दशावतारस्तोत्रम् ५
या त्वरा जलसञ्चारे या त्वरा वेदरक्षणे ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ १॥
या त्वरा मन्दरोद्धारे या त्वरामृतरक्षणे
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ २॥
या त्वरा क्रोडवेषस्य विधृतौ भूसमुद्धृतौ ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ३॥
या त्वरा चान्त्रमालायाः धारणे पोथरक्षणे ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ४॥
या त्वरा वटुवेषस्य धारणे बलिबन्धने ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ५॥
या त्वरा क्षत्रदलने या त्वरा मातृरक्षणे ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ६॥
या त्वरा कपिराजस्य पोषणे सेतुबन्धने
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ७॥
या त्वरा रक्षहनने या त्वरा भ्रातृरक्षणे ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ८॥
या त्वरा गोपकन्यानां रक्षणे कंसमारणे ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ९॥
या त्वरा भैष्मिहरणे या त्वरा रुक्मिबन्धने ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ १०॥
या त्वरा बौद्धसिद्धान्तकथने बौद्धमोहने ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ११॥
या त्वरा तुरगारोहे या त्वरा म्लेच्छमारणे ।
मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ १२॥
सत्यव्रतार्यपुत्रेण भक्त्या कोनेरिणेरितम् ।
दशावतारस्तवकं पठन् मोक्षमवाप्नुयात् ॥ १३॥
इति कोनेरिणेरितं दशावतारस्तवकं समाप्तम् ॥
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):