अक्षर आकार:

श्रीदैन्याष्टकम्

shrIdainyAShTakam

श्रीदैन्याष्टकम्

श्रीकृष्ण गोकुलाधीश नन्दगोपतनूद्भव । यशोदागर्भसम्भूत मयि दीने कृपां कुरु ॥ १॥ व्रजानन्द व्रजावास व्रजस्त्रीहृदयस्थित । व्रजलीलाकृतं नित्यं मयि दिने कृपां कुरु ॥ २॥ श्रीभागवतभावार्थरसात्मन् रसिकात्मक । नामलीलाविलासार्थं मयि दीने कृपां कुरु ॥ ३॥ यशोदाहृदयानन्द विहिताङ्गणरिङ्गण । अलकावृतवक्त्राब्ज मयि दीने कृपां कुरु ॥ ४॥ विरहार्तिव्रतस्थात्मन् गुणगानश्रुतिप्रिय । महादैन्यदयोद्भूत मयि दीने कृपां कुरु ॥ ५॥ अत्यासक्तजनासक्त परोक्षभजनप्रिय । परमानन्दसन्दोह मयि दीने कृपां कुरु ॥ ६॥ निरोधशुद्धहृदय दयितागीतमोहित । आत्यन्तिकवियोगात्मन् मयि दीने कृपां कुरु ॥ ७॥ स्वाचार्यहृदयस्थायिलीलाशतयुतप्रभो । सर्वथा शरणं याते मयि दीने कृपां कुरु ॥ ८॥ ॥ इति श्रीहरिदासविरचितं दैन्याष्टकं समाप्तम् ॥