अक्षर आकार:

दशावतारस्तुती

In Praise of Vishnu in His Ten Incarnations

दशावतारस्तुती

प्रोष्ठीशविग्रह सुनिष्ठीवनोद्धत विशिष्टाम्बुचारिजलधे । कोष्ठान्तराहितविचेष्टागमौघ परमेष्ठीडित त्वमवमाम् । प्रेष्ठार्कसूनुमनुचेष्ठार्थमात्मविदतीष्टो युगान्तसमये । स्थेष्ठात्मश‍ृङ्गधृतकाष्ठाम्बुवाहन वराष्टापदप्रभतनो ॥ १॥ खण्डीभवद्बहुळडिण्डीरजृम्भण सुचण्डी कृतो दधि महा । काण्डाति चित्र गति शौण्डाद्य हैमरद भाण्डा प्रमेय चरित । चण्डाश्वकण्ठमद शुण्डाल दुर्हृदय गण्डा भिखण्डाकर दो- श्चण्डा मरेशहय तुण्डाकृते दृशमखण्डामलं प्रदिश मे ॥ २॥ कूर्माकृते त्ववतु नर्मात्म पृष्ठधृत भर्मात्म मन्दर गिरे । धर्मावलम्बन सुधर्मासदाकलितशर्मा सुधावितरणात् । दुर्मान राहुमुख दुर्मायि दानवसुमर्माभिभेदन पटो । धर्मार्क कान्ति वर वर्मा भवान् भुवन निर्माण धूत विकृतिः ॥ ३॥ धन्वन्तरेऽङ्गरुचि धन्वन्तरेऽरितरु धन्वन्स्तरीभवसुधा- भान्वन्तरावसथ मन्वन्तराधिकृत तन्वन्तरौषधनिधे । दन्वन्तरङ्गशुगुदन्वन्तमाजिषु वितन्वन्ममाब्धि तनया । सून्वन्तकात्महृदतन्वरावयव तन्वन्तरार्तिजलधौ ॥ ४॥ या क्षीरवार्धिमथनाक्षीणदर्पदितिजाक्षोभितामरगणा- पेक्षाप्तयेऽजनि वलक्षांषुबिम्बजिदतीक्ष्णालकावृतमुखी । सूक्ष्मावलग्नवसनाक्षेपकृत्कुच कटाक्षाक्षमीकृतमनो- दीक्षासुराहृतसुधाक्षाणिनोऽवतुसु रूक्षेक्षणाद्धरितनुः ॥ ५॥ शिक्षादियुङ्निगम दीक्षासुलक्षण परिक्षाक्षमाविधिसती । दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ । प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा । साऽक्षारितात्मतनु भूक्षारकारिनिटिलाक्षाक्षमानवतु नः ॥ ६॥ नीलाम्बुदाभशुभ शीलाद्रिदेहधर खेलाघृतोधधिधुनी- शैलादियुक्त निखिलेला कटाद्यसुर तूलाटवीदहन ते । कोलाकृते जलधि कालाचलावयव नीलाब्जदंष्ट्र धरणी- लीलास्पदोरुतर मूलाशियोगिवर जालाभिवन्दित नमः ॥ ७॥ दम्भोलितीक्ष्णनख सम्भेदितेन्द्ररिपु कुम्भीन्द्र पाहि कृपया । स्तम्भार्भ कासहनडिम्भाय दत्तवर गम्भीरनाद नृहरे । अंभोधिजानुसरणांभोजभूपवनकुम्भीनसेशखगराट् । कुम्भीन्द्रकृत्तिधर जम्भारिषण्मुखमुखांभोरुहाभिनुत माम् ॥ ८॥ पिङ्गाक्ष विक्रम तुरङ्गादि सैन्य चतुरङ्गा वलिप्त दनुजा- साङ्गाध्वरस्थ बलि साङ्गावपात हृषिताङ्गा मरालिनुत ते । श‍ृङ्गारपादनख तुङ्गाग्रभिन्न कन काङ्गाण्डपत्तितटिनी- तुङ्गाति मङ्गल तरङ्गाभिभूत भज काङ्गाघ वामन नमः ॥ ९॥ ध्यानार्ह वामनतनोनाथ पाहि यजमाना सुरेशवसुधा- दानाय याचनिक लीनार्थवाग्वशितनानासदस्यदनुज । मीनाङ्कनिर्मलनिशानाथकोटिलसमानात्म मौञ्जिगुण कौ- पीनाच्छसूत्रपदयानातपत्रकरकानम्यदण्डवरभृत् ॥ १०॥ धैर्याम्बुधे परशुचर्याधिकृत्तखलवर्यावनीश्वर महा- शौर्याभिभूत कृतवीर्यात्मजातभुजवीर्यावलेपनिकर । भार्यापराधकुपितार्याज्ञयागलितनार्यात्मसूगलतरो । कार्यापराधमविचार्यार्यमौघजयिवीर्यामिता मयि दया ॥ ११॥ श्रीरामलक्ष्मणशुकाराम भूरवतुगौरामलामितमहो- हारामरस्तुत यशोरामकान्तिसुत नोरामनोरथहर । स्वारामवर्यरिपु वीरामयार्धिकर चीरामलावृतकटे । स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह ॥ १२॥ श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू- तोकेतरार्तिहरणाकेवलार्तसुखधीकेकिकालजलद । साकेतनाथवरपाकेरमुख्यसुत कोकेन भक्तिमतुलाम् । राकेन्दु बिम्बमुख काकेक्षणापह हृशीकेश तेऽङ्घ्रिकमले ॥ १३॥ रामे नृणां हृदभिरामेनराशिकुलभीमे मनोऽद्यरमताम् । गोमेदिनीजयितपोऽमेयगाधिसुतकामेनिविष्ट मनसि । श्यामे सदा त्वयि जितामेयतापसजरामे गताधिकसमे । भीमेशचापदलनामेयशौर्यजितवामेक्षणे विजयिनि ॥ १४॥ कान्तारगेहखलकान्तारटद्वदन कान्तालकान्तकशरम् । कान्तारयाम्बुजनिकान्तान्ववायविधुकान्ताश्मभादिपहरे । कान्तालिलोलदलकान्ताभिशोभितिलकान्ताभवन्तमनुसा । कान्तानुयानजित कान्तारदुर्गकटकान्ता रमात्ववतु माम् ॥ १५॥ दान्तं दशाननसुतान्तं धरामधिवसन्तं प्रचण्डतपसा । क्लान्तं समेत्य विपिनान्तं त्ववाप यमनन्तं तपस्विपटलम् । यान्तं भवारतिभयान्तं ममाशु भगवन्तं भरेण भजतात् । स्वान्तं सवारिदनुजान्तं धराधरनिशान्तं स तापसवरम् ॥ १६॥ शम्पाभचापलवकंपास्तशत्रुबलसम्पादितामितयशाः । शं पादतामरससम्पातिनोऽलमनुकम्पारसेन दिश मे । सम्पातिपक्षिसहजं पापिरावणहतं पावनं यदकृथाः । त्वं पापकूपपतितं पाहि मां तदपि पम्पासरस्तटचर ॥ १७॥ लोलाक्ष्यपेक्षितसुलीलाकुरङ्गवधखेलाकुतूहलगते । स्वालापभूमिजनिबालापहार्यनुजपालाद्य भो जयजय । बालाग्निदग्धपुरशालानिलात्मजनिफालात्तपत्तलरजो । नीलाङ्गदादिकपिमालाकृतालिपथमूलाभ्यतीतजलधे ॥ १८॥ तूणीरकार्मुक कृपाणीकिणाङ्कभुजपाणीरविप्रतिमभाः । क्षोणिधरालिनिभघोणीमुखादिघनवेणीसुरक्षणकरः । शोणिभवन्नयन कोणीजिताम्बुनिधिपाणीरितार्हणमणि- श्रेणीवृताङ्घ्रिरिह वाणीशसूनुवरवाणीस्तुतो विजयते ॥ १९॥ हुङ्कारपूर्वमथ टङ्कारनादमतिपङ्कावधार्यचलिता । लङ्काशिलोच्चयविशङ्कापतद्भिदुर शङ्काऽऽस यस्य धनुषः । लङ्काधिपोऽमनुत यं कालरात्रिमिव शङ्काशताकुलधिया । तं कालदण्डशतसङ्काशकार्मुकशराङ्कान्वितं भज हरिम् ॥ २०॥ धीमानमेयतनुधामार्तमङ्गळदनामा रमाकमलभू- कामारिपन्नगपकामाहिवैरिगुरुसोमादिवन्द्यमहिमा । स्थेमादिनापगतसीमावतात्सखलसामाजरावणरिपू । रामाभिदो हरिरभौमाकृतिः प्रतनसामादिवेदविषयः ॥ २१॥ दोषात्मभूवशतुराषाडतिक्रमजदोषात्मभर्तृवचसा । पाषाणभूतमुनियोषावरात्मतनुवेषादिदायिचरणः । नैषादयोषिदशुभेषाकृदण्डजनिदोषाचरादिशुभदो । दोषाग्रजन्ममृतिशोषापहोऽवतु सुदोषाङ्घ्रिजातहननात् ॥ २२॥ वृन्दावनस्थपशुवृन्दावनं विनुतवृन्दारकैकशरणम् । नन्दात्मजं निहतनिन्दाकृदासुरजनं दामबद्धजठरम् । वन्दामहे वयममन्दावदातरुचिमान्दाक्षकारिवदनम् । कुन्दालिदन्तमुत कन्दासितप्रभतनुं दावराक्षसहरम् ॥ २३॥ गोपालकोत्सवकृतापारभक्ष्यरससूपान्नलोपकुपिता । शापालयापितलयापाम्बुदालिसलिलापायधारितगिरे । स्वापाङ्गदर्शनज तापाङ्गरागयुतगोपाङ्गनांशुकहृति- व्यापारशौण्ड विविधापायतस्त्वमव गोपारिजातहरण ॥ २४॥ कंसादिकासदवतंसावनीपतिविहिंसाकृतात्मजनुषम् । संसारभूतमिह संसारबद्धमनसं सारचित्सुखतनुम् । संसाधयन्तमनिशं सात्त्विकव्रजमहं सादरं बत भजे । हंसादितापसरिरंसास्पदं परमहंसादिवन्द्यचरणम् ॥ २५॥ राजीवनेत्र विदुराजीव मामवतु राजीवकेतनवशम् । वाजीभपत्तिनृपराजीरथान्वितजराजीवगर्वशमन । वाजीशवाह सितवाजीश दैत्यतनुवाजीशभेदकरदोः । जाजीकदम्बनवराजीवमुख्यसुमराजीसुवासितशिरः ॥ २६॥ कालीहृदावसथकालीयकुण्डलिपकालीस्थपादनखरा । व्यालीनवांशुकरवालीगणारुणितकालीरुचे जय जय । केलीलवापहृतकालीशदत्तवरनालीकदृप्तदितिभू- चूलीकगोपमहिलालीतनूघुसृणधूलीकणाङ्कहृदय ॥ २७॥ कृष्णादिपाण्डुसुतकृष्णामनःप्रचुरतृष्णासुतृप्तिक रवाक् । कृष्णाङ्कपालिरत कृष्णाभिधाघहर कृष्णादिषण्महिळ भोः । पुष्णातु मामजित निष्णातवार्धिमुदनुष्णांशुमण्डल हरे । जिष्णो गिरीन्द्रधर विष्णो वृषावरज धृष्णो भवान्करुणया ॥ २८॥ रामाशिरोमणिधरामासमेत बलरामानुजाभिध रतिम् । व्योमासुरान्तकर ते मारतात दिश मे माधवाङ्घ्रिकमले । कामार्तभौमपुररामावलीप्रणयवामाक्षिपीततनुभा । भीमाहिनाथमुखवैमानिकाभिनुत भीमाभिवन्द्यचरण ॥ २९॥ सक्ष्वेळभक्ष्यभयदाक्षिश्रवोगणजलाक्षेपपाशयमनम् । लाक्षागृहज्वलनरक्षोहिडिम्बबकभैक्षान्नपूर्वविपदः । अक्षानुबन्धभवरूक्षाक्षरश्रवणसाक्षान्महिष्यवमती । कक्षानुयानमधमक्ष्मापसेवनमभीक्ष्णापहासमसताम् ॥ ३०॥ चक्षाण एव निजपक्षाग्रभूदशशताक्षात्मजादिसुहृदा- माक्षेपकारिकुनृपाक्षौहिणीशतबलाक्षोभदीक्षितमनाः । तार्क्ष्यासिचापशरतीक्ष्णारिपूर्वनिजलक्ष्माणि चाप्यगणयन् । वृक्षालयध्वजरिरक्षाकरो जयति लक्ष्मीपतिर्यदुपतिः ॥ ३१॥ बुद्धावतार कविबद्धानुकम्प कुरु बद्धाञ्जलौ मयि दयाम् । शौद्धोदनिप्रमुखसैद्धान्तिकासुगमबौद्धागमप्रणयन । क्रुद्धाहितासुहृतिसिद्धासिखेटधर शुद्धाश्वयान कमला । शुद्धान्त मां रुचिपिनद्धाखिलाङ्ग निजमद्धाव कल्क्यभिध भोः ॥ ३२॥ सारङ्गकृत्तिधरसारङ्गवारिधर सारङ्गराजवरदा- सारं गदारितरसारं गतात्ममदसारं गतौषधबलम् । सारङ्गवत्कुसुमसारं गतं च तव सारङ्गमाङ्घ्रियुगलम् । सारङ्गवर्णमपसारं गताब्जमदसारं गदिंस्त्वमव माम् ॥ ३३॥ ग्रीवास्यवाहतनुदेवाण्डजादिदशभावाभिरामचरितम् । भावातिभव्यशुभधीवादिराजयतिभूवाग्विलासनिलयम् । श्रीवागधीशमुखदेवाभिनम्यहरिसेवार्चनेषु पठता- मावास एव भवितावाग्भवेतरसुरावासलोकनिकरे ॥ ३४॥ इति श्रीमद्वादिराजपूज्यचरण विरचितं श्रीदशावतारस्तुतिः सम्पूर्णम् भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु