अक्षर आकार:

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवन्मङ्गलम्

Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Mangalam

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवन्मङ्गलम्

श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः । श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १॥ श्रीमद्दक्षिणशेषाद्रि शिरस्पदविहारिणे । प्रसन्नवेङ्कटेशाय श्रीनिवासाय मङ्गलम् ॥ २॥ सर्वमङ्गलरूपाय सर्वमङ्गलमूर्तये । सर्वमङ्गलदायास्तु श्रीनिवासाय मङ्गलम् ॥ ३॥ सर्वभूतशरण्याय सर्वप्रणतबन्धवे । सर्वकर्मभिरर्च्याय श्रीनिवासाय मङ्गलम् ॥ ४॥ सर्वन्तरात्मने सर्ववपुषे सर्वशक्तये । सर्वज्ञाय ब्रह्मणेऽस्तु श्रीनिवासाय मङ्गलम् ॥ ५॥ छत्रत्फणालिभोगीन्द्रभोगान्तस्स्थानमीयुषे । चतुर्भुजाय भद्राय श्रीनिवासाय मङ्गलम् ॥ ६॥ सर्ववेदैकवेद्याय सर्ववेदान्विजानते । सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ ७॥ आदिकोलेन चक्रेण वामदक्षिणपार्श्वयोः । भास्वराय श्रियः पत्ये श्रीनिवासाय मङ्गलम् ॥ ८॥ वामदक्षिणपाणिभ्यां पाञ्चजन्यसुदर्शनौ । मुदासदादधानाय श्रीनिवासाय मङ्गलम् ॥ ९॥ नमेदं मत्पदं भक्त सुतरस्स्याद्भवस्तव । इति सूचयते दोर्भ्यां श्रीनिवासाय मङ्गलम् ॥ १०॥ सतां भक्त्याप्रपत्त्या वा प्रसन्नाय दयालवे । अपवर्गप्रदायास्तु श्रीनिवासाय मङ्गलम् ॥ ११॥ अस्त्रभूषणतापन्नसर्वतत्त्वाय मायिने । सर्वेश्वरेश्वरायास्तु श्रीनिवासाय मङ्गलम् ॥ १२॥ सर्वश्रुत्यभिनूताय सर्वश्रेयोविधायिने । श्रियःकान्ताय पूर्णाय श्रीनिवासाय मङ्गलम् ॥ १३॥ चतुर्मुखादिभिः सर्वैः पूज्यमानाय निर्जरैः । भक्तानां सुलभायास्तु श्रीनिवासाय मङ्गलम् ॥ १४॥ रमानित्यविहाराढ्यविशालशुभवक्षसे । विश्वकल्याणरूपाय श्रीनिवासाय मङ्गलम् ॥ १५॥ उपत्यकाधित्यकयोर्दक्षिणस्याहिभूभृतः । द्विधा हनुमतार्च्याय श्रीनिवासाय मङ्गलम् ॥ १६॥ धर्मस्थापनसद्रक्षादुष्कृद् ध्वंसफलान् बहून् । भावानाश्रयते दिव्यान् श्रीनिवासाय मङ्गलम् ॥ १७॥ मङ्गलाशासनपरैस्सुरैस्सर्वैर्नरैरपि । आचार्यैश्चार्चितायास्तु श्रीनिवासाय मङ्गलम् ॥ १८॥ श्रीसीतारामसद्भक्त हृदयाम्बुजवासिने । तद्भक्ताभीष्टदायास्तु श्रीनिवासाय मङ्गलम् ॥ १९॥ वात्स्यराघवसूर्युक्तं श्रीनिवासाय मङ्गलम् । शुभदं यः पठेन्नित्यं स भवेत्सर्वमङ्गलः ॥ २०॥ इति श्रीदक्षिणशेषाचलेश श्रीनिवासभगवन् मङ्गलं सम्पूर्णम् । श्रीनिवासाय नमः ।