजनतातीर्थस्नानक्रमक्षपितैनसां वितरसि दये वीतातङ्का वृषाद्रिपतेः पदम् ॥ ७५॥ वृषगिरिसुधासिन्धौ जन्तुर्दये निहितस्त्वया भवभयपरीतापच्छित्त्यै भजन्नघमर्षणम् । मुषितकलुषो मुक्तेरग्रेसरैरभिपूर्यते स्वयमुपनतैस्स्वात्मानन्दप्रभृत्यनुबन्धिभिः ॥ ७६॥ अनितरजुषामन्तर्मूलेऽप्यपायपरिप्लवे कृतविदनघा विच्छिद्यैषां कृपे यमवश्यताम् । प्रपदनफलप्रत्यादेशप्रसङ्गविवर्जितं प्रतिविधिमुपाधत्से सार्धं वृषाद्रिहितैषिणा ॥ ७७॥ क्षणविलयिनां शास्त्रार्थानां फलाय निवेशिते पितृसुरगणे निर्वेशात्प्रागपि प्रलयं गते । सुरपितृगणे अधिगतवृषक्ष्माभृन्नाथामकालवशंवदां प्रतिभुवमिह व्याचख्युस्त्वां कृपे निरुपप्लवाम् ॥ ७८॥ त्वदुपसदनादद्य श्वो वा महाप्रलयेऽपि वा वितरति निजं पादाम्भोजं वृषाचलशेखरः । तदिह करुणे तत्तत्क्रीडातरङ्गपरम्परा- तरतमतया जुष्टायास्ते दुरत्ययतां विदुः ॥ ७९॥ प्रणिहितधियां त्वत्सम्पृक्ते वृषाद्रिशिखामणौ प्रसृमरसुधाधाराकारा प्रसीदति भावना । दृढमिति दये दत्तास्वादं विमुक्तिवलाहकं निभृतगरुतो निध्यायन्ति स्थिराशयचातकाः ॥ ८०॥ कृपे विगतवेलया कृतसमग्रपोषैस्त्वया कलिज्वलनदुर्गते जगति कालमेघायितम् । वृषक्षितिधरादिषु स्थितिपदेषु सानुप्लवै- र्वृषाद्रिपतिविग्रहैर्व्यपगताखिलावग्रहैः ॥ ८१॥ प्रसूय विविधं जगत्तदभिवृद्धये त्वं दये समीक्षणविचिन्तनप्रभृतिभिस्स्वयं तादृशैः । विचित्रगुणचित्रितां विविधदोषवैदेशिकीं वृषाचलपतेस्तनुं विशसि मत्स्यकूर्मादिकाम् ॥ ८२॥ युगान्तसमयोचितं भजति योगनिद्रारसं वृषक्षितिभृदीश्वरे विहरणक्रमाज्जाग्रति । उदीर्णचतुरर्णवीकदनवेदिनीं मेदिनीं समुद्धृतवती दये त्वदभिजुष्टया दंष्ट्रया ॥ ८३॥ सटापटलभीषणे सरभसाट्टहासोद्भटे स्फुरत्कुधि परिस्फुटद्भ्रुकुटिकेऽपि वक्त्रे कृते । दये वृषगिरीशितुर्दनुजडिम्भदत्तस्तना सरोजसदृशा दृशा समुदिताकृतिर्दृश्यसे ॥ ८४॥ प्रसक्तमधुना विधिप्रणिहितैः सपर्योदकैः समस्तदुरितच्छिदा निगमगन्धिना त्वं दये । अशेषमविशेषतस्त्रिजगदञ्जनाद्रीशितु- श्चराचरमचीकरश्चरणपङ्कजेनाङ्कितम् ॥ ८५॥ परश्वधतपोधनप्रथनसत्क्रतूपाकृत- क्षितीश्वरपशुक्षरत्क्षतजकुङ्कुमस्थासकैः । वृषाचलदयालुना ननु विहर्तुमालिप्यथाः निधाय हृदये दये निहतरक्षितानां हितम् ॥ ८६॥ कृपे कृतजगद्धिते कृपणजन्तुचिन्तामणे रमासहचरं क्षितौ रघुधुरीणयन्त्या त्वया । व्यभज्यत सरित्पतिस्सकृदवेक्षणात्तत्क्षणात्- प्रकृष्टबहुपातकप्रशमहेतुना सेतुना ॥ ८७॥ कृपे परवतस्त्वया वृषगिरीशितुः क्रीडितं जगद्धितमशेषतस्तदिदमित्थमर्थाप्यते । मदच्छलपरिच्युतप्रणतदुष्कृतप्रेक्षितै- र्हतप्रबलदानवैर्हलधरस्य हेलाशतैः ॥ ८८॥ प्रभूतविबुधद्विषद्भरणखिन्नविश्वम्भरा- भरापनयनच्छलात्त्वमवतार्य लक्ष्मीधरम् । निराकृतवती दये निगमसौधदीपश्रिया विपश्चिदविगीतया जगति गीतयाऽन्धं तमः ॥ ८९॥ वृषाद्रिहयसादिनः प्रबलदोर्मरुत्प्रेङ्खित- स्त्विषा स्फुटतटिद्गुणस्त्वदवसेकसंस्कारवान् । करिष्यति दये कलिप्रबलघर्मनिर्मूलनः पुनः कृतयुगाङ्कुरं भुवि कृपाणधाराधरः ॥ ९०॥ विश्वोपकारमिति नाम सदा दुहाना- मद्यापि देवि भवतीमवधीरयन्तम् । नाथे निवेशय वृषाद्रिपतौ दये त्वं var पतेर्दये न्यस्तस्वरक्षणभरं त्वयि मां त्वयैव ॥ ९१॥ नैसर्गिकेण तरसा करुणे नियुक्ता निम्नेतरेऽपि मयि ते विततिर्यदि स्यात् । विस्मापयेद्वृषगिरीश्वरमप्यवार्या वेलातिलङ्घनदशेव महाम्बुराशेः ॥ ९२॥ विज्ञातशासनगतिर्विपरीतवृत्त्या वृत्रादिभिः परिचितां पदवीं भजामि । एवं विधे वृषगिरीशदये मयि त्वं दीने विभोश्शमय दण्डधरत्वलीलाम् ॥ ९३॥ मासाहसोक्तिघनकञ्चुकवञ्चितान्यः पश्यत्सु तेषु विदधाम्यतिसाहसानि । पद्मासहायकरुणे न रुणत्सि किं त्वं घोरं कुलिङ्गशकुनेरिव चेष्टितं मे ॥ ९४॥ विक्षेपमर्हसि दये विपलायितेऽपि व्याजं विभाव्य वृषशैलपतेर्विहारम् । स्वाधीनसत्वसरणिस्स्वयमत्र जन्तौ द्राघीयसी दृढतरा गुणवागुरा त्वम् ॥ ९५॥ सन्तन्यमानमपराधगणं विचिन्त्य त्रस्यामि हन्त भवतीं च विभावयामि । अह्नाय मे वृषगिरीशदये जहीमा- माशीविषग्रहणकेलिनिभामवस्थाम् ॥ ९६॥ औत्सुक्यपूर्वमुपहृत्य महापराधान् मातः प्रसादयितुमिच्छति मे मनस्त्वाम् । आलिह्य तान्निरवशेषमलब्धतृप्ति- स्ताम्यस्यहो वृषगिरीशधृता दये त्वम् ॥ ९७॥ जह्याद्वृषाचलपतिः प्रतिघेऽपि न त्वां घर्मोपतप्त इव शीतलतामुदन्वान् । सा मामरुन्तुदभरन्यसनानुवृत्ति- स्तद्वीक्षणैः स्पृश दये तव केलिपद्मैः ॥ ९८॥ दृष्टेऽपि दुर्बलधियं दमनेऽपि दृप्तं स्नात्वाऽपि धूलिरसिकं भजनेऽपि भीमम् । बद्ध्वा गृहाण वृषशैलपतेर्दये मां त्वद्वारणं स्वयमनुग्रहश‍ृङ्खलाभिः ॥ ९९॥ नातः परं किमपि मे त्वयि नाथनीयं मातर्दये मयि कुरुष्व तथा प्रसादम् । बद्धादरो वृषगिरिप्रणयी यथाऽसौ मुक्तानुभूतिमिह दास्यति मे मुकुन्दः ॥ १००॥ निस्सीमवैभवजुषां मिषतां गुणानां स्तोतुर्दये वृषगिरीशगुणेश्वरीं त्वाम् । तैरेव नूनमवशैरभिनन्दितं मे सत्यापितं तव बलादकुतोभयत्वम् ॥ १०१॥ अद्यापि तद्वृषगिरीशदये भवत्या- मारम्भमात्रमनिदं प्रथमस्तुतीनाम् । सन्दर्शितस्वपरनिर्वहणा सहेथा मन्दस्य साहसमिदं त्वयि वन्दिनो मे ॥ १०२॥ प्रायो दये त्वदनुभावमहाम्बुराशौ प्राचेतसप्रभृतयोऽपि परं तटस्थाः । तत्रावतीर्णमतलस्पृशमाप्लुतं मां पद्मापतेः प्रहसनोचितमाद्रियेथाः ॥ १०३॥ वेदान्तदेशिकपदे विनिवेश्य बालं देवो दयाशतकमेतदवादयन्माम् । वैहारिकेण विधिना समये गृहीतं वीणाविशेषमिव वेङ्कटशैलनाथः ॥ १०४॥ अनवधिमधिकृत्य श्रीनिवासानुकम्पा- मवितथविषयत्वाद्विश्वमव्रीडयन्ती । विविधकुशलनीवी वेङ्कटेशप्रसूता स्तुतिरियमनवद्या शोभते सत्वभाजाम् ॥ १०५॥ शतकमिदमुदारं सम्यगभ्यस्यमानान् वृषगिरिमधिरुह्य व्यक्तमालोकयन्ती । अनितरशरणानामाधिराज्येऽभिषिञ्चे- च्छमितविमतपक्षा शार्ङ्गधन्वानुकम्पा ॥ १०६॥ विश्वानुग्रहमातरं व्यतिषजत्स्वर्गापवर्गां सुधा- सध्रीचीमिति वेङ्कटेश्वरकविर्भक्त्या दयामस्तुत । पद्मानामिह यद्विधेयभगवत्सङ्कल्पकल्पद्रुमात् var पद्यानामिह झंझामारुतधूतचूतनयतस्साम्पातिकोऽयं क्रमः ॥ १०७॥ कामं सन्तु मिथः करम्बितगुणावद्यानि पद्यानि नः कस्यास्मिञ्छतके सदम्बुकतके दोषश्रुतिं क्षाम्यति । निष्प्रत्यूहवृषाद्रिनिर्झरझरत्कारच्छलेनोच्चलन् var नोञ्चलन् दीनालम्बनदिव्यदम्पतिदयाकल्लोलकोलाहलः ॥ १०८॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु दयाशतकं सम्पूर्णम् ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ ॥ श्रीरस्तु ॥ From a telugu book veNkaTeshakAvyakalApa