अक्षर आकार:

दशावतरवर्णनं

Dashavataravarnanam from Narasimhapurana

दशावतरवर्णनं

मार्कण्डेय उवाच अवतारानहं वक्ष्ये देवदेवस्य चक्रिणः । ताञ्श‍ृणुष्व महीपाल पवित्रान् पापनाशनान् ॥ १॥ यथा मत्स्येन रूपेण दत्ता वेदाः स्वयम्भुवे । मधुकैटभौ च निधनं प्रापितौ च महात्मना ॥ २॥ यथा कौर्मेण रूपेण विष्णुना मन्दरो धृतः । तथा पृथ्वी धृता राजन् वाराहेण महात्मना ॥ ३॥ तेनैव निधनं प्राप्तो यथा राजन् महाबलः । हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ॥ ४॥ यथा हिरण्यकशिपुस्त्रिदशानामरिः पुरा । नरसिंहेन देवेन प्रापितो निधनं नृप ॥ ५॥ यथा बद्धो बलिः पूर्वं वामनेन महात्मना । इन्द्रस्त्रिभुवनाध्यक्षः कृतस्तेन नृपात्मज ॥ ६॥ रामेण भूत्वा च यथा विष्णुना रावणो हतः । सगणाश्चदभुता राजन् राक्षसा देवकण्टकाः ॥ ७॥ यथा परशुरामेण क्षत्रमुत्सादितं पुरा । बलभद्रेण रामेण यथा दैत्यः पुरा हतः ॥ ८॥ यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः । कलौ प्राप्ते यथा बुद्धो भवेन्नारायणः प्रभुः ॥ ९॥ कल्किरूपं समास्थाय यथा म्लेच्छा निपातिताः । समाप्ते तु कलौ भूयस्तथा ते कथयाम्यहम् ॥ १०॥ हरेरनन्तस्य पराक्रमं यः श‍ृणोति भूपाल समाहितात्मा । मयोच्यमानं स विमुच्य पापं प्रयाति विष्णोः पदमत्युदारम् ॥ ११॥ इति । नरसिंहपुराण अध्याय ३६ श्लोकसंख्या ११ श्रीनरसिंहपुराणे हरेः प्रादुर्भावानुक्रमणे षटत्रिंशोऽध्यायः ॥ ३६॥ From Narasimhapurana adhyAya 36 https://archive.org/details/NarsimhaPuranGitapress