अक्षर आकार:

दशावतारस्तोत्रम् ६

Dashavatarastotram 6

दशावतारस्तोत्रम् ६

आदाय वेदाः सकलाः समुद्रान्निहत्य शङ्खासुरमत्युदग्रम् । दत्ताः पुरा येन पितामहाय विष्णुं तमाद्यं भज मत्स्यरूपम् ॥ १॥ दिव्यामृतार्थं मथिते महाब्धौ देवासुरैर्वासुकिमन्दराभ्याम् । भूमेर्महावेगविघूर्णितायास्तं कूर्ममाधारगतं स्मरामि ॥ २॥ समुद्रकाञ्ची सरिदुत्तरीया वसुन्धरा मेरुकिरीटभारा । दंष्ट्राग्रतो येन समुद्धृता भूस्तमादिकोलं शरणं प्रपद्ये ॥ ३॥ भक्तार्तिभङ्गक्षमया धिया यः स्तम्भान्तरालादुदितो नृसिंहः । रिपुं सुराणां निशितैर्नखाग्रैर्विदारयन्तं न च विस्मरामि ॥ ४॥ चतुःसमुद्राभरणा धरित्री न्यासाय नालं चरणस्य यस्य । एकस्य नान्यस्य पदं सुराणां त्रिविक्रमं सर्वगतं स्मरामि ॥ ५॥ त्रिःसप्तवारं नृपतीन् निहत्य यस्तर्पणं रक्तमयं पितृभ्यः । चकार दोर्दण्डबलेन सम्यक् तमादिशूरं प्रणमामि भक्त्या ॥ ६॥ कुले रघूणां समवाप्य जन्म विधाय सेतुं जलधेर्जलान्तः । लङ्केश्वरं यः शमयाञ्चकार सीतापतिं तं प्रणमामि भक्त्या ॥ ७॥ हलेन सर्वानसुरान्विकृष्य चकार चूर्णं मुसलप्रहारैः । यः कृष्णमासाद्य बलं बलीयान् भक्त्या भजे तं बलभद्ररामम् ॥ पुरा पुराणामसुरान्विजेतुं सम्भावयन् चीवरजिह्मवेशम् । चकार यः शास्त्रममोघकल्पं तं मूलभूतं प्रणतोऽस्मि बुद्धम् ॥ ९॥ कल्पावसाने निखिलैः खुरैः स्वैः सङ्घट्टयामास निमेषमात्रात् । यस्तेजसा निर्दहतातिभीमो विश्वात्मकं तं तुरगं भजामः ॥ १०॥ शङ्खं सुचक्रं सुगदां सरोजं दोर्भिर्दधानं गरुडाधिरूढम् । श्रीवत्सचिह्नं जगदादिमूलं तमालनीलं हृदि विष्णुमीडे ॥ ११॥ क्षीराम्बुधौ शेषविशेषतल्पे शयानमन्तः स्मितशोभिवक्त्रम् । उत्फुल्लनेत्राम्बुजमम्बुजाभमाद्यं श्रुतीनामसकृत् स्मरामि ॥ १२॥ प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् । धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम् ॥ १३॥ इति दशावतारस्तोत्रं ६ सम्पूर्णम् ।