अक्षर आकार:

दशावतारस्तोत्रम् २

DashAvatArastotram 2

दशावतारस्तोत्रम् २

यस्यालीयत शल्कसीम्नि जलधिः पृष्ठे जगन्मण्डलं दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी । क्रोधे क्षत्रगणः शरेदशमुखः पाणौ प्रलम्बासुरो ध्याने विश्वमसावधार्मिककुलं कस्मैचिदस्मै नमः ॥ १॥ पाठीनः कमठः किटिर्नरहरिः खर्वाकृतिर्भार्गवो रामः कंसनिषूदनो दशबलः कल्की च नारायणः । युष्माकं स विभूतयेऽस्तु भगवान्सेतुर्भवाम्भोनिधौ उत्ताराय युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः ॥ २॥ वेदा येन समुद्धता वसुमती पृष्ठे धृताप्युद्धृता दैत्येशो नखरैर्हतः फणिपतेर्लौकम् वलिःप्रापितः । क्ष्माऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी हिंसा दोषवती धराप्ययवना पायात्स नारायणः ॥ २॥ ॥ इति दशावतारस्तोत्रम् ॥