अक्षर आकार:

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्सुप्रभातम्

Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Suprabhatam

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्सुप्रभातम्

श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः । कौसल्यासुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिष्ठनरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥ उत्तिष्ठोत्तिष्ठगोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥ उत्तिष्ठादिवराहत्वमुत्तिष्ठ कमलानिधे । कटाक्षैः करुणादिग्धैः स्वामिन् पालय विष्टपम् ॥ ३॥ कारुण्यपूर्णहृदये जगतां त्रयाणां मातस्सुसुन्दरतनो निगमाभिनुत्ये । पत्युर्हरेरुरसिनित्यविहारशीले श्रीश्रीनिवासदयितेतवसुप्रभातम् ॥ ४॥ तव सुप्रभातमरविन्ददृक्प्रिये भुजगाचलेशभुजमध्यमन्दिरे । सुरसुन्दरीभिरखिलाभिरादरात् कलितार्हणेऽस्तु कलिकल्मषापहे ॥ ५॥ दिव्यो भवत्प्रियतमः किल सूरिसङ्घो हंहो विकस्वरदयादिगुणं भवन्तम् । निर्वेष्टुमेति लघु दक्षिणशेषशैलं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ६॥ वाणीविहाररुचिरास्यचतुष्टयात्स्वात् निर्गच्छतो युगपदृङ्मुखवेदराशेः । वाक्यैर्विधित्सुरज एति सुमैस्तवार्चां श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ७॥ सप्तस्वरीमधुरसामगिरां सुगानात् त्वत्प्रीणनाय स शिवः शिवया समेतः । आरुह्य नन्दिनमुपैति तवान्तिकन्द्राक् श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ८॥ लक्ष्म्या त्वयाच किल लम्भितराज्यलक्ष्मी- र्दिव्यां स्रजं त्वदुरसः परिमण्डनार्हाम् । आदाय भक्तिभरितो मघवैति शच्या श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ९॥ देव त्वदीयकरुणां बहुलामभीप्सन् वह्यं निजं समधिरुह्य सहाग्रजेन । धामोपयाति तव षड्वदनो रयेण श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १०॥ देवा इमे निजसुधाशनताप्रसिद्धौ कूर्मत्वमन्थनसुसुन्दरमोहिनीत्वैः । नानोपकर्तुरिह ते नमनाय सज्जाः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ११॥ सौन्दर्यसान्द्रवपुषो नवयौवनाढ्या वासोविभूषणसुमैः परिभूषिताङ्गाः । देवस्त्रियस्तवसमीपमिमाः प्रपन्नाः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १२॥ आदित्यचन्द्रकुजचान्द्रि सुरार्यकाव्य- मन्दाश्च राहुरिति केतुरितिप्रतीतौ । एते ग्रहा नव पुरस्तव भान्ति भक्त्या श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १३॥ स्वर्लोकरक्षक इति प्रथितो मरुत्त्वान् साह्याय यं श्रयति सैष गुरुः पुरस्ते । सन्तिष्ठते पिपठिषुर्दिवसस्य शुद्धिं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १४॥ स्वर्लोकवैणिकवरौ च मिथस्सखायौ शेषाद्रि मेत्य लघु नारदतुम्बुरू द्वौ । उद्गायतस्तवयशो मधुरं पुरस्तात् श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १५॥ ऊरोस्तवोदयवती विदितोर्वशीयं नाट्येन तावकमनः परितोषणाय । हर्म्यं विशत्यहह तेसहिताप्सरोभिः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १६॥ मन्दाकिनीसलिलमध्यविगाह पूताः सप्तर्षयस्सुकृतिनः परिगृह्य पद्मान् । दिव्यां स्तवार्चनविधौ त्वरयोपयाताः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १७॥ नार्यो नराश्च सुजलाप्लवनेन शुद्धा- धौताम्बरास्सुतिलकाभरणा विनीताः । धामोपयन्ति तवपादनिषेवणाय श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १८॥ वाराहतीर्थकलिताप्लवना महान्तो वैखानसाः सुहृदया लसदूर्ध्वपुण्ड्राः । नित्यार्चनाय तव मन्दिरमाशुयन्ति श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ १९॥ श्रीवैष्णवास्सुमनसस्सुधृतोर्ध्वपुण्ड्राः सान्ध्यं समाप्य विधिमास्थितवेदनादाः । सङ्घीभवन्ति भवदङ्घ्रिनिषेवणाय श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २०॥ त्वत्कैङ्करीप्रवणवाक्तनुमानसोऽयं सीतादिराम इति शोभननामधेयः । प्रासादमेति शुभवस्तुकरैस्सह स्वैः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २१॥ वाराहपुष्करणिकाजलपूर्णकुम्भान् मूर्ध्नावहन्त उपयान्ति सबाद्यघोषाः । देव त्वदीय परिचार कृतिप्रवीणाः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २२॥ त्वद्विश्वरूपविधये च पुरः स्थिता ते वत्सेन साकमिह कामदुघासमा गौः । हेषारवं मधुरमातनुते तुरङ्गः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २३॥ क्रीडाशुकाः कनकपञ्जरगर्भभाजः त्वद्भुक्तशेषपय आद्युपयोगहृष्टाः । नामानि ते श्रुतिसुखानि पठन्ति रम्यं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २४॥ प्राच्यामुदेति सविता विकसन्तिपद्मा भृङ्गावलिर्ध्वनति है मधुपानमत्ता । वातस्सुशीतसुरभिः परिवाति मन्दं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २५॥ काले प्रबुध्य विहगास्तरुवासिनोऽमी आहार्यसङ्ग्रहकृते बहिरुत्पतन्तः । है कीशुकीशिति मनोहरमास्वनन्ति श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २६॥ आश्लिष्य कान्तमभिहृष्यति चक्रवाकी घूका विशन्ति तरसा तरुकोटराणि । अन्धं तमो गिरिगुहामधिगम्य लीनं श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २७॥ गोप्यश्च भाण्डदधिमन्थनसक्तहस्ताः कृष्णावतारचरितानि सुपावनानि । गायन्ति हन्त मधुरैर्निजकण्ठनादैः श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २८॥ सर्वेश सर्वगुणसागर सर्वबन्धो सर्वागमाभिनुत सर्वतनोऽन्तरात्मन् । योगाधिरूढसनकादिविभाव्यमान श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ २९॥ हैमीनकच्छपवराहनृसिंहखर्व- रूप प्रवृद्ध भृगुनन्दन राम राम । श्रीकृष्ण कर्कमधिरोढुमनः परेश श्रीश्रीनिवास भगवन् तव सुप्रभातम् ॥ ३०॥ श्रीश्रीनिवासभगवत्स्तुतिसुप्रभात- पद्यानि ये भुवि पठन्त्युषसीह मर्त्याः । तेषां प्रसन्नवदनो भगवान्प्रकामं दत्ते मनोरथफलान्यखिलानि सश्रीः ॥ ३१॥ सरलमिममुदारं राघवार्येण गीतं भुजगशिखरिवासी सुप्रभातस्तवं स्वम् । श्रुतिपथमुपनीय स्मेरवक्त्रः प्रहर्षात् पुलकितनिखिलाङ्गो राजते श्रीनिवासः ॥ ३२॥ इति सरलकविराघवाचार्यगीतं दक्षिणशेषाचलेशश्रीनिवासभगवत्सुप्रभातं सम्पूर्णम् । शुभमस्तु । श्रीः ।