अक्षर आकार:

दशावतार हरिगाथा

dashAvatAra harigAthA

दशावतार हरिगाथा

प्रलयोदन्वदुदीर्ण-जलविहारा-निविशाङ्गम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ १॥ चरमाङ्गोद्ध्ऱ्६इत-मन्दरतटिनं कूर्मशरीरम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ २॥ सित-दंष्ट्रोद्धृत-काश्यपतनयम् सूकररूपम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ ३॥ निशित-प्राग्र-नखेन जित-सुरारिं नरसिंहम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ ४॥ त्रिपद-व्याप्त-चतुर्दश-भुवनं वामनरूपम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ ५॥ क्षपित-क्षत्रियवंश-नगधरं भार्गवरामम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ ६॥ दयिताचोर-निबर्हण-निपुणं राघवरामम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ ७॥ मुरली-निस्वन-मोहितवनितं यादवकृष्णम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ ८॥ पटुचाटिकृत-निस्फुट-जननं श्रीघनसंज्ञम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ ९॥ परिनिर्मूलित-दुष्टजन-कुलं विष्णुयशोजम् । कमलाकान्त-मण्डित-विभवाब्धिं हरिमीडे ॥ १०॥ अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम् । अयते प्रीतिमलं सपदि यया श्रीरमणोयम् ॥ ११॥ ॥ इति श्री विजयध्वजतीर्थकृता दशावतारहरिगाथा समाप्ता॥