अक्षर आकार:

दशावतारस्तवःजयदेव

Dashavatarastavahjayadeva

दशावतारस्तवःजयदेव

(जयदेवकविकृतः) प्रलयपयोधिजले धृतवानसि वेदं, विहितवहित्रचरित्रमखेदम् । केशव धृतमीनशरीर, जय जगदीश हरे ॥ १॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे, धरणिधरणकिणचक्रगरिष्ठे । केशव धृतकच्छपरूप जय जगदीश हरे ॥ २॥ वसति दशनशिखरे धरणी तव लग्ना, शशिनि कलङ्ककलेव निमग्ना । केशव धृतसूकररूप, जय जगदीश हरे ॥ ३॥ तव करकमलवरे नखमद्भुतश‍ृङ्गं, दलित हिरण्यकशिपुतनुभृङ्गम् । केशव धृतनरहरिरूप, जय जगदीश हरे ॥ ४॥ छलयसि विक्रमणे बलिमद्भुतवामन, पदनखनीरजनितजनपावन । केशव धृतवामनरूप, जय जगदीश हरे ॥ ५॥ क्षत्रियरुधिरमये जगदपगतपापं, स्नपयसि पयसि शमितभवतापम् । केशव धृतभृगुपतिरूप, जय जगदीश हरे ॥ ६॥ वितरसि दिक्षु रणे दिक्पतिकमनीयं, दशमुखमौलिबलिं रमणीयम् । केशव धृतरामशरीर, जय जगदीश हरे ॥ ७॥ वहसि विपुषि विशदे वसनं जलदाभं, हलहतिभीतिमिलितयमुनाभम् । केशव धृतहलधररूप, जय जगदीश हरे ॥ ८॥ निन्दसि यज्ञविधेरहह श्रुतिजातं, सदयहृदयदर्शितपशुघातम् । केशव धृतबुद्धशरीर, जय जगदीश हरे ॥ ९॥ म्लेच्छनिवहनिधने कलयसि करवालं, धूमकेतुमिव कमपि करालम् । केशव धृतकल्किशरीर, जय जगदीश हरे ॥ १०॥ श्रीजयदेवकवेरिदमुदितमुदारं, श‍ृणु सुखदं शुभदं भवसारम् । केशव धृतदशविधरूप, जय जगदीश हरे ॥ ११॥ वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १२॥ इति जयदेवकविकृतः दशावतारस्तवः सम्पूर्णः ।