अक्षर आकार:

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्प्रपत्तिः

Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Prapatti

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्प्रपत्तिः

श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः । श्रीनिवासहृदयङ्गमां रमां सन्नमद्भवखिदापहारिणीम् । नित्यफुल्लसरसीरुहासनां सुस्मितां शरणमाश्रयेश्रियम् ॥ १॥ सर्वज्ञ शक्तिभिरुपेत समस्तहेतो सर्वेश सर्वगुण सर्व हरे दयालो । लक्ष्मीपते प्रणतवत्सल चक्रपाणे श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ २॥ वज्रध्वजाङ्कुश सरोरुहशङ्ख चक्रै- रेखामयैः शुभकरैः परमत्वचिन्हैः । कान्तैर्विभूषिततलौ तव देवदेव श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ३॥ अत्यर्थ मार्दवयुतैः करपल्लवैः स्वैः संवाहने विरचिते कमलाधराभ्याम् । तज्जक्लमासहनसूचकरक्तवर्णौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ४॥ ब्रह्मेशदेवपतयो नियताधिकाराः सद्यस्तरन्ति विपदो हि ययोः प्रणामात् । स्थास्नुं भजन्ति च समीहितसिद्धिमेतौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ५॥ यत्संश्रितप्रिय जनावन नित्यसक्तो देव्याश्रिया कनसि दक्षिणशेषशैले । तौ नित्यमुक्तजनभोग्यतमावुदारौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ६॥ भावत्कपूजनविधावुपयोगभाजां उत्तुङ्गसौरभभृतां तुलसीदलानाम् । स्वच्छन्दकेलिनिलयाविव भासमानौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ७॥ त्रैलोक्यविक्रमविधिप्रसितौ तदा यौ इन्द्रं बलिं त्रिभुवनं च कृतार्थयन्तौ । सर्वेशितुस्तव यशोऽपुषतां भृशं तौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ८॥ रामात्मनस्तव शिला मिथिलाप्रयाणे स्पृष्टा यदीयरजसा किल शापमुक्ता । जाता हि गौतमवधूर्बत तौ निषेव्यौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ९॥ तौ दण्डकावननिवासितपोधनानां क्षेमानुयोग पदपद्मनिषेवणार्थम् । प्रत्याश्रमं रघुप ते गमने सहायौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १०॥ है बालकृष्ण भवतो हनेनप्रसक्तं दैत्यं विपोथ्य तरसा शकटं बलाढ्यम् । रक्षाविधेस्तव दिशास्वधिरूढकीर्ति श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ ११॥ सोलूखलस्य तव दामनि बद्धमूर्तेः गन्धर्वयुग्मतरुतामपनेतुमिच्छोः । है बालकृष्ण बतचङ्क्रमणे सखायौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १२॥ है वासुदेव यमुनाह्रदवासिघोर- दुष्कृत्यकालियफणावलिरङ्गमध्ये । निश्शङ्कनर्तनकृतो भवतोऽनुकूलौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १३॥ हे कृष्ण पाण्डवसख त्वरयोत्तराया गर्भं प्रविश्यभसितत्वदशान्निरस्य । सन्तानबीजमवतो भवतः सहायौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १४॥ यौ द्राविडस्य सुकवेः शठकोपसूरे- र्जिह्वाग्रपीठमधिगम्य हरे सुहृद्याम् । गाधामयीमपुषतां भवतः स्तुतिं तौ श्रीश्रीनिवास चरणौ शरणं प्रपद्ये ॥ १५॥ सीताभिराममहनीय महार्हणोत्क श्रीश्रीनिवासभगवच्चरणप्रपत्तिम् । श्रीराघवोऽकृत कविः पदवित् स इत्थं गम्भीरभावरुचिरैस्सरलैः स्वपद्यैः ॥ १६॥ इति श्रीदक्षिणशेषाचलेश श्रीश्रीनिवास भगवत्प्रपत्तिः समाप्ता ।