अक्षर आकार:

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्स्तोत्रम्

Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Stotram

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्स्तोत्रम्

श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः । अयि दक्षिणशेषगिरीन्द्रशिर - स्युररीकृतनित्यनिवास हरे । रमयोरसि भास्वरया सुहितः सुचिरञ्जय रञ्जय सज्जनताम् ॥ १॥ भुवनत्रयभाग्यवशादुदितो भुजगोत्तमभूमिधरोपरिगः । रमया सहितस्स्वमनोरमया दयमानमना विहरेह हरे ॥ २॥ परिवर्धयितुं निजघर्मततिं परिपालयितुं निजभक्तजनान् । अपि पेषयितुं द्विषतोऽवतर- स्यहहेह हरे समये समये ॥ ३॥ अवतारभिदास्वखिलासु भवान् अजहत्परमेश गुणाद्यखिलम् । विरहासहया रमया समया प्रचकास्ति हरे भवतेऽस्तु नमः ॥ ४॥ नित्यसूरिनिषेवितं परमं पदं तदपि त्यजन् दुस्सहाघविदूनदीन नमज्जनावन तत्परः । देवदेव भुजङ्गशैलशिरश्रितोऽसि सहश्रिया त्वत्पदाम्बुजकिङ्करान्परिपालयाच्युत मादृशान् ॥ ५॥ मीनवपुरेत्य स भवानुदधिमध्ये वेदगणचोरमधुकैटभनिहन्ता । वेध उपगीतमहिमा व्यभवदद्धा सर्वगुणपूर्ण भगवन्मम नमस्ते ॥ ६॥ मन्दगिरिं पयसि मग्नमुपरुध्य त्वय्यहह कच्छपपते वहति पृष्ठे । मन्थनकृतस्सुरवरा अमृतमाश्नन् दैवगणपूजित हरे मम नमस्ते ॥ ७॥ भूमिमपहृत्य बहुधर्मजनिभूमिं सिन्धुजलमध्यमधिगत्य च निलीनम् । दैत्यमभिहत्य किटिरूप उद्धारी- स्तां त्रियुग भूदयित भो मम नमस्ते ॥ ८॥ त्रासितरिपुव्रज महाट्ट हसितैः स्वै- र्नाथ नरसिंह नयनारुणिमयोगात् । क्रोधनमरौ प्रियजने प्रसदनं है द्राक् कलयतेऽद्भुततनो मम नमस्ते ॥ ९॥ कृष्णमृगचर्मकृतसंवरणलक्ष्मीः वामनवटो बलिमुपेत्य यदयाचीः । तेन फलिनोऽजनिषतेन्द्रबलिलोकाः त्रिः कृतसुविक्रम हरे मम नमस्ते ॥ १०॥ साधितफले भृगुपते त्वदवतारे मैथिलसुतारमणमेत्य पथि रामम् । वैष्णवशरासनमहोऽर्पणमकार्षी- रास्थिततपस्य भगवन्मम नमस्ते ॥ ११॥ राम इति यस्य तव नाम निजजप्यं वक्ति गिरिशो रहसि पर्वतकुमारीम् । सर्वजनभव्यद सकृत्प्रणतिमात्रात् मैथिलसुतारमण राघव नमस्ते ॥ १२॥ राम भवदीयसहभावविरहाभ्यां हृष्यति विशुष्यति भवन्तमनुजातः । तादृगनुचारकृतिमोदितमुरारे श्रीधर बलाढ्य भवतान्मम नमस्ते ॥ १३॥ कृष्ण ! भवतो वदनपद्मत उदीता पार्थमपदिश्य समराग्रभुवि गीता । भाति जनतावृजिनशोषणशुभार्था सज्जनशरण्यचरणाम्बुज नमस्ते ॥ १४॥ विष्णुयशसस्सुततया कलियुगान्ते कर्कमधिरुह्य करदीप्रकरवालः । दुष्टजनतामिह निहत्य च सरोषं वैदिकपथं पुनरविष्यसि नमस्ते ॥ १५॥ ऋते श्रीनिवास गतिर्नो गतिर्नो सदा श्रीनिवासं स्मराणि स्मराणि । मयि श्रीनिवास प्रसीदेः प्रसीदेः शुभं श्रीनिवास प्रदद्याः प्रदद्याः ॥ १६॥ दयालो रमेश त्वदीयाङ्घ्रिपद्मौ सुदूरादिहागत्य भक्त्या निषेवे । सदासेविनां यत्फलं स्यात्तदेतत् सकृत्सेविने मे प्रदेहि प्रदेहि ॥ १७॥ अशेषानपि मेदोषान् श्रीनिवास प्रमादजान् । क्षमेथास्त्वं क्षमेथास्त्वं देवदेव दयानिधे ॥ १८॥ गोविन्दोपासनपर सीतारामो नाम त्वत्प्रियकारी । लक्ष्मीवास त्वज्जनहृद्यो जीयादस्यां भुवि शतमब्दान् ॥ १९॥ सुरगणकीर्तनगोचरपावनमङ्गलनामसहस्र विभो फणिपतिशेषमहीधरश‍ृङ्गविभूषणसुन्दरमन्दिर भोः । कमलगृहामृदुपाणिसरोरुहसंवहनासहपादयुग त्वमिह हरे विहरस्व चिरं विनमज्जनताशुभदायितया ॥ २०॥ शेषभूमिधरश‍ृङ्गविहारि श्रीनिवासभगवत्परितुष्ट्यै । स्तोत्रमेतदुदगीयत भक्त्या राघवेण कविना सरलेन ॥ इति सरलकविराघवसूरिगीतं दक्षिणशेषाचलेश श्रीनिवासभगवत्स्तोत्रं सम्पूर्णम् ।